2023-12-13 17:31:20 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शलाञ्छिताभिः कुसुम्भकेसरलवाश्लेषलोहिताभिर्लेखाभिरालि- खितस्वस्तिकभक्तिजालमुपरचयता [^१]हारिद्रद्रावविच्छुरणपि
[^२]ञ्जरिताम्बरधारिणीं भगवतीं षष्ठीं देवीं कुर्वता विकचपक्ष- पुटविकट [^३]शिखण्डिपृष्ठमण्डलाधिरूढमालोललोहितपट- घटितपताकमुल्लसितशक्तिदण्डप्रचण्डं कार्तिकेयं [^४]संघटयता विन्यस्तालक्तकपटलपाटलमध्यभागौ सूर्याचन्द्रमसाबाबध्नताकुटु- मपकपिञ्जरीकतामूर्ध्वप्रोतकनकमययवनिकरकण्टकितामविर- ललग्नगौरसिद्धार्थक [^५]प्रकारतया काञ्चनरसखचितामिव मृन्म- यगुटिकाकदम्बमालां विन्यस्यता चन्दनजलधवलितेषु भित्तिशिख-
रभागेषु पञ्चरागविचित्रचेलचीरकलापचिह्नामापीत [^६]पिष्टपङ्का- ङ्कितां [^७]वर्धमानपरम्परामन्यानि च [^८]सूतिकागृहमण्डन- मङ्गलानि संपादयता पुरंध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयत- विविधगन्धकुसुम-
 
[ टि ]-- कुसुम्मेति । कुसुम्भं [^1]कमलोत्तरं तस्य केसरलवाः किञ्जल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहिताभी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं तेन पिञ्जरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणीं भगवतीं षष्ठीं देवीम् । पुनः किं कुर्वता । संघटयता
रचयता । कम् । उल्लसितावुल्लासं प्राप्तौ यौ शक्तिदण्डौ, तत्र शक्तिरायुधविशेषः, दण्डो लगुडः, ताभ्यां प्रचण्डो भीषणो यः कार्तिकेयो गुहस्तम् । तमेव विशेषयन्नाह - विकचेति । विकच- पक्षपुटाभ्यां विस्तीर्णवाजपुटाभ्यां विकटो विपुलो यः शिखण्डी मयूरस्तस्य पृष्ठमण्डलं तत्राधिरूढमुपविष्टम् । आलोलाश्चञ्चला
लोहितपटघटिता रक्तवस्त्रनिर्मिताः पताका वैजयन्त्यो यस्मिन्स तम् । पुनः किं कुर्वता । आबध्नता [^2]बन्धनविषयीकुर्वता । कौ । सूर्याचन्द्रमसौ पुष्पवन्तौ । देवताद्वन्द्वत्वात्पूर्वपदस्य दीर्घता । तौ विशेषयन्नाह - विन्यस्तेति । विन्यस्तं रचितं यदलक्तकपटलं तेन पाटलौ श्वेतरक्तौ मध्यभागौ ययोस्तौ । पुनः किं कुर्वता । विन्य- स्यता स्थापयता । काम् । मृन्मयगुटिकाकदम्बमालां मृन्मय्यो मृत्तिकाभिर्निष्पन्ना या गुटिका गुलिका [^3]स्तासां कदम्ब: समूहस्तस्य माला स्रक् ताम् । मालां विशेषयन्नाह - कुङ्कुमेति । कुङ्कुमस्य केशरस्य यः पङ्कस्तेन पिञ्जरीकृतां पीतरक्तीकृताम् । ऊर्ध्वप्रोताः स्यूतां ये कनकमययवाः सुवर्णैण [^4]हयप्रियास्तेषां निकरः
समूहस्तेन कण्टकितां संजातकण्टकाम् । अविरलं निबिडं लग्नाः संबद्धा ये गौसिद्धार्थका गौरसर्षपास्तेषां
प्रका [^5]रस्तस्य भाव- स्तत्ता तया हेतुभूतया । काञ्चनस्य सुवर्णस्य यो रसस्तेन खचितामिव संबद्धामिव । अनेन
सुवर्णसर्षपयोः साम्यं प्रदर्शितम् । चन्दनेति । चन्दनं मलयजं तस्य जलं द्रवस्तेन धवलितेषु शुश्भ्री- कृतेषु
भित्तिशिखरभागेषु कुड्यप्रान्त प्रदेशेषु वर्धमानपरंरम्परां शरावश्रेणीमन्यानि च सूतिकागृहमरिष्टगृहं तस्य मण्ड-
नमङ्गलानि शोभाकारिरचना विशेषास्तानि संपादयता निष्पादयता । वर्धमान- परम्परां विशेषयन्नाह – पश्ञ्चेति ।
पञ्चरागैर्विचित्रा ये चेलचीरा वस्त्रखण्डास्तेषां कलापः समूहः स एव चिह्नं यस्यां सा ताम् । आ ईषत्पीतो
यः पिष्टपङ्कस्तेनाङ्कितां चिह्निताम् । पुनः प्रकारान्तरेण गृहं विशिनष्टि - उपेति । उपद्वारे द्वारसमीपे संयता
द्धा विविधो गन्धो यास्खेवेवंविधाः कुसुममालाः पुष्पस्रजस्ता भिरलंकृतो भूषितो जरच्छागो वृद्धोऽजो यस्मिमिं-

[^1]F
.
 
टिप्प० -- 1
महारजनपुष्पं 'कसूंभा' इति भाषा ।
[^2]F.
तण्डुलपिष्टद्वारा निर्मिमाणेन ।
[^
3]F. अथवा
गुलिका एव कदम्बानि कदम्बकुसुमानि तेषां मालामित्यर्थः ।
[^
4]F. सुवर्णनिर्मिता यवा ( यवधान्यानि )
सुवर्णघटितयवप्ग्रथनेन कण्टकितत्वं प्रतीयत इत्याशयः ।
[^
5]F. 'प्रकरतया' इत्येव पाठः । अविरलं यथा स्यात्तथा
संसक्तः श्वेतसर्षपाणां प्रकरः समूहो यस्मिन् तद्भावः, तत्तथा । सा माला गौरसर्षपयुक्ता, अत एव सुव.
र्णलेपखचितेव प्रतीयत इत्याशयः ।
 
पाठा०[^१]G. हरिद्र.
[^
]G. परिपिञ्जराम्बर .
[^
]G. शिखण्डिमण्डल, शिखिपृष्ठमण्डल.
[^
]G. संघट्टयता.
[^
]G. प्रकरतया.
[^]G. पिष्टक; पिष्टातक.
[6
]G. वर्धमानक.
[^
]G. प्रसवगृह.