2023-12-13 15:23:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१६०
 
शलाञ्छिताभिः कुसुम्भकेसरलवा श्लेष लोहिताभिर्लेखाभिरालि- खितस्वस्तिकभक्तिजालमुपरच-
यता
यता [^१]हारिद्रद्रावविच्छुरणपि

[^२]ञ्
जरिताम्बरधारिणीं भगवतीं षष्ठीं देवीं कुर्वता विकचपक्ष- पुटवि-
कटशिँ [^३]शि ण्डि पृष्ठमण्डलाधिरूढमालोललोहित पट- घटितपताकमुल्लसितशक्तिदण्डप्रचण्डं कार्ति-
केयं [^४]संघटयता विन्यस्तालक्तक पटल पाटलमध्यभागौ सूर्याचन्द्रमसाबाबघ्नता ध्नताकुटु- मपकपिञ्ज-
रीकतामूर्ध्वप्रोतकनकमययवनिकर कण्ट कितामविर- ललग्नगौर सिद्धार्थक [^५]प्रकारतया काञ्चनरस-
खचितामिव मृन्म- यगुटिका कदम्बमालां विन्यस्यता चन्दनजलधवलितेषु भित्तिशिख-
रभागेषु
पञ्चरागविचित्रचेलचीरकला
पचिह्नामापीत [^६]पिष्टपङ्का- ङ्कितां [^७]वर्धमान परम्परामन्यानि च [^८]सूतिका-
गृहमण्डन- मङ्गलानि संपादयता पुरंभिध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयत- विविधगन्धकुसुम-
कादम्बरी ।
 

 
[ कथावाम्-
टि ]-- कुसुम्मेति । कुसुम्भं कर्[^1]कमलोत्तरं तस्य केसरलवाः किञ्जल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहि-
ताभी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं
तेन पिञ्जरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणीं भगवतीं षष्ठीं देवीम् । पुनः किं कुर्वता । संघटयता

रचयता । कम् । उल्लसितावुल्लासं प्राप्तौ यौ शक्तिदण्डौ, तत्र शक्तिरायुध विशेषः, दण्डो लगुडः, ताभ्यां
प्रचण्डो भीषणो यः कार्तिकेयो गुहस्तम् । तमेव विशेषयन्नाह - विकचेति । विकच- पक्षपुटाभ्यां विस्ती-
र्णवाजपुटाभ्यां विकटो विपुलो यः शिखण्डी मयूरस्तस्य पृष्ठमण्डलं तत्राधिरूढमुपविष्टम् । आलोलाश्चञ्चला

लोहितपटघटिता रक्तवस्त्रनिर्मिताः पताका वैजयन्त्यो यस्मिन्स तम् । पुनः किं कुर्वता । आबनता ध्नता [^2]बन्धन
विषयीकुर्वता । कौ । सूर्याचन्द्रमसौ पुष्पवन्तौ । देवताद्वन्द्वत्वात्पूर्वपदस्य दीर्घता । तोतौ विशेषयचान्नाह -
विन्यस्तेति । विन्यस्तं रचितं यदलक्तकपटलं तेन पाटलौ श्वेतरक्तौ मध्यभागौ ययोस्तौ । पुनः किं
कुर्वता । विन्य- स्यता स्थापयंता । काम् । मृन्मयगुटिकाकदम्बमालां मृन्मय्यो मृत्तिकाभिर्निष्पन्ना या गुटिका
गुलिका [^3]स्तासां कदम्ब: समूहस्तस्य माला सकूस्रक् ताम् । मालां विशेषयन्नाह - कुङ्कुमेति । कुङ्कुमस्य केशरस्य यः
पङ्कस्तेन पिञ्जरीकृतां पीतरक्तीकृताम् । ऊर्ध्वप्रोताः स्यूतां ये कनकमययवाः सुवर्णैयप्रियास्तेषां निकरः

समूहस्तेन कण्टकितां संजातकण्टकाम् । अविरलं निबिडं लग्नाः संबद्धा ये गौर सिद्धार्थका गौरसर्षपास्तेषां

प्रकारस्तस्य भावस्तत्ता तया हेतुभूतया । काञ्चनस्य सुवर्णस्य यो रसस्तेन खचितामिव संबद्धामिव । अनेन

सुवर्णसर्षपयोः साम्यं प्रदर्शितम् । चन्दनेति । चन्दनं मलयजं तस्य जलं द्रवस्तेन धवलितेषु शुश्रीकृतेषु

भित्तिशिखरभागेषु कुड्यप्रान्त प्रदेशेषु वर्धमानपरंपरां शरावश्रेणीमन्यानि च सूतिकागृहमरिष्टगृहं तस्य मण्ड-

नमङ्गलानि शोभाकारिरचना विशेषास्त नि संपादयता निष्पादयता । वर्धमानपरम्परां विशेषयन्नाह – पश्चेति ।

पञ्चरागैर्विचित्रा ये चेलचीरा वस्त्रखण्डास्तेषां कलापः समूहः स एव चिह्नं यस्यां सा ताम् । आ ईषत्पीतो

यः पिष्टपङ्कस्तेनाङ्कितां चिह्निताम् । पुनः प्रकारान्तरेण गृहं विशिनष्टि - उपेति । उपद्वारे द्वारसमीपे संयता

भद्धा विविधो गन्धो यास्खेवंविधाः कुसुममालाः पुष्पसजस्ता भिरलंकृतो भूषितो जरच्छागो वृद्धोऽजो यस्मि-

.
 

 
टिप्प० -- 1 महारजनपुष्पं 'कसूंभा' इति भाषा । तण्डुलपिष्टद्वारा निर्मिमाणेन । 3 अथवा

गुलिका एव कदम्बानि कदम्बकुसुमानि तेषां मालामित्यर्थः । 4 सुवर्णनिर्मिता यवा ( यवधान्यानि ) ।

सुवर्णघटितयवप्रथनेन कण्टकितत्वं प्रतीयत इत्याशयः । 5 'प्रकरतया' इत्येव पाठः । अविरलं यथा स्यात्तथा

संसक्तः श्वेतसर्षपाणां प्रकरः समूहो यस्मिन् तद्भावः, तत्तथा । सा माला गौरसर्षपयुक्ता, अत एव सुव.

र्णलेपखचितेव प्रतीयत इत्याशयः ।
 

 
पाठा०. १ हरिद्र. २ परिपिञ्जराम्बर ३ शिखण्डिमण्डल, शिखिपृष्ठमण्डल. ४ संघट्टयता. ५ प्रकरतया.

६ पिष्टक; पिष्टातक. ७ वर्धमानक. ८ प्रसवगृह.