This page has not been fully proofread.

१६०
 
शलाञ्छिताभिः कुसुम्भकेसरलवा श्लेष लोहिताभिर्लेखाभिरालिखितस्वस्तिकभक्तिजालमुपरच-
यता हारिद्रद्रावविच्छुरणपि
जरिताम्बरधारिणीं भगवतीं षष्ठीं देवीं कुर्वता विकचपक्षपुटवि-
कटशिँख ण्डि पृष्ठमण्डलाधिरूढमालोललोहित पटघटितपताकमुल्लसितशक्तिदण्डप्रचण्डं कार्ति-
केयं संघटयता विन्यस्तालक्तक पटल पाटलमध्यभागौ सूर्याचन्द्रमसाबाबघ्नता कुटुमपकपिञ्ज-
रीकतामूर्ध्वप्रोतकनकमययवनिकर कण्ट कितामविरललग्नगौर सिद्धार्थक प्रकारतया काञ्चनरस-
खचितामिव मृन्मयगुटिका कदम्बमालां विन्यस्यता चन्दनजलधवलितेषु भित्तिशिखरभागेषु
पञ्चरागविचित्रचेलचीरकला
पचिह्नामापीतपिष्टपङ्काकितां वर्धमान परम्परामन्यानि च सूतिका-
गृहमण्डनमङ्गलानि संपादयता पुरंभिवर्गेण समधिष्ठितम् उपद्वारसंयतविविधगन्धकुसुम-
कादम्बरी ।
 
[ कथावाम्-
कुसुम्मेति । कुसुम्भं कर्मलोत्तरं तस्य केसरलवाः किअल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहि-
ताभी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं
तेन पिजरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणीं भगवतीं षष्ठीं देवीम् । पुनः किं कुर्वता । संघटयता
रचयता । कम् । उल्लसितावुल्लासं प्राप्तौ यौ शक्तिदण्डौ, तत्र शक्तिरायुध विशेषः, दण्डो लगुडः, ताभ्यां
प्रचण्डो भीषणो यः कार्तिकेयो गुहस्तम् । तमेव विशेषयन्नाह - विकचेति । विकचपक्षपुटाभ्यां विस्ती-
र्णवाजपुटाभ्यां विकटो विपुलो यः शिखण्डी मयूरस्तस्य पृष्ठमण्डलं तत्राधिरूढमुपविष्टम् । आलोलाश्चञ्चला
लोहितपटघटिता रक्तवस्त्रनिर्मिताः पताका वैजयन्त्यो यस्मिन्स तम् । पुनः किं कुर्वता । आबनता बन्धन
विषयीकुर्वता । कौ । सूर्याचन्द्रमसौ पुष्पवन्तौ । देवताद्वन्द्वत्वात्पूर्वपदस्य दीर्घता । तो विशेषयचाह -
विन्यस्तेति । विन्यस्तं रचितं यदलक्तकपटलं तेन पाटलौ श्वेतरक्तौ मध्यभागौ ययोस्तौ । पुनः किं
कुर्वता । विन्यस्यता स्थापयंता । काम् । मृन्मयगुटिक कदम्बमालां मृन्मय्यो मृत्तिकाभिर्निष्पन्ना या गुटिका
गुलिकास्तासां कदम्ब: समूहस्तस्य माला सकू ताम् । मालां विशेषयन्नाह - कुङ्कुमेति । कुङ्कुमस्य केशरस्य यः
पङ्कस्तेन पिञ्जरीकृतां पीतरक्तीकृताम् । ऊर्ध्वप्रोताः स्यूतां ये कनकमययवाः सुवर्णैयप्रियास्तेषां निकरः
समूहस्तेन कण्टकितां संजातकण्टकाम् । अविरलं निबिडं लग्नाः संबद्धा ये गौर सिद्धार्थका गौरसर्षपास्तेषां
प्रकारस्तस्य भावस्तत्ता तया हेतुभूतया । काञ्चनस्य सुवर्णस्य यो रसस्तेन खचितामिव संबद्धामिव । अनेन
सुवर्णसर्षपयोः साम्यं प्रदर्शितम् । चन्दनेति । चन्दनं मलयजं तस्य जलं द्रवस्तेन धवलितेषु शुश्रीकृतेषु
भित्तिशिखरभागेषु कुड्यप्रान्त प्रदेशेषु वर्धमानपरंपरां शरावश्रेणीमन्यानि च सूतिकागृहमरिष्टगृहं तस्य मण्ड-
नमङ्गलानि शोभाकारिरचना विशेषास्त नि संपादयता निष्पादयता । वर्धमानपरम्परां विशेषयन्नाह – पश्चेति ।
पञ्चरागैर्विचित्रा ये चेलचीरा वस्त्रखण्डास्तेषां कलापः समूहः स एव चिह्नं यस्यां सा ताम् । आ ईषत्पीतो
यः पिष्टपङ्कस्तेनाङ्कितां चिह्निताम् । पुनः प्रकारान्तरेण गृहं विशिनष्टि - उपेति । उपद्वारे द्वारसमीपे संयता
भद्धा विविधो गन्धो यास्खेवंविधाः कुसुममालाः पुष्पसजस्ता भिरलंकृतो भूषितो जरच्छागो वृद्धोऽजो यस्मि-
.
 
टिप्प० -- 1 महारजनपुष्पं 'कसूंभा' इति भाषा । तण्डुलपिष्टद्वारा निर्मिमाणेन । 3 अथवा
गुलिका एव कदम्बानि कदम्बकुसुमानि तेषां मालामित्यर्थः । 4 सुवर्णनिर्मिता यवा ( यवधान्यानि ) ।
सुवर्णघटितयवप्रथनेन कण्टकितत्वं प्रतीयत इत्याशयः । 5 'प्रकरतया' इत्येव पाठः । अविरलं यथा स्यात्तथा
संसक्तः श्वेतसर्षपाणां प्रकरः समूहो यस्मिन् तद्भावः, तत्तथा । सा माला गौरसर्षपयुक्ता, अत एव सुव.
र्णलेपखचितेव प्रतीयत इत्याशयः ।
 
पाठा०. १ हरिद्र. २ परिपिञ्जराम्बर ३ शिखण्डिमण्डल, शिखिपृष्ठमण्डल. ४ संघट्टयता. ५ प्रकरतया.
६ पिष्टक; पिष्टातक. ७ वर्धमानक. ८ प्रसवगृह.