2023-12-13 14:58:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सूतिकागृहवर्णनम् ]
 
पूर्वभागः ।
 
पार्थिवस्तु तनया [^५९
 
पार्थिवस्तु तनया
]ननदर्शनमहोत्सव हृतहृदयोऽपि दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते
मुहूर्ते निवारितनिखिलपरिजन: शुक- नासद्वितीयो मे[^२]मणिमयमङ्गलकै [^३]कलशयुगलाशून्येनासक्त- बहु-
[^४]पुत्रिकालंकृतेन विविधनवे व [^५]लवनि ल्लवनिवह निरन्तर निनिरन्तरनि-
चितेन संनिहितकनकमय हलमुसर् [^६]युगेन विर-
लम
लग्रथितसित- कुसुममिश्रदूर्वाप्रवालमालालंकृते [^७]नावलम्बिताविकलव्याघ्र- चर्मणा [^८]वन्दनमालिका-
न्तरालघटितघण्टागणेन [^९]द्वारेण विराजमानम्, उभयतब्धश्च द्वारपक्षकयोर्मर्यादानिपुणेन गोम-
यमयी- भित्तान विनिहितर्वै [^१०]वराटक दन्तुरा भिरन्तरान्तराबद्ध विविध- वर्णरागरुचिर [^११]कूर्पासकुसुमले-
M
 

 
[ टि ]--
कलकलेन कोलाहलेन मुखरो वाचालः । तदनन्तरं नृपतिर्यच्चकार तदाह - पार्थिव स्त्विति । पार्थिवो
राजापि सूतिका- गृह मरिष्टगृहमदर्शदिति दूरेणान्वयः । अथ राजानं विशिनष्टि-तनयेति । तनयः सुतस्तस्या-
ननं मुखं तस्य दर्शनेनावलोकनेन यो महोत्सवस्तेन हृतं गृहीतं हृदयं चित्तं यस्यैवंभूतोऽपि । कदा दद- र्शेत्यत
आह - दिवेति । दिवसवशेन । शुभदिना [^1]नुसारेणेत्यर्थः । मौहूर्तिकानां ज्योतिर्विदां गणस्तेनोपदिष्टे प्रशस्त
उत्कटफल- सूचके मुहूर्ते । निवारितो दूरीकृतो निखिलः समग्रः परिजनः परि- च्छदो येनेति राज्ञो विशेषणम् ।
शुकनास एव द्वितीयो यस्य स तथा । गृहं विशेषयन्नाह - द्वारेति । द्वारेण प्रतीहारेण विराजमानं शोभ- मा-
नम् । द्वारे विशेषयन्नाह - मणीति । मणिमयं रत्नमयं यन्मङ्गल- कलशयुगलं तेनाशून्येन । सर्वदा तत्संयुक्त-
नेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपणं क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपु.
त्रिका मषीलिखितास्ताभिरलं [^2]कृत- मिति गृहविशेषणम् । यस्मिन्गृहे प्रसूतिर्जायते तद्वारदेशे क्रम- व्युत्क्रमाभ्यां
मषीलिखिते संश्लिष्टे पुत्रिके क्रियते इति वृद्धाचारः । कैश्चित्तु बहुपुत्रिकाना श्लक्ष्णफलैरुपेतो विटपिविशेषः
कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपल्लवा नवकिस- लयास्तेषां निवहः समूहस्तेन
निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसल-
मयोप्ग्रम्, युगमीशान्तबन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद्देशाचारः । हलमुसलयोर्युग मिति
समासो वा । विरलेति । विरलानि प्ग्रथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि
तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवाल- मालया पल्लवश्रेण्यालंकृतं भूषितं तेनं । अवेति । अवल
म्बित- मविकलं संपूर्णं व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन । वन्दनेति । मङ्गल्यं पुष्पदाम वन्द-
नमालिका । 'तोरणार्थे तु मङ्गत्ल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः । तस्या अन्तराले मध्य-
विभागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह - उभयतश्चेति । पुरंध्रिवर्गेण ।
' पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः । किं कुर्वता । पुरंध्रिवर्गेण । आ-
लिखितो लिपीकृतः स्वस्तिकः प्रसिद्धो यस्मिन्ने- वंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः ।
द्वार- पक्षकयोः । उभयत उभयपार्श्वयोः । 'पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन
मर्यादा स्थितिस्तत्र निपुणे- नाभिज्ञेनेति पुरंध्रिवर्गस्य विशेषणम् । काभिः । लेखाभिर्वर्तिभिः । अथ लेखा
विशेषयायन्नाह- गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता
ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आब- द्धा नियमिता विविधवर्णा
नीलपीतादिधातवस्तेषां रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाश्छेदास्तैर्लाञ्छिताभिश्चिह्निताभिः ।
 
टिप्प० –

 
[^
1]F. शुभसमयानुरोधेनेत्यर्थः ।
[^
2]F. आसक्ताभिः परस्पराश्लिष्टाभिः संमिलिताभिर्वा बहुपुत्रि-

काभिः बहुपुत्रशालिनी भिर्नारीभिः अलंकृतेन इत्यर्थः । संतानरक्षा- शकुनार्थं ता द्वारोपरि उपस्थिता
 
भवन्तीत्याचारः ।
 
पाठा० -

 
[^
]G. दर्शनोत्सव.
[^
कनकमय]G. कनकमय.
[^
]G. कलशाशून्येन.
[^
]G. पुत्रिकाप्रतानेन.
[^
वन ]G. वन.
[^
]G. युगलेन.
[^
]G. आलम्बि
ताविरल; आलम्बिताविकट .
[^
]G. माला.
[^
]G. द्वारदशेन.
[^
१०]G. वराटकप्रकारदन्तुराभिः.
[^
११]G. कार्पास; कर्पास.