This page has not been fully proofread.

सूतिकागृहवर्णनम् ]
 
पूर्वभागः ।
 
१५९
 
पार्थिवस्तु तनयाननदर्शनमहोत्सव हृतहृदयोऽपि दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते
मुहूर्ते निवारितनिखिलपरिजन: शुकनासद्वितीयो मेणिमयमङ्गलकैलशयुगलाशून्येनासक्तबहु-
पुत्रिकालंकृतेन विविधनवे पलवनि वह निरन्तर निचितेन संनिहितकनकमय हलमुसर्युगेन विर-
लमथितसितकुसुममिश्रदूर्वाप्रवालमालालंकृते नवलम्बिताविकलव्याघ्रचर्मणा वन्दनमालिका-
न्तरालघटितघण्टागणेन द्वारेण विराजमानम्, उभयतब्ध द्वारपक्षकयोर्मर्यादानिपुणेन गोम-
यमयीभित्तान विनिहितर्वैराटक दन्तुरा भिरन्तरान्तराबद्ध विविधवर्णरागरुचिरकूपसकुसुमले-
M
 
कलकलेन कोलाहलेन मुखरो वाचालः । तदनन्तरं नृपतिर्यचकार तदाह - पार्थिव स्त्विति । पार्थिवो
राजापि सूतिकागृह मरिष्टगृहमदर्शदिति दूरेणान्वयः । अथ राजानं विशिनष्टि-तनयेति । तनयः सुतस्तस्या-
ननं मुखं तस्य दर्शनेनावलोकनेन यो महोत्सवस्तेन हृतं गृहीतं हृदयं चित्तं यस्यैवंभूतोऽपि । कदा ददर्शेत्यत
आह - दिवेति । दिवसवशेन । शुभदिनानुसारेणेत्यर्थः । मौहूर्तिकानां ज्योतिर्विदां गणस्तेनोपदिष्टे प्रशस्त
उत्कटफलसूचके मुहूर्ते । निवारितो दूरीकृतो निखिलः समग्रः परिजनः परिच्छदो येनेति राज्ञो विशेषणम् ।
शुकनास एव द्वितीयो यस्य स तथा । गृहं विशेषयन्नाह - द्वारेति । द्वारेण प्रतीहारेण विराजमानं शोभमा-
नम् । द्वारे विशेषयन्नाह - मणीति । मणिमयं रत्नमयं यन्मङ्गलकलशयुगलं तेनाशून्येन । सर्वदा तत्संयुक्त-
नेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपणं क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपु.
त्रिका मषीलिखितास्ताभिरलंकृतमिति गृहविशेषणम् । यस्मिन्गृहे प्रसूतिर्जायते तद्वारदेशे क्रमव्युत्क्रमाभ्यां
मषीलिखिते संश्लिष्टे पुत्रिके क्रियते इति वृद्धाचारः । कैश्चित्तु बहुपुत्रिकानाग श्लक्ष्णफलैरुपेतो विटपिविशेषः
कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपल्लवा नवकिसलयास्तेषां निवहः समूहस्तेन
निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसल-
मयोप्रम्, युगमीशान्तबन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद्देशाचारः । हलमुसलयोर्युग मिति
समासो वा । विरलेति । विरलानि प्रथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि
तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवालमालया पल्लवश्रेण्यालंकृतं भूषितं तेनं । अवेति । अवल
म्बितमविकलं संपूर्ण व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन । वन्दनेति । मङ्गल्यं पुष्पदाम वन्द-
नमालिका । 'तोरणार्थे तु मङ्गत्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः । तस्या अन्तराले मध्य-
विभागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह - उभयतश्चेति । पुरंध्रवर्गेण ।
' पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः । किं कुर्वता । पुरंध्रवर्गेण । आ-
लिखितो लिपीकृतः स्वस्तिकः प्रसिद्धो यस्मिन्नवंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः ।
द्वारपक्षकयोः । उभयत उभयपार्श्वयोः । 'पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन
मर्यादा स्थितिस्तत्र निपुणेनाभिज्ञेनेति पुरध्रिवर्गस्य विशेषणम् । काभिः । लेखाभिर्वर्तिभिः । अथ लेखा
विशेषयाह- गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता
ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आबद्धा नियमिता विविधवर्णा
नीलपीतादिधातवस्तेषां रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाइछेदास्तैर्लाञ्छिताभिश्चिह्निताभिः ।
 
टिप्प० – 1 शुभसमयानुरोधेनेत्यर्थः । 2 आसक्ताभिः परस्पराश्लिष्टाभिः संमिलिताभिर्वा बहुपुत्रि-
काभिः बहुपुत्रशालिनी भिर्नारीभिः अलंकृतेन इत्यर्थः । संतानरक्षाशकुनार्थं ता द्वारोपरि उपस्थिता
 
भवन्तीत्याचारः ।
 
पाठा० -१ दर्शनोत्सव. २ कनकमय. ३ कलशाशून्येन. ४ पुत्रिकाप्रतानेन. ५ वन ६ युगलेन. ७ आलम्बि
ताविरल; आलम्बिताविकट ८ माला. ९ द्वारदशेन. १० वराटकप्रकारदन्तुराभिः• ११ कार्पास; कर्पास.