This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
a
 
इतिशून्यकबुकिसहस्रो जनसंमर्दनिष्पिष्यमाणपतितकुजवामन
किरातगणो विस्फार्यमाणा-
न्तःपुरजनाभरणझङ्कारमनोहरः पूर्णपात्राहरणविलुप्यमानवसनभूषणः संक्षोभितनगरो राज
कुले दिष्टिवृद्धिसंभ्रमोऽतिमहानभूत् । अनन्तरं चै मैन्दरमध्यमानर्जंलधिघोषगम्भीरदुन्दुभि
ध्वानपुरःसरेण महतमृदुमृदङ्गशङ्ककाहलानक निवै
निर्भरेण मङ्गलपटहपटुरवसंवर्धितेनानेक
जनसहस्रकलकलबहुलेन त्रिभुवनमापूरयतोत्सवकोलाहलेन ससामन्ताः सान्तः पुराः सप्रकृ-
तयः सराजलोकाः सवेश्यायुवतयः सबालवृद्धा ननृतुरंगोपालमुन्मत्ता इव हर्षनिर्भराः
प्रजाः । प्रतिदिनमवर्धत चन्द्रोदयेनेव जलधिः कलकलमुखरो राजसूनोर्जममहोत्सनः ।
 
१५८
 
cond
 
2
 
प्रसृता विस्तृतास्तेषां हर्षोद्रेकात्स्खलन्ती या गतिर्गमनं तया शून्यं कञ्चुकिनां सौविदलानां सहस्रं यस्मिन्सः ।
अनेन सुतोत्पत्तिज्ञापनार्थं सर्वतः कञ्चुकिनः प्रवृत्ता इति ध्वनितम् । जनेति । जनानां संमर्देन समुदायेन
निष्पिष्यमाणाः पीड्यमाना अत एव पतिताः स्रस्ताः । येषां शिरः शिरोधिपृष्ठिपादं लक्षणोपेतं न भवति
पृष्ठयुदरहृदयं च सुलक्षणं स्यात्ते कुब्जाः । एतद्विपरीतास्तु वामनाः । केवलं स्वल्पतनवः किराताः । 'किरातः
स्यादरूपतनौ भूनिम्बे म्लेच्छभिल्लयोः' इत्यनेकार्थः । तेषां गणः समुदायो यस्मिन् सः । विस्फार्येति ।
विस्फार्यमाणो वृद्धिं प्राप्यमाणो योऽन्तःपुरजनानामाभरणझङ्कारोऽलंकारनिनादस्तेन मनोहरो हृदयहारी ।
पूर्णेति । उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृत्यते तत्पूर्णपात्रं तस्याहरणं ग्रहणं तेन विलुप्यमानानि गृह्यमाणानि
बलादाकृष्यमाणानि वसनभूषणानि यस्मिन् सः । संक्षोभितं क्षोभं प्रापितं नगरं येन स तथा । अनन्तरं
चेति । अनन्तरं सुतोत्पत्त्यनन्तरमुत्सवकोलाहलेन हर्षस्य निर्भरोऽतिशयो याखेवंविधाः प्रजा ननृतुर्नत्यं
चकुरित्यन्वयः । प्रजा विशिनष्टि - ससामन्ता इति । सामन्ताः स्वदेशपार्श्ववर्तिनो राजानस्तैः
सहवर्तमानाः, सान्तः पुरा अन्तः पुरेण सहिताः सप्रकृतयः प्रकृतिः पौरलोकस्तया सहवर्तमानाः, सराजलोकाः
राजलोको नृपसंबन्धिजनस्तेन सहिताः सवेश्यायुवतयो वेश्यायुवतिभिर्वाराङ्गनाभिरुपेताः, सबालवृद्धा
बालवृद्धैः सहिताः । आगोपालमिति । आ गोपालं बल्लवं मर्यादीकृत्य यथा स्यात्तथेति क्रियाविशेषणम् ।
क इव । उन्मत्ता इव क्षीबा इव उत्सवकोलाहलेन किं कुर्वता । आपूरयता पूर्णांकुर्वता । किम् । त्रिभुवनं
त्रिविष्टपम् । उत्सवकोलाहलं विशिष्टि - मन्दति । मन्दरेण मेरुणा मध्यमानो विलोड्यमानो यो जलधिः
क्षीराब्धिस्तरय घोषस्तद्वद्गम्भीरो यो मृदुर्मृदङ्गो मुरजः, शङ्खः कम्बु, काहलो वाद्यविशेषः, आनको
दुन्दुभिः तेषां निवहः समूहस्तेन निर्भरेण पूर्णेन । मङ्गलार्थ वाद्यते यः स मङ्गलपटहश्चर्मवाद्यं तस्य यः पटुरवः
स्पष्टः शब्दस्तेन संवर्धितेन वृद्धिं प्रापितेन, अनेके ये जनारतेषां सहस्रं तस्य यः कलकलः कोलाहलस्तेन बहु-
लेन दृढेन । अधिकोभूतेनेत्यर्थः । प्रतीति । प्रतिदिनं प्रत्यहं राजसूनोर्नृपात्मजस्य जन्ममहोत्सवो जनिक्षणोड-
वर्धत वृद्धिं प्राप । केनेव । चन्द्रोदयेन कुमुदबान्धवोद्गमनेन जलधिरिव समुद्र इव । कीदृग्जन्ममहोत्सवः ।
 
9
 
-
 
टिप्प० - 1 भूपालाभिमुखं प्रसृतं चलितं स्खलद्गतिशून्यम् ( अन्यस्मिन् समये वार्धक्येन स्खल-
द्वतियुक्तमपि संगति हर्षोद्रेकवशात् तच्छ्रन्यामेत्यर्थः ) । वस्तुतस्तु – 'भूपालाभिमुखप्रसृतस्खलद्गति-
विकलकलुकिसहलः' इत्येन पाठ: । भूपालाभिमुखं प्रसृतं, स्खलद्गति ( स्खलन्ती गतिर्यस्य तत्),
विकलम् मानन्दव्याकुलं च कबुकिनां सहस्रं यसिन् स इति तदर्थः ।
 
पाठा०-
-१ गतिवानुकि; गतिविकलकबुकि. २ घूर्णमान. ३ विलुठ्यमान. ४ च मध्यमान. ५ मन्दराराध्यमान.
६ जलनिषि. ७ खान. ८ प्रहतमृदङ्ग ९ निवहनिनादनिर्भरेण. १० सान्तः पुरजनाः• ११ आगोपम् १२ प्रतिक्ष-
णम्. १३ जलनिधिः, १४ जन्मनो महोत्सवः .