2023-12-12 10:36:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

इय [^१]मनया कथयापि लज्जते। त्यज कुलवर्धनाकथितवार्ता- संबद्धमालाप [^२]कम्' इत्यब्रवीत् । एवंविधाभिश्च नर्मप्रायाभिः कथाभिः सुचिरं स्थित्वा शुकनासः स्वभवनमयासीत् । नरेन्द्रोऽपि तस्मिन्नेव [^३]वासगृहे तया सह तां निशामत्यवाहयत् ।
 
ततः क्रमेण [^४]समीहितगर्भदोहदसंपादनप्रमुदिता [^५]पूर्णे प्रसवसमये पुण्येऽहन्यनवरतगलन्नाडिकाकलित [^६]कालकल- र्बहिरागृहीतच्छायैर्गणकैर्गृहीते लग्ने प्रशस्तायां वेलायामिरंमदमिव
मेघमाला सकललोकहृदयानन्दकारिणं विलासवतीं सुतमसूत । तस्मिञ्जाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशत- संक्षोभचलितक्षितितलो भूपालाभिमुखप्रसृतस्खल-
 
[ टि ] -- हे देव स्वामिन्, देवीं विलासवतीं किमायासयसि खेद- यसि । इयं देव्यनया पूर्वोक्तया कथया वार्तयापि
लज्जते त्रपां प्राप्नो- ति । त्यज दूरीकुरु । कुलवर्धना पूर्वोक्ता तथा कथिता प्रोक्ता या वार्ता प्रवृत्तिस्तत्संबद्ध-
मालापकं ज्ञातस्याप्यर्थस्यावेदने लज्जाकारि- वाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रा-
याभिः परिहासबाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभवनं
स्वगृहमयासीदाययौ । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां रात्रिं तया सह विलासवत्या सम-
मस्
मत्यवाहयदनैषीत् ।
 
तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जन- नस्य समय: कालस्तस्मिन्पूर्णे परि
पक्केवे सति गणकैज्र्ज्योतिर्विद्भि- र्गृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्त
वार्त
र्वर्तिहोरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी । समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो
मनोरथः । नानारसविषयकोsभिलाष इति यावत् । तत्य संपादनं परिपूर्णता- पादनं तया प्रमुदिता संतुष्टः
अथ गणका न्विनिन्विशिनष्टि - आगृहीतेति । बहिरङ्गणादावा गृहीता पूर्वपश्चिमादि [^1]देश विशेषेण निश्चिता छाया
यैः । अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका [^2]घटिकाँका। नाडिकाशब्दस्य सम
यवाचित्वेऽपि नाडी- बोधकं पात्रविशेषं लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः
नित्यं चलन्ती या नाडिका मुहूर्तार्धं तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला काद-
म्बिनीरंमद- मिव मेघवहिह्निमिव । 'मेघवहिह्निरिरंमदः' इति हैमः । सुतं विशेषयचान्नाह -- सकलेति । सकलाः
समग्रा ये लोकास्तेषां हृदयानि चित्तानि तेषामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिज-
नस्य बाह्याभ्यन्तर सेवकजनस्य राजकुले राज्ञां समुदाये राजगृहे वा दिष्टिरानन्दस्स्य या वृद्धिस्तस्याः
संभ्रमः सोत्साहकर्माविमहान- भूदित्यन्वयः । परिजनं विशेषयन्नाह - सरभसमिति । सरभसं त्वरितमित-
स्ततः समन्तात्प्रधावितस्योच्चलितस्य । दिष्टिसंभ्रमं विशेषय न्नाह-चरणेति । चरणानां पादानां शतं तस्माद्यः
संक्षोभः प्रधातस्तेन चलितं कम्पितं क्षितितलं यस्मात्स तथा । भूपालेति । भूपालाभिमुखं नृपसंमुख
 
टिप्प० - [^1]F. बहिः भागृहीता पादच्छाया शङ्कुच्छाया वा यैः । पाद- च्छाथायाग्रहणेन पूर्वं समयनिरूपण-
मक्रियत । यथा – 'पच्छायां द्विगुणीकृत्य चतुर्दशसमन्विताम् । पक्षग्रहकराद्भागलब्धं दण्डादिकं भवेत् ॥
इति ।
[^
2]F. समयनिरूपकय न्त्रविशेषः । सार्धद्वादशपलपरिमिततान्नम्र- निर्मितः सार्धद्वादशपलपरिमितजलदूर-
पूरणीयः पञ्चरत्तिकापरिमित- स्वर्णनिर्मितशलाकया अधश्छिद्रसंयुक्तो यन्त्रविशेष इत्यर्थः । तथाया च शलाकया
जलबिन्दुपतनात्तज्जले चिह्नविशेषोपगते समय- निरूपणं पूर्वमक्रियत ।
 
पाठा०-[^]G. अनयाषिपि कथया.
[^
]G. आलापम् ; आलापमपि .
[^
]G. वासगृहे ताम्.
[^
]G. यथासमीहित समुचित.
[^]G. पूर्णप्रसवः .
[^
]G. कले; कले, .
[^
]G. जलधरमाला,.