कादम्बरी /190
This page has been fully proofread once and needs a second look.
पूर्वभागः ।
१५७
इय
न्ड्
ततः क्रमेण [^४]समीहितगर्भदोहदसंपादनप्रमुदिता [^५]पूर्णे प्रस
मेघमाला सकललोकहृदयानन्दकारिणं विलासव
हे देव स्वामिन, देवीं विलासवत किमायासयसि खेदयसि । इयं देव्यनया पूर्वोक्तया कथया वार्तयापि
लज्जते त्रपां प्राप्नोति । त्यज दूरीकुरु । कुलवर्धना पूर्वोक्ता तथा कथिता प्रोक्ता या वार्ता प्रवृत्तिस्तत्संबद्ध-
मालापकं ज्ञातस्याप्यर्थस्यावेदने लजाकारिवाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रा-
याभिः परिहासबाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभवनं
स्वगृहमयासीदाययौ । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां रात्रिं तया सह विलासवत्या सम-
मस्यवाहयदनैषीत् ।
तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जननस्य समय: कालस्तस्मिन्पूर्ण परि
पक्के सति गणकैज्र्ज्योतिर्विद्भिगृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्त
वार्तहोरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी । समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो
मनोरथः । नानारसविषयकोsभिलाष इति यावत् । तत्य संपादनं परिपूर्णतापादनं तया प्रमुदिता संतुष्टः ।
अथ गणका न्विनिष्टि - आगृहीतेति । बहिरङ्गणादावा गृहीता पूर्वपश्चिमादिदेश विशेषेण निश्चिता छाया
यैः । अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका घटिकाँ। नाडिकाशब्दस्य सम
यवाचित्वेऽपि नाडीबोधकं पात्रविशेषं लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः ।
नित्यं चलन्ती या नाडिका मुहूर्तार्थ तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला काद-
म्बिनीरंमदमिव मेघवहिमिव । 'मेघवहिरिरंमदः' इति हैमः । सुतं विशेषयचाह -- सकलेति । सकलाः
समग्रा ये लोकास्तेषां हृदयानि चित्तानि तेषामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिज-
नस्य बाह्याभ्यन्तर सेवकजनस्य राजकुले राज्ञां समुदाये राजगृहे वा दिष्टिरानन्दस्वस्य या वृद्धिस्तस्याः
संभ्रमः सोत्साहकर्माविमहानभूदित्यन्वयः । परिजनं विशेषयन्नाह - सरभसमिति । सरभसं त्वरितमित-
स्ततः समन्तात्प्रधावितस्योच्चलितस्य । दिष्टिसंभ्रमं विशेषय नाह-चरणेति । चरणानां पादानां शतं तस्मायः
संक्षोभः प्रधातस्तेन चलितं कम्पितं क्षितितलं यस्मात्स तथा । भूपालेति । भूपालाभिमुखं नृपसंमुख
टिप्प० - 1 बहिः भागृहीता पादच्छाया शङ्कुच्छाया वा यैः । पादच्छाथाग्रहणेन पूर्व समयनिरूपण-
मक्रियत । यथा – 'पच्छायां द्विगुणीकृत्य चतुर्दशसमन्विताम् । पक्षग्रहकराद्भागलब्धं दण्डादिकं भवेत् ॥
इति । 2 समयनिरूपकय त्रविशेषः । सार्धद्वादशपलपरिमिततान्ननिर्मितः सार्धद्वादशपलपरिमितजलदूर-
णीयः पञ्चरत्तिकापरिमितस्वर्णनिर्मितशलाकया अधश्छिद्रसंयुक्तो यन्त्रविशेष इत्यर्थः । तथा च शलाकया
जलबिन्दुपतनात्तजले व चिह्नविशेषोपगते समयनिरूपणं पूर्वमक्रियत ।
पाठा०-१ अनयाषि कथया. २ आलापम् ; आलापमपि ३ वासगृहे ताम्. ४ यथासमीहित समुचित.
५ पूर्णप्रसवः ६ कले; कले, ७ जलधरमाला,