2023-09-03 17:51:38 by Lakshmainarayana achar

This page has been fully proofread twice.

व्यपदिशति 'तुन्दकूपीम्' इति ! तुन्दपदं हि प्रचण्डोदरायाः कस्याश्चित्पम्फुल्यमानमुदरं सूचयत् ( यत प्रफुल्लोदरस्तुन्दिल इत्युच्यते ) गहनान्धकारितं महान्तं नाभीगर्तं चेतसि चित्रयतीति मन्ये न वक्तव्यं भवेन्मार्मिकाणां कृते । किन्तु सर्वतो निमीलितनयनोऽयं न किञ्चित्पश्यति । येन केनापि रूपेण पर्याय-
पदस्थापनायैव सहस्रनयनः सन् सोयं जागरूकः । अन्यदपि व्याख्यानं दृश्यताम् – 'तडिद्भिः ऐरावतीभिः','शुष्काणि वानानि', 'पिपासा उदन्या', 'वल्कलोपान्तेन चोचाञ्चलेन' ।वल्कलोपान्तमित्यस्य योऽर्थं न ज्ञातवान् तदर्थं ह्येषा व्याख्याऽपेक्षिता, तस्य कृते चोचाञ्चलमिति किं सुखबोध्यं भवेत् ?
प्रसिद्धाऽप्रसिद्धयोरन्तरं न विदन्नेव किं 'निरन्तरव्याख्या' कारो भवति ?
 
टीकाकारमहाभागस्य व्याकरणज्ञानमप्यलौकिकम् । कर्म-कर्तृवाच्ययोः सर्वत्रापि निरर्गलं प्रयोगः । 'कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानः ( अहम् ) ' इत्यत्र 'मन्यमानः' इति कर्तृवाच्यक्रियाया: 'ज्ञायमानः' (पु. ७४ ) इति व्याख्या । एवं प्रायः सर्वत्रैव । आत्मनेपद-परस्मैपदव्यत्ययाः पदे पदे । 'व्रजमानानीव' संचरमाणानीव' (तृतीयान्तयोगं विनापि ) । 'निमज्जमानम्' 'कम्पति सति' 'उत्पश्यमानः' (पृ. ७५) 'अजनिषम्' इत्यादीनि स्थाने स्थाने । लिङ्गव्यत्ययाः प्रतिपदम् – 'बाहुवल्ल्यालिङ्गनान्' 'दन्तक्षतान्' 'कर्णावतंसानि' 'त्यज्यमानासु सत्सु,' 'श्वेतायमानासु सत्सु ' ( पू. ५४७)। ध्वनिशब्दस्य, 'रक्तिमा' इत्यादि
इमनिच्प्रत्ययान्तानां च प्रायः स्त्रीत्वमेव प्रयुक्तम् । 'पुस्तकान् शास्त्रान्' (२०५) । 'अप्रापम्, अप्रार्थयत,' इत्याद्यपि बहुत्र । शिष्या इत्यस्य लोकोत्तरा व्याख्या 'शिष्यिणी' इति (पृ. २२० ) । 'पराभवितस्य' 'रुदनम्' (पृ. ६८२) 'कार्यताम्' इत्येतस्य व्याख्या 'काराय्यताम् इत्यादि ('कराइये' इति 'हिन्दी) (पृ. ६६३ )
 
अलौकिकं व्याख्यानपाण्डित्यं तु स्थाने स्थाने, यस्य शोधनं 'चषक' टिप्पण्या कर्तुमाचेष्टितम् । इह तस्योल्लेखे मुधैव भूमिकाकायवृद्धिः स्यात् । यथा - 'दिग्विजयमङ्गलध्वजेन,''''''' त्रिभुवनमलङ्घ्यत रजसा' अर्थात् सैन्यसंघर्षोत्थं रजश्चन्द्रापीडकृत- दिग्विजयस्य मङ्गलध्वजः (माङ्गलिककेतुदण्डस्वरूपः ) ।
ध्वजवदुत्थानसादृश्यात् रजसि ध्वजत्वरूपणम् । टीकाकारमहाभागो व्याचष्टे - 'दिशां ककुभां यो विजयः
तत्र यन्मङ्गलं विघ्ननिवारकदधिदूर्वादि तस्य ध्वजेन केतुना' (पृ.२४९) । ( इयं लक्ष्मी:) पुस्तमय्यपि (अचेतनपुत्तलिकारूपापि) इन्द्रजालमाचरति [ अकस्मात् लक्ष्म्या विलोपात्]।' 'पुस्त' पदस्य
पुत्तलिकार्थे प्रयोगो यथा - 'पुस्तस्त्रीहस्तनिर्यत्' इत्यादि वाग्भटे । टीकाकारो व्याख्याति - 'पुस्तकमय्यपि ज्ञानमय्यपि' । निन्दां कुर्वाणस्य ज्ञानमयीति निर्देशः कियत्स्वाभाविक इति न विचारितं वराकेण (पृ. २२९) । 'अपि च अनेन ( कामेन) अधिष्ठितानां चिन्तया ( चिन्तावशात् ) प्रियमुखचन्द्रसहस्राणि पश्यन्तीनां कामिनीनां कृते संकटमम्बरतलम् ( मुखचन्द्रसहस्रसंकीर्णतया) संबाधं भवति । 'लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्,' [ अनेनाधिष्ठितानाम् अत एव विनोदार्थं दयितस्य प्रतिकृती- र्लिखन्तीनां (कामिनीनां हृदये ) महीमण्डलमविशालम्, यतो हि तच्चित्रिता दयिताकारास्तत्र न मान्ति ] । 'वल्लभगुणान् गणयन्तीनामल्पीयसी संख्या ' ( गुणगणनाकाले परार्धान्तापि संख्या अपर्याप्ता भवतीत्यर्थः ) । 'शृण्वतीनां प्रियतमकथामबहु- भाषिणी सरस्वती' ( प्रियकथां शृण्वतीनां कृते वाग्देवतात्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि कथया तासां श्रवणेच्छा न पूर्यत इत्यर्थः)। 'ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान् कालो हृदयस्थापतति' [ ध्यानवेलायां कालः सहसैव
समाप्यत इत्यर्थ: ] । टीकाकारमहाशयो व्याख्याति — 'अनेन कन्दर्पेणाधिष्ठितानाम् आश्रितानां कामिनीनां हृदयस्य ह्रसीयान् हासकृत्काल आपतति, अकस्मादागच्छति [ अयं महाभागः
ह्रसीयान् काल इति सर्ववाक्येषु योजयति ] । 'अथ कामिनीनां विशेषणानि - किं कुर्वन्तीनाम् । चिन्ताजनितं यत्प्रियमुखसहस्रं तेन संकटं संकीर्णं यदम्बरतलं तत्पश्यन्तीनां विलोकयन्तीनाम् ... ' इत्यादि । (पृ. ४७७)।