2023-12-12 08:39:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राज्ञो गर्भवार्तावगमः ]
 
१५५
 
ससंभ्रमपरिजनप्रसारितकरत [^१]लालम्बनावष्टम्मैन चावामजानु- विन्यस्तहस्तपल्लवां [^२]प्रचलित-
भूषणमणिरवमुखरमुत्तिष्ठन्तीं विलासवतीम् 'अलमलमत्यादरेण । देवि, नोस्त्थातव्यम्' इत्य-
भिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकर- [^३]चारुपादे धव-
लोपच्छदे [^४]चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् ।
 
पूर्वभागः ।
 

 
अथ तामुपारूढगर्भामालोक्य हर्षभरमन्थरेण मनसा प्रस्तुत परि- हासो राजा 'देवि,
शुकनासः पृच्छति – यदाह कुलवर्धना किमपि तत्किं तथैव' इत्युवाच । अं[^५]अथाव्यक्तस्मि
तच्छुरितकपोलाघरधर- लोचना लज्जया [^६]दशनांशुजालकव्याजेनांशुकेनेव मुखमाच्छा- दयन्ती
विलासवती तत्क्षणमधोमुखी तस्थौ । पुनःपुनआश्चा [^७]नुबध्य- माना 'कि[^८]किं मामतिमात्रं त्रपापरवशां
करोष । नाषि । नाहं किंचिदपि वेद्मि' इत्यभिधाना तिर्यग्वलिततारकेण चक्षुषावनतमुखी राजानं

साभ्यसूयमिनावापश्यत् । अपरिस्फुटहासज्योत्स्नाविशदेन मुखशशि- ना भूभुजां पै[^९]पतिरेनां
भूयो बभाषे- 'सुतनु, यदि मं[^१०]मदीयेन वचसा तव त्रपा वितन्यते तदयमहं स्थितो निभृ-

 
[ टि ]--
न्धिगृहे पृथगासने राजोपाविशदित्यर्थमाहुः । तामेव विशिनष्टि - ससंभ्रमेति । ससंभ्रमं सचकितं सवि-
लासं वा, परिजनेन सेवकजनेन प्रसारितं विस्तारितं यत्करतलं हस्ततलं तदेवालम्बन- माधारस्तस्यावष्टम्भेन
सहायेन वामेsपसव्ये जानौ नलकीले विन्य- स्तः स्थापितो हस्त एव पल्लवो ययेति गर्भवतीज्ञापकं लक्षणम् ।

प्रचलितानि भूषणानि तेषां मणिरवेण मुखरं वाचालं यथा स्यात्तथेति क्रियाविशेषणम् । अलमित्यनेनादराति-
शयः सूचितः । ततश्च शुक- नासोऽपि शयनान्तर आसनान्तरे न्यषीददुपविष्टवान् । तदेव विशेषयन्नाह - प्र.
मृष्टेति । प्रमृष्टमुज्ज्वलीकृतं यत् चामीकरं सुवर्णं तस्य चारवो मनोहराः पादा यस्मिन् ( यस्य ) । क्वचित्
'चारुपट्टे' इति पाठः । तत्र चारुः सुन्दरः पट्टो दृढबन्धो यस्मिन्नित्यर्थः । धवलः श्वेत उपच्छद उत्तरपटो
यस्मिन् । आसन्ने समीपवर्तिनि । अथेत्या- नन्तर्ये । तां विलासवतीमुपारूढः प्राप्तो गर्योभो ययैवंभूतामालोक्य

निरीक्ष्य राजा पार्थिव इत्युवाचेत्यब्रवीत् । कीदृक् । प्रस्तुतः प्रारब्धः परिहासो नर्मवचनविन्यासो येन सः ।
केन । मनसा चित्तेन । कीदृ- शेन । हर्षस्य प्रमोदस्य यो भरः संभारस्तेन मन्थरेणालसेन, प्रस्तुतो गर्भधार
णरूपो वृत्तान्तस्तत्र परिहासो हास्यमिति वा । एतदेव स्पष्टीकुर्वन्नाह- देवीति । हे देवि, चुशुकनासः
पृच्छति । कुलवर्धना किमपि यदाह तत्किकिं तथैवेति सव्यङ्ग्यः प्रश्नः । अथेति । अथ प्रश्नानन्तरमव्य-
क्तमस्फुटं यत्स्मितं हास्यं तेन छुरितानि विकसि- तानि कपोलाधरलोचनानि यस्याः सा । लज्जया त्रपया दशना
दन्तास्तेषामंशवः किरणास्तेषां जालकं समूहस्तस्य व्याजेन मिषे- णांशुकेनेव वस्त्रेणेव मुखमाननमाच्छादयन्ती
प्रच्छादनं कुर्वती विलासवती तत्क्षणं तस्मिन्समयेऽधोमुख्यवाङ्मुखी तस्थौ स्थिता । पुनरिति । अपश्यदि-
त्यन्वयः । किं क्रियमाणा । पुनः पुनर्वार्रवार- मनुबध्यमाना सनिर्बन्धं पृच्छ्यमाना । पुनः किं कुर्वाणा । इय-
त्यभि- दधानेतिब्रुवाणा । इतिवाच्यमाह -- किमिति । किमिति हेतुना मामतिमात्रमतिसंकटं त्रपापरवशां लज्जा-
यतां करोषि निर्मासि । नेति प्रतिषेधे । अहमित्यात्मनिर्देशः । किंचिदपि स्वल्पमात्रमपि वेझिद्मि जानामि ।
तिर्थमि
तिर्यगिति । तिर्यग्वलिता तारका कनीनिका यस्मि- न्नेवंभूतेन चक्षुषा नेत्रेणावनतमुख्यानम्रवदना राजानं
नृपं साभ्य- सूयमिव सहेर्ष्यया वर्तमानमिनावापश्यदिति प्रागुक्तमेव । पतिव्रताया धीरायास्ता हसदृशप्रश्न स्थास्यनुचित-
त्वात्साभ्यसूयमिति भावः । अपरिस्फु- टोsप्रकटो यो हासः स एव ज्योत्स्ना चन्द्रिका तथा विशदेन निर्मलेन
मुखशशिना वदनचन्द्रेणोपलक्षितो भूभुजां पती राजैनां विलासवतीं भूयः पुनरपि बभाष उवाच । किं
तदित्याह - सुतन्विति । सुष्नु शोभना तनुः शरीरं यस्याः सेति संबोधनपदम् । यदिति यत्तदोः संबन्धः ।
 
Con
 
टिप्प० -

 
[^
1]F. छुरितं कपोलाधरलोचनं यस्या हृत्येकवचन मेवोचितम्, प्राण्यङ्गत्वात् ।
 
पाडा० -

 
[^
]G. अवलम्बना.
[^
]G. प्रचल.
[^
]G. चारुपदे.
[^
]G. चासन्नशयनान्तरे .
[^
]G. अव्यक्तच्छुरित .
[^
]G. दशनांशुकजाल
 
.
[^
]G. अनुरुध्यमाना.
[^
]G. किं नाम मामूम्.
[^
]G. पतिर्भूयो.
[^
१०]G. मदीयवचसा,
 
.