कादम्बरी /187
This page has been fully proofread once and needs a second look.
रविच्छिन्नसलिल [^१]धारानुगम्यमानमार्गैः [^२]पटलकप्रज्वलि- तैश्च [^३]शीतलप्रदीपैर्गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभि- [^४]श्चाचारकुशलेनान्तःपुरजरतीजनेन क्रियमाणा [^५]वतरणक- मङ्गलाम्, धवलाम्बरविविक्तवेषेण प्रमुदितेन [^६]प्रस्तुतमङ्गल- प्रायालापेन परिजनेनोपास्यमानाम्, उपारूढगर्भतयान्तर्गतकुल- शैलामिव क्षितिम्, सलिलनिमग्नैरावतामिव मन्दाकिनीम्, गुहा- गतसिंहामिव गिरिराजमे [^७]खलाम्, जलधरपटलान्तरितदिन- करामिव [^८]दिवसश्रियम्, उदयगिरितिरोहितशशिमण्डलामिव विभावरीम्; अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आसन्नागस्त्योदयामिव दक्षिणाशाम्, फेनावृतामृतकलशामिव क्षीरोदवेलाम्, [^९]गोरोचनाचित्रितदशमनुप [^१०]हतमतिधवलं दुकूलयुगलं वसानां विलासवतीं ददर्श ।
[ टि ]-- कर्पूरप्रदीपैः । कीदृशैः । पटलके रक्तवस्त्रनिर्मित [^1]गृहे मण्डलके वा प्रज्वलितैरुद्दीपितैः । अविच्छिन्नेति ।
अवि- च्छिन्नाऽत्रुटिता या सलिलधारा जलधारा [^2]तथा अनुगम्यमा- नोऽनुष्ठी- यमानो मार्गो यैस्ते तथा तैः ।
गोरेति । गोरोचना प्रसिद्धा तया मिश्रैः संयुक्तैगर्गौरसर्षपैः श्वेतसिद्धार्थैः । पुनः कैः । सलिलस्य जलस्या-
ञ्जलयस्तैः । पुनर्विलासवर्तीतीं विशेषयन्नाह - धवलेति । धव- लाम्बरस्य श्वेतवाससो विविक्तो निश्चलो वेषो
नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपकाक्रान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप
आलापः संलापो यै[^3]यस्यैवंविधेन परिजनेन परिच्छदजनेनोपास्यमानां सेव्यमानाम् । अथोपमानान्तरेण तां
विशेषयन्नाह - उपेति । उपारूढः प्राप्तो यो गर्भस्तस्य भावस्तत्ता तया हेतुभूतयान्तर्गतः कुलशैलो यस्यामेवं
भूतां क्षितिमिव वसुधा- मिव । सर्वेषामाधारभूतत्वेन कुलशैलसुतयोः साम्यम् । सलिले पानीये निमग्नो बुब्रुडित
ऐरावतोऽभ्रमातङ्गो यस्यामेतादृशीं मन्दाकि-
नीं गङ्गामिव । गुहागतः कन्दराप्राप्तः सिंहो मृगारिर्यस्यामेवंवि-
विशि- ष्टां गिरिराजमेखलामिव हिमाचलमध्यमिव । जलधरपटलमभ्रवृन्दं तेनान्तरितो व्यवहितो दिनकरो
दिवसकरो यस्यामेतादृशीं दिवसत्- श्रियमिव वासरलक्ष्मीमिव । उदयगिरिणोदयाचलेन तिरोहितमा- च्छादितं
शशिमण्डलं यस्यामेवंभूतां विभावरी रजनीमिव । अभ्यर्णणं समीपे ब्रह्मकमलस्य धातृ [^4]रूपनलिनस्य विनि-
र्गमो बहिर्भावो यस्या- मेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसन्नः समी- पवर्त्य गस्त्यस्य पीता-
ब्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणा- शामिवावाची मिव । फेनेन डिण्डी रेणावृता आच्छादिता अमृत- [^5]कलशाः
पीयूषकुम्भा यस्मामेतादृशीं क्षीरोदवेलामिव दुग्धो- दधिजलवृद्धिमिव । गोरोचनया चित्रिता पिञ्जरीकृता
दशाः प्रान्ता यस्यैवंभूतमनुपहत मच्छिद्रमतिधवलमतिशुभ्रं दुकूलयुगलं दुकूल- युग्मं वसानां दधानाम् । अन्व-
यस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं
कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येव- मभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के
तया सह समुपाविश- दासे दिवान् । केचित्तु स्त्रीपुरुषयोरे कत्राव स्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयन सं
(
टिप्प० -ब-
[^1]F. वस्त्रनिर्मिते दीपाधारे 'कन्दील' 'ढोल' इति भाषाख्याते ।
[^2]F. केन चिज्जरतीजनेन
पश्चात् पश्चात् क्रियमाणा अविच्छिन्ना जलधारा येषु तानित्यर्थः ।
[^3]F. येनेत्युचितम् ।
[^4]F. विरिञ्चिजन्मस्थानी-
भूतपद्मस्येत्युचितम् ।
[^5]F. अमृतकलश इत्येकवचनमेवोचितम्, उपमायां बिम्बभूतस्य सुतस्यैकत्वात् ।
पाठा० -[^१]G. गम्यमान.
[^२]G. पटलप्र.
[^३]G. शीतलप्रदीपैश्च .
[^४]G. अभिचार, .
[^५]G. अवतारणक.
[^६]G. मङ्गल्य.
[^७]G. मेखलामिव.
[^८]G. दिनश्रियम् .
[^९]G. गोरोचनातिलक.
[^१०]G. मणिधवलम्.
[ टि ]-- कर्पूरप्रदीपैः । कीदृशैः । पटलके रक्तवस्त्रनिर्मित [^1]गृहे मण्डलके वा प्रज्वलितैरुद्दीपितैः । अविच्छिन्नेति ।
विशेषयन्नाह - उपेति । उपारूढः प्राप्तो यो गर्भस्तस्य भावस्तत्ता तया हेतुभूतयान्तर्गतः कुलशैलो यस्यामेवं
नीं गङ्गामिव । गुहागतः कन्दराप्राप्तः सिंहो मृगारिर्यस्यामेवं
कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येव- मभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के
(
टिप्प० -
[^1]F. वस्त्रनिर्मिते दीपाधारे 'कन्दील' 'ढोल' इति भाषाख्याते ।
[^2]F. केन
[^3]F. येनेत्युचितम् ।
[^4]F. विरिञ्चिजन्मस्थानी
[^5]F. अमृतकलश इत्येकवचनमेवोचितम्, उपमायां बिम्बभूतस्य सुतस्यैकत्वात् ।
[^२]G. पटलप्र.
[^३]G. शीतलप्रदीपैश्च
[^४]G. अभिचार
[^५]G. अवतारणक.
[^६]G. मङ्गल्य.
[^७]G. मेखलामिव.
[^९]G. गोरोचनातिलक.
[^१०]G. मणिधवलम्.