कादम्बरी /187
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
लिलधारानुगम्यमानमार्गैः पेटलकप्रज्वलितैश्च शीतलप्रदीपैगोरोचना मिश्रगौर-
१५४
रविच्छिन्नस
क्रियमाणावेतरणकमङ्गलाम्,
सर्षपैश्च सलिलाञ्जलिभिचाचारकुशलेनान्तःपुरजरतीजनेन
धवलाम्बर विविक्तवेषेण प्रमुदितेन प्रस्तुतमङ्गलप्रायाला पेन परिजनेनो पास्यमानाम्, उपारूढ़ -
गर्भतयान्तर्गतकुलशैलामिव क्षितिम्, सलिलनिममैरावतामिव मन्दाकिनीम्, गुहागतसिंहा-
मिव गिरिराजमेखलाम्, जलधरपटलान्तरितदिनकरामिव दिवर्सश्रियम्, उदयगिरितिरो-
हितशशिमण्डलामिव विभावरीम् ; अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आस-
नागस्त्योदयामिव दक्षिणाशाम्, फेनावृतामृत कलशामिव क्षीरोदवेलाम्, गोरोचनाचित्रित-
दशमनुपहतमतिधनलं दुकूलयुगलं वसानां विलासवतीं ददर्श ।
-
Ev
कर्पूरप्रदीपैः । कीदृशैः । पटलके रक्तवस्त्रनिर्मितगृहे मण्डलके वा प्रज्वलितैरुद्दीपितैः । अविच्छिन्नेति ।
अविच्छिन्नाऽत्रुटिता या सलिलधारा जलधारा तथा अनुगम्यमानोऽनुष्ठीयमानो मार्गो यैस्ते तथा तैः ।
गोरेति । गोरोचना प्रसिद्धा तया मिश्रैः संयुक्तैगरसर्षपैः श्वेतसिद्धार्थैः । पुनः कैः । सलिलस्य जलस्या-
जलयस्तैः । पुनर्विलासवर्ती विशेषयन्नाह - धवलेति । धवलाम्बरस्य श्वेतवाससो विविक्तो निश्चलो वेषो
नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपकान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप
आलापः संलापो यैस्यैवंविधेन परिजनेन परिच्छदजनेनोपास्यमानां सेव्यमानाम् । अथोपमानान्तरेण तां
विशेषयन्नाह - उपेति । उपारूढः प्राप्तो यो गर्भस्तस्य भावस्तत्ता तया हेतुभूतयान्तर्गतः कुलशैलो यस्यामेवं
भूतां क्षितिमिव वसुधामिव । सर्वेषामाधारभूतत्वेन कुलशैलसुतयोः साम्यम् । सलिले पानीये निमनो बुडित
ऐरावतोऽभ्रमातङ्गो यस्यामेतादृशीं मन्दाकिनीं गङ्गामिव । गुहागतः कन्दराप्राप्तः सिंहो मृगारिर्यस्यामेवंवि-
शिष्टां गिरिराजमेखलामिव हिमाचलमध्यमिव । जलधरपटलमभ्रवृन्दं तेनान्तरितो व्यवहितो दिनकरो
दिवसकरो यस्यामेतादृशीं दिवसत्रियमिव वासरलक्ष्मीमिव । उदयगिरिणोदयाचलेन तिरोहितमाच्छादितं
शशिमण्डलं यस्यामेवंभूतां विभावरी रजनीमिव । अभ्यर्ण समीपे ब्रह्मकमलस्य धातृरूपनलिनस्य विनि-
र्गमो बहिर्भावो यस्यामेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसन्नः समीपवर्त्य गस्त्यस्य पीता-
ब्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणाशामिवावाची मिव । फेनेन डिण्डी रेणावृता आच्छादिता अमृतकलशाः
पीयूषकुम्भा यस्मामेतादृशीं क्षीरोदवेलामिव दुग्धोदधिजलवृद्धिमिव । गोरोचनया चित्रिता पिञ्जरीकृता
दशाः प्रान्ता यस्यैवंभूतमनुपहत मच्छिद्रमतिधवलमतिशुभ्रं दुकूलयुगलं दुकूलयुग्मं वसानां दधानाम् । अन्व-
यस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं
कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येवमभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के
तया सह समुपाविशदासे दिवान् । केचित्तु स्त्रीपुरुषयोरे कत्राव स्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयन सं
(
टिप्प० - 1 वस्त्रनिर्मिते दीपाधारे 'कन्दील' 'ढोल' इति भाषाख्याते । 2 केन चिज्जरतीजनेन
पश्चात् पश्चात् क्रियमाणा अविच्छिन्ना जलधारा येषु तानित्यर्थः । 3 येनेत्युचितम् । 4 विरिञ्चिजन्मस्थानी-
भूतपद्मस्येत्युचितम् । 5 अमृतकलश इत्येकवचनमेवोचितम्, उपमायां बिम्बभूतस्य सुतस्यैकत्वात् ।
पाठा० -१ गम्यमान. २ पटलप्र. ३ शीतलप्रदीपैश्च ४ अभिचार, ५ अवतारणक. ६ मङ्गल्य. ७ मेखलामिव.
८ दिनश्रियम् ९ गोरोचनातिलक. १० मणिधवलम्.