2023-12-12 05:49:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गर्भवती विलासवती ]
 
पूर्वभागः ।
 
१५३
 
तपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्यस्तै [^१]स्तधवल- निद्रा [^२]मङ्गलकलशम् आद्ध विवि-
विविधौषधिमूलयन्नॅ [^३]यन्त्र- पवित्रम्, अवस्थापितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौर- सर्षपम्, अब-
.
[^४]अवलम्बित [^५]बालयोक्त्रप्रथित [^६]लोल- पिप्पलपत्रम्, आसक्तहरितारिष्टपल्लवम्, उत्तुङ्ग [^७]पादपीठ- प्रतिष्ठि-
तम्, इन्दुदीधितिवलप्रच्छदपटम्, अचलराजशिलातल- विशालम्, गर्भोचितं शयनतलम-
घि
धिशयानाम्, कनकपात्रपरिगृहीतै- रविच्छिन्न [^९]न्नविरलास्थितद्धिलवैर्जलतरङ्गतरलो तल [^१०]श्वेत- शालिसि-
क्थनिकरैरमर्ग्र [^११]ग्रथितंकुसुमसनाथैः पूर्णभाजनैर- खण्डिताननमत्स्यपटलैश्च प्रत्यग्रपिशित पिण्डमिश्रै-

 

 
[ टि ]--
दृश्यते हि देशविशेषे सद्यो गर्भसंभूत्यर्थं प्रथमतौंर्तौ नवो- ढायाः फलपत्रान्वितकदलिकथा क्रियते । गर्भानन्तरं
च पर्यङ्क उत्तरच्छदे शयनीयगृहभित्तौ वा फलपत्रान्विता लिखिता कल्पलता गर्भस्य पुष्ध्ट्यर्थं वृद्ध्यर्थं च
क्रियते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो

यस्मिन् । इयं च देशरीतिः । यदुक्तमन्यत्र – 'निद्राकलशो रूप्य-- मयः सर्वश्वेतः शिरोभागेऽहर्निशं पूर्णजलः
स्थाप्यते' इति । आब- द्धेति । आबद्धानि संयतानि विविधानामनेकप्रकाराणामोषधीनां मूलानि यन्त्राणि
चक्रव्यूहप्रभृतीनि पवित्राणि मन्त्रपूतगोरोचना- प्रभृतीनि यस्मिंस्तत् । अवेति । अवस्थापितानि पार्श्वे रक्षि
तानि रक्षार्थं शक्तीनां कात्यायन्यादीनां वलयानि बर्हनिर्मितानि यस्मिं- स्तथा । इतस्तत इति । इतस्ततः
समन्ताद्विप्रकीर्णा विक्षिप्ता गौर- सर्षपाः श्वेतसिद्धार्था यस्मिन् । अवेति । अवलम्बितानि बालानां केशानां
यो मुखबन्धनं तेन प्ग्रथितानि गुम्फितानि लोलानि चञ्चलानि पिप्पलपत्राण्यश्वत्थदलानि यस्मिन् । आसक्ता
अन्योन्यं संलग्ना हरिता नीला अरिष्टपल्लवा निम्बकिसलया यस्मिन् । उत्तुङ्गेति । उत्तुङ्गान्युच्चानि
यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्ठ- विशेषाणि तेषु प्रतिष्ठितम् । इन्द्विति । इन्दोश्चन्द्रस्य या
दीधितिः कान्ति [^1]स्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् । अचलेति । अचलराज्ये हिमाचलस्त-
स्मैिच्
[^2]स्मिञ्छिलातलं तद्वद्वि- शालं विस्तीर्णम् । गर्भेति । गर्भवत्यवस्थायामुचितं योग्यमेवंविधं शयनतलं शयनी-
यतलमधिशयानां विहितखास्वापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसक्ता या जरत्यो
वृद्धा योषित- स्तासां जनेन समुदायेन क्रियमाणं विधीयमानम [^3]वतरणकम- ङ्गलं यस्यास्ताम् । अवतरणकमङ्गलं यस्यास्ताम् । अवतरणकम.
लमुत्तारणमिति देशाचारव्यव- स्थया प्रसिद्धम् । कीदृशेन । आचारः कुलाचारस्तत्र कुशलेनाभि- ज्ञेन । ताने-
वाह - कनकेति । कनकस्य सुवर्णस्य पात्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता
बि
विरलावस्थिता अनि- बिडतया स्थिता ये दप्ध्नो लवाः खण्डास्तैः । जलेति । जलतरङ्गाः पानीयकल्लोला.
स्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्कौवौदनानां शालिलाजानां वा निकराः समूहास्तैः । अग्र-
थितेति । अप्ग्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः, पूर्णानि भृतानि भाजनानि
तैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवंविधैर्मत्स्यपटलैर्मीनसमूहैः ।

कीदृशैः । प्रत्यग्रं तत्कालीनं यत्पिशितं मांसं तस्य पिण्डाः प्रसिद्धास्तैर्मिश्रितैः । पुनः कैः । शीतलप्रदीपैः
 
टिप्प० -

 
[^
1]F. तद्वद् धवलः शुभ्र इत्युचितम् ।
[^
2]F. तस्येत्युचितम् ।
[^
3]F. 'अवतारणकमङ्गलाम्' इत्येवो.
चितः पाठः । दधिलव-शाल्योदनादिभृतैः पात्रैः भूताद्यपसारणार्थं कृतम् धनअवतारणकरूपं नीराजन रूपेण
पात्रपरिभ्रमणरूपं मङ्गलं यस्यास्ताम् । 'उतारा' इति देशभाषा'भवतारणं भूतादिग्रहे वस्त्राञ्लेऽर्चने'
इति मेदिनी
 
पाठा. विन्यस्तरत्न.

 
[^१]G. विन्यस्तरत्न.
[^
]G. मङ्गलम् .
[^
]G.न्त्रपवित्रम् ; पत्रम्.
[^
]G. अवलम्बि.
[^
]G. बालयोक्नुत्रुद्रधित. ग्रथित.
[^
]G. लोह;
लोहित .
[^
]G. दलम्.
[^
]G. पादपीठी.
[^
]G. अविच्छन्न .
[^
१०]G. सित.
[^
११]G. कुसुमाञ्जलि.
 

२० का०