This page has not been fully proofread.

गर्भवती विलासवती ]
 
पूर्वभागः ।
 
१५३
 
तपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्यस्तै धवल निद्रामङ्गलकलशम् आवद्ध विवि-
धौषधिमूलयन्नॅपवित्रम्, अवस्थापितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौरसर्षपम्, अब-
.लम्बितबालयोक्त्रप्रथितलोलपिप्पलपत्रम्, आसक्तहरितारिष्टपल्लवम्, उत्तुङ्गपादपीठप्रतिष्ठि-
तम्, इन्दुदीधितिघवलप्रच्छदपटम्, अचलराजशिलातलविशालम्, गर्भोचितं शयनतलम-
घिशयानाम्, कनकपात्रपरिगृहीतैर विच्छिन्न विरला व स्थितद्धिलवैजलतरङ्गतरलो तशालिसि-
क्थनिकरैरमर्थितंकुसुमसनाथैः पूर्णभाजनैरखण्डिताननमत्स्यपटलैश्च प्रत्यमपिशित पिण्डमिश्रै-

 
दृश्यते हि देशविशेषे सयो गर्भसंभूत्यर्थ प्रथमतौं नवोढायाः फलपत्रान्वितकदलिकथा क्रियते । गर्भानन्तरं
च पर्यक उत्तरच्छदे शयनीयगृहभित्तौ वा फलपत्रान्विता लिखिता कल्पलता गर्भस्य पुष्ध्यर्थं वृद्ध्यर्थं च
क्रियते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो
यस्मिन् । इयं च देशरीतिः । यदुक्तमन्यत्र – 'निद्राकलशो रूप्यमयः सर्वश्वेतः शिरोभागेऽहर्निशं पूर्णजलः
स्थाप्यते' इति । आबद्धेति । आबद्धानि संयतानि विविधानामनेकप्रकाराणामोषधीनां मूलानि यन्त्राणि
चक्रव्यूहप्रभृतीनि पवित्राणि मन्त्रपूतगोरोचनाप्रभृतीनि यस्मिंस्तत् । अवेति । अवस्थापितानि पार्श्वे रक्षि
तानि रक्षार्थ शक्तीनां कात्यायन्यादीनां वलयानि बर्हनिर्मितानि यस्मिंस्तथा । इतस्तत इति । इतस्ततः
समन्ताद्विप्रकीर्णा विक्षिप्ता गौरसर्षपाः श्वेतसिद्धार्था यस्मिन् । अवेति । अवलम्बितानि बालानां केशानां
यो मुखबन्धनं तेन प्रथितानि गुम्फितानि लोलानि चञ्चलानि पिप्पलपत्राण्यश्वत्थदलानि यस्मिन् । आसक्ता
अन्योन्यं संलग्ना हरिता नीला अरिष्टपल्लवा निम्बकिसलया यस्मिन् । उत्तुङ्गेति । उत्तुङ्गान्युच्चानि
यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्ठविशेषाणि तेषु प्रतिष्ठितम् । इन्द्विति । इन्दोश्चन्द्रस्य या
दीधितिः कान्तिस्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् । अचलेति । अचलराज्ये हिमाचलस्त-
स्मैिच्छिलातलं तद्वद्विशालं विस्तीर्णम् । गर्भेति । गर्भवत्यवस्थायामुचितं योग्यमेवंविधं शयनतलं शयनी-
यतलमधिशयानां विहितखापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसता या जरत्यो
वृद्धा योषितस्तासां जनेन समुदायेन क्रियमाणं विधीयमानमवतरणकमङ्गलं यस्यास्ताम् । अवतरणकम.
जलमुत्तारणमिति देशाचारव्यवस्थया प्रसिद्धम् । कीदृशेन । आचारः कुलाचारस्तत्र कुशलेनाभिज्ञेन । ताने-
वाह - कनकेति । कनकस्य सुवर्णस्य पात्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता
बिरलावस्थिता अनिबिडतया स्थिता ये दप्नो लवाः खण्डास्तैः । जलेति । जलतरङ्गाः पानीयकल्लोला.
स्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्कौदनानां शालिलाजानां वा निकराः समूहास्तैः । अग्र-
थितेति । अप्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः, पूर्णानि भृतानि भाजनानि
तैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवंविधैर्मत्स्यपटलैमनसमूहैः ।
कीदृशैः । प्रत्यग्रं तत्कालीनं यत्पिशितं मांसं तस्य पिण्डाः प्रसिद्धास्तमिश्रितैः । पुनः कैः । शीतलप्रदीपैः
 
टिप्प० - 1 तद्वद् धवलः शुभ्र इत्युचितम् । 2 तस्येत्युचितम् । 3 'अवतारणकमङ्गलाम्' इत्येवो.
चितः पाठः । दधिलव-शाल्योदनादिभृतैः पात्रैः भूताद्यपसारणार्थं कृतम् धनतारणकरूपं नीराजन रूपेण
पात्रपरिभ्रमणरूपं मङ्गलं यस्यास्ताम् । 'उतारा' इति देशभाषा । 'भवतारणं भूतादिग्रहे वस्त्राञ्जलेऽर्चने'
इति मेदिनी ।
 
पाठा. विन्यस्तरत्न. २ मङ्गलम् ३ मत्रपवित्रम् ; पत्रम्. ४ अवलम्बि. ५ बालयोक्नुद्रधित. ६ लोह;
लोहित ७ दलम्. ८ पादपीठी. ९ अविच्छन्न १० सित. ११ कुसुमाञ्जलि.
 
२० का०