2023-12-12 05:14:32 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१५२
 
कादम्बरी ।
 
स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा तया च दत्तप्रसादानन्तर- मवनितलाश्लिष्टललाटरेखया
शिरः प्रणामेनाभ्यर्चितः सह शुक- नासेनोत्थाय हर्षविशेष निर्भरेण [^१]त्वर्यमाणो मनसा पवनच-
लितनीलकुवलयदललीलाविडम्बकेन दक्षिणेनाक्ष्णा परिस्फुर- [^२]ताभिनन्द्यमानस्तत्काल सेवासमु-
चितेन विरलविरलेन परि- जनेनानुगम्यमानः पुरःसंसर्पिणीनामनिललोलै [^३]लस्थूल शिखानां में[^४]प्रदी-
पिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरसंहतिरै- [^५]रन्तःपुरमयासीत् ।
 
'

 
[^६]
तंत्र च सुकृतरक्षासंविधाने, नवसुं [^७]सुधानुलेपनधवलिते, प्रज्वलितमङ्गल [^८]प्रदीपे, पूर्णकल-
शौ
शा [^९]धिष्ठित [^१०]पक्षके, प्रत्यग्रलिखित मङ्गलै [^११]ल्यालेख्यो [^१२]ज्ज्वलितभिर्त्ति [^१३]भा गमनोहारिणि, [^१४]उपरचित-
[^१५]सिविताने, वितान- [^१६]पर्यन्तावबद्ध [^१७]मुक्तागुणे, मणिप्रदीप [^१८]प्रहत- तिमिरे वास [^१९]भवने भूँ[^२०]भूतिलिखि-
[ कथायाम्-

 
[ टि ]--
दादिभ्यो भूषणान्याभरणान्युन्मुच्योत्तार्य कुलवर्धनायै मह- त्तरिकायै दत्त्वा वितीर्य । कीदृशो नृपः । तथा
चेति । तया कुल- वर्धनयाभ्यर्चितः पूजितः । केन । शिरःप्रणामेनोत्तमाङ्ग प्रणमनेन । तां विशिष्टि
--- दत्तेति । दत्तो यः प्रीत्या प्रसादो वस्त्रपात्रादिरूप- स्तस्यानन्तरं पश्चादवनितले वसुधातले श्लिष्टा संयोजिता
ललाट- रेखालिकरेखा यया सा तया । अनेन राज्ञोऽतिवदान्यत्वं स्वस्मिन्न- भिनवोक्त्त्या राज्ञः संतोषकरणनि-
मित्तकोऽभिनिवेशश्च सूचितः । पुनः किं कृतवानित्याह – सहेति । सह समानकालं शुकनासेन उत्थाय
उत्थानं कृत्वा हर्षविशेषस्य प्रमोदातिशयस्य निर्भरो यस्मि- न्नेवंविधेन मनसा चित्तेन त्वर्यमाणस्त्वरां क्रिय-
माणः । पवनेति । पवनेन वायुना चलितं यन्नीलकुवलयं तस्य दलस्य या लीला तस्या विडम्बकेन तिरस्का
रिणा दक्षिणेनापसव्येनाक्ष्णा चक्षुषा परि- स्फुरता स्पन्दताभिनन्द्यमान आनन्द्यमानस्तत्कालीना या सेवा

सपर्या तस्यां समुचितेन योग्येन । विरलेति । विरलविरलेन वीप्सया द्वित्त्वम् । यथा यथा वासभवनाभ्यन्त-
रगमनं राज्ञस्तथा तथा विरल- विरलत्वं बोध्यम् । एवंविधेन परिजनेन परिच्छदेनानुगम्यमानोऽनु- व्रज्यमानः ।
पुर इति। पुरोऽग्रे संसर्पिणीनां व्रजन्तीनाम् । अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा
यासां तास्तासाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका । स्वार्थे कः । 'प्रत्ययस्थात्का- त्पूर्वस्यात इदाप्यसुपः '
इति कात्पूर्वमिकारः । तासां प्रदीपिका- नामालोकेन प्रकाशेन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरो-
त्तरप्रदेशे तिमिरसंहतिर्ध्वान्तसमूहो यस्येति राज्ञो विशेषणम् । अन्वयस्तु प्रागेवोक्तः ।
 

 
तत्र चेति । तत्र तस्मिन्नन्तः पुरे वासभवने शयनतलमधिशयानां विलासवतीं ददशैर्शेति दूरेणान्वयः ।
वासभवनं विशेषयन्नाह – सुकृतेति । सुष्टु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकि- नीडाकिनीप्रभृतीनां
प्रवेश प्रतिबन्धकर्मणि मन्त्राद्यौषधप्रकारो यस्मिन् । नवा प्रत्यग्रा या सुधा तस्या अनुलेपनेन धवलिते शुश्भ्री-

कृते । प्रज्वलितो मङ्गलाभिधः प्रदीपो यस्मिन् । पूर्णकलशैभृंतर्भृत- कुम्भैरधिष्ठितं पक्षकं पक्षद्वारं यस्मिन् ।
'पक्षद्वारं तु पक्षक' इति कोशः । प्रत्यग्रेति । प्रत्यग्रलिखितानि नूतनलिपीकृतानि यानि मङ्गल्यानि मङ्गले
हितान्यालेख्यानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कुड्यप्रदेशस्तेन मनोहारिण्यभिरामे ।

उपेति । उपरचितं निष्पादितं सितवितानं श्वेतकन्दको यस्मिन् । वितानेति । वितानमुल्लोचस्तत्पर्यन्तं
तत्प्रान्तं यावदवबद्धो मुक्तागुणो मुक्ताजालं यस्मिन् । मणीति । मणय एव प्रदीपास्तैः प्रहतं ध्वस्तं
तिमिरं तमो यस्मिन् । इतः परमेकादशभिः शयनतलं विशेषयन्नाह - भूतीति । भूत्या ऐश्वर्यार्थं लिखिता
या पत्रलता पत्रफलान्विता लता कल्पलता तया कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दार्ढ्यं यस्मिन् ।
टिप्प० -

 
[^
1]F. त्वरां कर्तुं प्रेर्यमाण इत्यर्थः ।
 
पाठा० -

 
[^
]G. पूर्यमाण:.
[^
]G. अभिवन्द्यमान.
[^
]G. लोलोच्छलच्छिखानाम्.

[^
]G. प्रदीपकानाम्.
[^
]G. तिमिरमन्त:पुरम्तः -
पुरम्
.
[^
]G. तत्र वसुकृत; तत्र बहुकृत .
[^
]G. सुधालेप.
[^
]G. दीपे.
[^
]G. अधिष्ठिते .
[^
१०]G. द्वारपक्षके; द्वारपक्षक.
[^
११]G. मङ्गल्यलेख्य.

[^
१२]G. उज्ज्वल.
[^
३]G. भागे.
[^
१४]G. समुपरचित.
[^
१५]G. सितवितान.
[^
१६]G. पर्यन्तस्थित .
[^
१७]G. मुक्तागणे.
[^
१८]G. प्रतिहत.

[^
१९]G. भुवने.
[^
२०]G. भूमि; भित्ति,
 
.