This page has not been fully proofread.

१५२
 
कादम्बरी ।
 
स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा तया च दत्तप्रसादानन्तरमवनितलाश्लिष्टललाटरेखया
शिरः प्रणामेनाभ्यर्चितः सह शुकनासेनोत्थाय हर्षविशेष निर्भरेण त्वर्यमाणो मनसा पवनच-
लितनीलकुवलयदललीलाविडम्बकेन दक्षिणेनाक्षणा परिस्फुरताभिनन्द्यमानस्तत्काल सेवासमु-
चितेन विरलविरलेन परिजनेनानुगम्यमानः पुरःसंसर्पिणीनामनिललोलैस्थूल शिखानां मेंदी-
पिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरसंहतिरैन्तःपुरमयासीत् ।
 
'तंत्र च सुकृतरक्षासंविधाने, नवसुंधानुलेपनधवलिते, प्रज्वलितमङ्गलप्रदीपे, पूर्णकल-
शौधिष्ठितपक्षके, प्रत्यग्रलिखित मङ्गलैयालेख्योज्वलितभिर्त्तिभागमनोहारिणि, उपरचित-
सिविताने, वितानपर्यन्तावबद्धमुक्त गुणे, मणिप्रदीपप्रहततिमिरे वासभवने भूँतिलिखि-
[ कथायाम्-
दादिभ्यो भूषणान्याभरणान्युन्मुच्योत्तार्य कुलवर्धनायै महत्तरिकायै दत्त्वा वितीर्य । कीदृशो नृपः । तथा
चेति । तया कुलवर्धनयाभ्यर्चितः पूजितः । केन । शिरःप्रणामेनोत्तमाङ्ग प्रणमनेन । तां विशिष्टि
दत्तेति । दत्तो यः प्रीत्या प्रसादो वस्त्रपात्रादिरूपस्तस्यानन्तरं पश्चादवनितले वसुधातले श्लिष्टा संयोजिता
ललाटरेखालिकरेखा यया सा तया । अनेन राज्ञोऽतिवदान्यत्वं स्वस्मिन्नभिनवोत्त्या राज्ञः संतोषकरणनि-
• मित्तकोऽभिनिवेशश्च सूचितः । पुनः किं कृतवानित्याह – सहेति । सह समानकालं शुकनासेन उत्थाय
उत्थानं कृत्वा हर्षविशेषस्य प्रमोदातिशयस्य निर्भरो यस्मिन्नेवंविधेन मनसा चित्तेन त्वर्यमाणस्त्वरां क्रिय-
माणः । पवनेति । पवनेन वायुना चलितं यन्नीलकुवलयं तस्य दलस्य या लीला तस्या विडम्बकेन तिरस्का
रिणा दक्षिणेनापसव्येनाक्ष्णा चक्षुषा परिस्फुरता स्पन्दताभिनन्द्यमान आनन्द्यमानस्तत्कालीना या सेवा
सपर्या तस्यां समुचितेन योग्येन । विरलेति । विरलविरलेन वीप्सया द्वित्त्वम् । यथा यथा वासभवनाभ्यन्त-
रगमनं राज्ञस्तथा तथा विरलविरलत्वं बोध्यम् । एवंविधेन परिजनेन परिच्छदेनानुगम्यमानोऽनुव्रज्यमानः ।
। सर्पिणीनां व्रजन्तीनाम् । अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा
यासां तास्तासाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका । स्वार्थे कः । 'प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः '
इति कात्पूर्वमिकारः । तासां प्रदीपिकानामालोकेन प्रकाशन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरो-
त्तरप्रदेशे तिमिरसंहतिर्ध्वान्तसमूहो यस्येति राज्ञो विशेषणम् । अन्वयस्तु प्रागेवोक्तः ।
 
तत्र चेति । तत्र तस्मिन्नन्तः पुरे वासभवने शयनतलमधिशयानां विलासवतीं ददशैति दूरेणान्वयः ।
वासभवनं विशेषयन्नाह – सुकृतेति । सुष्टु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकिनीडाकिनीप्रभृतीनां
प्रवेश प्रतिबन्धकर्मणि मन्त्राद्यौषधप्रकारो यस्मिन् । नवा प्रत्यग्रा या सुधा तस्या अनुलेपनेन धवलिते शुश्री-
कृते । प्रज्वलितो मङ्गलाभिधः प्रदीपो यस्मिन् । पूर्णकलशैभृंतकुम्भैरधिष्ठितं पक्षकं पक्षद्वारं यस्मिन् ।
'पक्षद्वारं तु पक्षक' इति कोशः । प्रत्यग्रेति । प्रत्यग्रलिखितानि नूतनलिपीकृतानि यानि मङ्गल्यानि मङ्गले
हितान्यालेख्यानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कुड्यप्रदेशस्तेन मनोहारिण्यभिरामे ।
उपेति । उपरचितं निष्पादितं सितवितानं श्वेतकन्दको यस्मिन् । वितानेति । वितानमुल्लोचस्तत्पर्यन्तं
तत्प्रान्तं यावदवबद्धो मुक्तागुणो मुक्ताजालं यस्मिन् । मणीति । मणय एव प्रदीपास्तैः प्रहतं ध्वस्तं
तिमिरं तमो यस्मिन् । इतः परमेकादशभिः शयनतलं विशेषयन्नाह - भूतीति । भूया ऐश्वर्यार्थं लिखिता
या पत्रलता पत्रफलान्विता लता कल्पलता तया कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दार्ढ्य यस्मिन् ।
टिप्प० - 1 त्वरां कर्तुं प्रेर्यमाण इत्यर्थः ।
 
पाठा० -१ पूर्यमाण:. २ अभिवन्द्यमान. ३ लोलोच्छलच्छिखानाम्.
४ प्रदीपकानाम्. ५ तिमिरमम्तः -
पुरम् ६ तत्र वसुकृत; तत्र बहुकृत ७ सुधालेप. ८ दीपे. ९ अधिष्ठिते १० द्वारपक्षके द्वारपक्षक. ११ मङ्गल्यलेख्य.
१२ उज्ज्वल. १२ भागे. १४ समुपरचित. १५ सितवितान. १६ पर्यन्तस्थित १७ मुक्तागणे. १८ प्रतिहत.
१९ भुवने. २० भूमि; भित्ति,