कादम्बरी /184
This page has not been fully proofread.
गर्भवार्ताऽवगमः ]
पूर्वभागः ।
१५१
मपश्यञ्छुकनासः स्वयमुत्प्रेक्ष्य समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रंकट मावभाषे-
'देव, अस्ति किंचित्तस्मिन्स्वप्नदर्शने सत्यम् ? अत्यन्तमुत्फुल्ललोचना हि कुलवर्धना
दृश्यते । देवस्यापीदं प्रियवचनश्रवणकुतूहलादिव श्रवणमूलमुपसर्पदुपरचय दिव नीलकुवल-
यकर्णपूरशोभा मानन्दजलपरिप्त तरलतारकं विकसदावेदयति महत्प्रकर्षकारणमीक्षणयुग-
लम् । उपारूढमहोत्सव श्रवणकुतूहलमुत्सुकत्सुकं काम्यति मे मनः । तदावेदयतु देवः
किमिदम्' इत्युक्तवति तस्मिन्राजा विहस्याब्रवीत् – 'यदि सत्यमनया यथा कथितं तथा
सर्वमवितथं स्वप्नदर्शनम् । अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं
हि वयमीदृशानां प्रियवचन श्रवणानाम् । अवितथवादिनीमध्यहं कुलवर्धनामेवंविधानां कल्या-
णानामसंभावितमात्मानं मन्यमानो विपरीतामिवाद्य पश्यामि । तदुत्तिष्ठ । स्वयमेव गत्वा
किमत्र सत्यमिति देवीं वृष्ट्वा ज्ञास्यामि' इत्यभिधाय विसृज्य सकलनरेन्द्रलोकर्मुन्मुच्य
विलासवत्या समाचीर्णानि ब्रतानि तन्महिम्नावश्यमेतस्या गर्भो भविष्यतीत्येतादृशस्यार्थस्य सततं निरन्त
मनसि चित्ते विपरिवर्तमानत्वादृढं स्मर्यमाणत्वादविदितोऽज्ञातो वृत्तान्तो गर्भधारणरूपो येन स तथैवंविधोऽपिं
शुकना सस्तत्कालोचितं तत्समययोग्यसूपरमन्यदतिमहतोऽत्युत्कृष्टस्य हर्षस्य प्रमोदस्य कारणं नियामकमपश्यं
ननवलोकयन्वयमात्मनोत्प्रेक्ष्य विचार्य समुत्सर्पितमूवकृतमा सनमवस्थितिबन्धो येन स तथा । समीप
तरमतिनिकटमुपसृत्य गत्वा । राज्ञ इति शेषः । नातिप्रकटं सुगोप्यं यथा स्यात्तथा बभाषेऽवोचत् । किं
तदित्याह - देवेति । हे देव हे स्वामिन्, तस्मिन्पूर्वोक्त स्वरूपे स्वप्नदर्शने किंचित्सत्यमस्ति तद्देवो भवानावे
दयतु निवेदयतु । कुत इत्यत आह - अत्यन्तेति । हि यस्मात्कारणादियं कुलवर्धनासन्तमुत्फुल्ललोचनो-
प्राबल्येन विकसितनेत्रा दृश्यतेऽक्लोक्यते । देवस्यापि स्वामिनोऽपीदमीक्षणयुगलं नेत्रयुग्मं महत्प्रकर्षकार-
णम् । प्रमोदस्येति शेषः । आवेदयति निवेदयति । किं कुर्वत । विकसद्विकास प्राप्नुवत् । तदेव विशिनष्टि -
प्रियेति । प्रियमिष्टं यद्वचनं वचस्तस्य श्रवणमाकर्णनं तस्य कुतूहलं कौतुकं तस्मादिव श्रवणमूलं कर्णमूल-
मुपसर्पद्गच्छत् । नीलं यत्कुवलयं कुवेलं तल्लक्षणं यत्कर्षपूरं कर्णाभरणं तस्य शोभां कान्तिमुपरचयदिव
निष्पादयदिव । आनन्देति । आनन्दजलं प्रमोदबाष्पस्तेन परिश्रुता व्याप्ता तरला चपला तारका कनीनिका
यस्य तृत् । उपारूढं प्राप्तं महोत्सवस्य महामहस्य श्रवणकुतूहलं येन तत् । उत्सुकोत्सुकम् । अत्युत्सुकमित्यर्थः ।
मे मम मनश्चित्तं क्लाम्यति खेदं प्राप्नोति । अन्वयस्तु प्रागेवोक्तः । किमिदं प्रमोदनियामकम् । इति पूर्वोक्तप्रकारेण
तस्मिञ्छुकनास उक्तवति कथितवति सति राजा नृपो विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । यदीति ।
यद्यनया यथा कथितं सत्यं तथा सर्वमवितथं यथार्ह स्वप्नदर्शनम् । धीरोदात्तत्वादाह — अहमिति । अहमित्या -
त्मनिर्देशः । न श्रद्दधे न विश्वासं करोमि । तन्नियासकमाह - कुत इति । अस्माकमियत्येतावती भाग्यस्य
भागधेयस्य संपत्संपत्तिः कुतः स्यात् । ममेति शेषः । हि निश्चितम् । ईदृशानां पूर्वोक्तानां प्रियमिष्टं यद्वचनं स्य
श्रवणान्याकर्णनानि तेषां वयमभाजनमपात्रम् । अथ चाहमवितथवादिनीमपि सत्यप्रलाधिनीमपि कुलवर्धनाम्,
विपरीतामिवासत्यवादिनीमिवाद्यास्मिन्दिने पश्याम्यवलोकयामि । कीदृशोऽहम् । एवंविधानां पूर्वव्यावर्णित
स्वरूपाणां कल्याणानां निःश्रेयसानामसंभावितमयोग्यमात्मानं मन्यमानो ज्ञायमानः । तदिति हेत्वर्थे । हे
शुकनास, उत्तिष्ठोत्थानं कुरु । स्वयमेवात्मनैव गत्या । अन्तःपुर इति शेषः । किमत्र सत्यमिति देवीं विलास-
वर्ती पृष्ट्वापृच्छप ज्ञास्यामि निर्णेष्यामीत्यभिधायेत्युक्त्वान्तःपुरमयासीत् । लुढि 'या आपणे' एतस्यानिधा-
तो रूपम् । सकलनरेन्द्रलोकं समग्रराजसमूहं विसृज्य गृहाय गम्यतामित्यनुज्ञाप्य स्खाङ्गेभ्यः स्वकीयहस्तपा-
टिप्प० -- 1 समुत्सर्पितम् निकटे आकृष्टम् वेत्रासनं (राज्ञः कर्णे वार्ताकथनार्थम्) येनेति स्पष्टोऽर्थः ।
2 सत्यसंलापिनीम् । प्रलापस्तु प्रलाप एव टीकाकर्तुः ।
पाठा •१ प्रकाशम्. २ किमस्ति. ३ किचित्स्वप्न. ४ अत्यन्तोत्फुल; उत्फुल.
७ उत्सुकम्. ८ तदा. १ विसर्ग्य. १० उन्मुच्य च.
५ प्लुततरल ६ प्रहर्ष.