2023-12-11 08:19:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१५०
 
कादम्बरी ।
 
[ कथायाम्-
.9
 
यणम्, मूर्धावसिक्तैः प्रधा [^१]ननरेन्द्रैः परिमितैः परिवृतम्, अन-
तिदूरावस्थितपरिजनम्,
अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन धौतधव- लाम्बरपरिधाने [^२]नानुल्णवेषेण जलनिधिनेवागाध-
गाम्भीर्येण समुपारूढ विश्रम्भनिर्भरास्तास्ताः कथाः [^३]शुकैनासेन कुर्वाणं भूमिपालमुपसृत्य रह
कर्णमूले [^४]विदितं विलासवतीगर्भवृत्तान्त- मकार्षीत् ।
 

 
तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्ग- स्य सद्यः प्रे[^५]प्ररूढ [^६]रोमा-
ञ्चनिकरकण्ट किततनोरानन्द- रसेन विह्वलीक्रियमाणस्य स्मितविकसितकपोल [^७]स्थलस्य परि-
पूरितहृदयातिरि [^८]क्तहर्षमिव दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोल-
तारकमानन्दजलबिन्दुक्लिन्न- पक्ष्ममालं तत्क्षणं पपात चक्षुः । [^९]अनालोकितपूर्वं [^१०]तु हर्षप्रक-
र्षमै [^११]मभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसित- मुखीमागतां दृष्ट्वा तस्य चार्थस्य सततं
मनसि विपरिवर्त[^१२]विपरिवर्त- मानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारण-

 
[ टि ]--
तस्यान्तरालं मध्यप्रदेशस्तत्र स्थितमासीनं नारायणमिव जनार्दनमिव । मूर्धेति । मूर्धावसिक्तैः कृताभिषेकैः
प्रधाननरेन्द्रैः प्रकृष्टराजभिः परिमितैः स्तोकैः परिवृतं सहितम् । अभ्यन्तरे तादृशजनानामेव प्रवेशसंभवात् ।
अनतीति । न अति नातिदविष्ठ- प्रदेशेऽवस्थितः परिजनो यस्य स तम् । 'अञ्खरे' इति नजोऽना- देशः (?) ।
पुनः कीदृशम् । शुकनासेन मन्त्रिणा तास्ताः कथाः कुर्वाणं तास्ता अनिर्वचनीयाः कथाः किंवदन्तीः कुर्वाणं
विदधानम् । अथ शुकनासं विशेषयन्नाह – अनन्तरमिति । राज्ञः सिंहासनाद- नन्तरं यथा स्यात्तथोत्तुङ्ग
मुच्चं यद्वेत्रासनमासनविशेषस्तत्रोपविष्टेन स्थितेन । धौतेति । धौतं क्षालितं यद्धवलाम्बरं तदेव परिधान-

मधोंशुकं यस्य स तथा तेन । 'परिधानं त्वधोंशुकम्' इति कोशः । अन्विति । अनुल्बणोऽनुत्कटो वेषो
नेपथ्यं यस्य स तेन । जल- निधिनेव समुद्रेणेवागाधमलब्धमध्यं गाम्भीर्यं गम्भीरतागुणो यस्य स तेन । अथ
कथां विशिनष्टि - समुपेति । समुपारूढः सम्यक्प्रकारे- णोपारूढः प्राप्तो यो विश्रम्भो विश्वासः स निर्भरोऽति-
शयो यासु
ताः । अन्वयस्तु प्रागेवोक्तः ।
 
a
 

 
तेनेति । तु पुनरर्थे । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्त प्रतिप्रति- पादितेन राज्ञो नृपस्य चक्षुर्नेत्रं
शुकनासमुखे तत्क्षणं पपातापतदि- त्यन्वयः । वचनं विशेषयन्नाह - अश्रुतेति । अश्रुतपूर्वेणानाकर्णित- पूर्वेण ।
संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्यं तेन । कीदृशस्य राज्ञः । सिक्तं सिञ्चितं सर्वाङ्
गं समग्रं शरीरं यस्य स तथा तस्य । केनेव । अमृतरसेनेव पीयूषद्रवेणेव । मनोभीष्टत्वाहुः द्दु:- निवारकत्वाच्
वचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादु- र्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तेन कण्ट-
किता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य । आनन्देति । आनन्दः प्रमोद स
रसस्तेन विह्वलीक्रियमाणस्य व्याकुलीक्रियमा-
णस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन
विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्य । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति । परिपूरितं
पूर्णांणीकृतं हृदयं तस्मादतिरिक्त- मुर्वरितं हर्षमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूहमिषेण विकिरतो बहिः
क्षिपतः चक्षुर्विशिनष्टि - लोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलबि-
न्दुभिः प्रमोद- जनितनेत्रजलपृषतैः क्लिन्नं खिस्विन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिं- स्तत्तथा । अनालोकितेति ।
भूपते राज्ञोऽनालोकितपूर्वमवीक्षितपूर्वं हर्षप्रकर्षं प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य । च पुनरर्थे । कुल- वर्धनां
स्मितेन विकसितं विकस्वरं मुखमाननं यस्या एतादृशी- मागतां समागतां दृष्ट्वा विलोक्य । तस्येति । तस्य
 
पाठा० -

 
[^
]G. नरेन्द्रैः परिवृतम् .
[^
]G. नात्युल् .
[^
]G. शुकनासेन सह .
[^
]G. संवाससंचारचतुरा विदित .
[^
]G. प्रकट.
[^
]G. रो-
माङ्कर.
[^
]G. मूलस्य.
[^
]G. रिक्तम्.
[^
]G. अनालोचितः .
[^
१०]G. तु तम्.
[^
११]G. अभिसंवीक्ष्य.
[^
१२]G. वर्तमानत्वात् ; परिवर्तमानत्वात्,
 
.