This page has not been fully proofread.

१५०
 
कादम्बरी ।
 
[ कथायाम्-
.9
 
यणम्, मूर्धावसिक्तैः प्रधाननरेन्द्रैः परिमितैः परिवृतम् अनतिदूरावस्थितपरिजनम्,
अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन धौतधवलाम्बरपरिधानेनानुल्वणवेषेण जलनिधिनेवागाध-
गाम्भीर्येण समुपारूढ विश्रम्भनिर्भरास्तास्ताः कथाः शुकैनासेन कुर्वाणं भूमिपालमुपसृत्य रह
कर्णमूले विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् ।
 
तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्गस्य सद्यः प्रेरूढरोमा-
वनिकरकण्ट किततनोरानन्दरसेन विलीक्रियमाणस्य स्मितविकसितकपोलस्थलस्य परि-
पूरितहृदयातिरिक्तहर्षमिव दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोल-
तारकमानन्दजलबिन्दुक्लिन्नपक्ष्ममालं तत्क्षणं पपात चक्षुः । अनालोकितपूर्व तु हर्षप्रक-
र्षमैभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्ट्वा तस्य चार्थस्य सततं
मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारण-
तस्यान्तरालं मध्यप्रदेशस्तत्र स्थितमासीनं नारायणमिव जनार्दनमिव । मूर्धेति । मूर्धावसिक्तैः कृताभिषेकैः
प्रधाननरेन्द्रैः प्रकृष्टराजभिः परिमितैः स्तोकैः परिवृतं सहितम् । अभ्यन्तरे तादृशजनानामेव प्रवेशसंभवात् ।
अनतीति । न अति नातिदविष्ठप्रदेशेऽवस्थितः परिजनो यस्य स तम् । 'अञ्खरे' इति नजोऽनादेशः (?) ।
पुनः कीदृशम् । शुकनासेन मन्त्रिणा तास्ताः कथाः कुर्वाणं तास्ता अनिर्वचनीयाः कथाः किंवदन्तीः कुर्वाणं
विदधानम् । अथ शुकनासं विशेषयन्नाह – अनन्तरमिति । राज्ञः सिंहासनादनन्तरं यथा स्यात्तथोत्तुङ्ग
मुचं यद्वेत्रासनमासनविशेषस्तत्रोपविष्टेन स्थितेन । धौतेति । धौतं क्षालितं यद्धवलाम्बरं तदेव परिधान-
मधोंशुकं यस्य स तथा तेन । 'परिधानं त्वधोंशुकम्' इति कोशः । अन्विति । अनुल्बणोऽनुत्कटो वेषो
नेपथ्यं यस्य स तेन । जलनिधिनेव समुद्रेणेवागाधमलब्धमध्यं गाम्भीर्यं गम्भीरतागुणो यस्य स तेन । अथ
कथां विशिनष्टि - समुपेति । समुपारूढः सम्यक्प्रकारेणोपारूढः प्राप्तो यो विश्रम्भो विश्वासः स निर्भरोऽति-
शयो यासु ताः । अन्वयस्तु प्रागेवोक्तः ।
 
a
 
तेनेति । तु पुनरर्थे । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्त प्रतिपादितेन राज्ञो नृपस्य चक्षुर्नेत्रं
शुकनासमुखे तत्क्षणं पपातापतदित्यन्वयः । वचनं विशेषयन्नाह - अश्रुतेति । अश्रुतपूर्वेणानाकर्णितपूर्वेण ।
संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्य तेन । कीदृशस्य राज्ञः । सिक्तं सिञ्चितं सर्वाङ्ग
समग्र शरीरं यस्य स तथा तस्य । केनेव । अमृतरसेनेव पीयूषद्रवेणेव । मनोभीष्टत्वाहुः खनिवारकत्वाच
वचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादुर्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तेन कण्ट-
किता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य । आनन्देति । आनन्दः प्रमोद स
रसस्तेन विह्वलीक्रियमाणस्य व्याकुलीक्रियमाणस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन
विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्य । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति । परिपूरितं
पूर्णांकृतं हृदयं तस्मादतिरिक्तमुर्वरितं हर्षमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूहमिषेण विकिरतो बहिः
क्षिपतः चक्षुर्विशिनष्टि - लोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलबि-
न्दुभिः प्रमोदजनितनेत्रजलपृषतैः क्लिन्नं खिन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिंस्तत्तथा । अनालोकितेति ।
भूपते राज्ञोऽनालोकितपूर्वमवीक्षितपूर्व हर्षप्रकर्ष प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य । च पुनरर्थे । कुलवर्धनां
स्मितेन विकसितं विकखरं मुखमाननं यस्या एतादृशीमागतां समागतां दृष्ट्वा विलोक्य । तस्येति । तस्य
 
पाठा० - १ नरेन्द्रैः परिवृतम् २ नात्युल्वण ३ शुकनासेन सह ४ संवाससंचारचतुरा विदित ५ प्रकट. ६ रो-
माङ्कर. ७ मूलस्य. ८ रिक्तम्. ९ अनालोचितः १० तु तम्. ११ अभिसंवीक्ष्य. १२ वर्तमानत्वात् ; परिवर्तमानत्वात्,