2023-12-11 07:51:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गर्भवार्ताऽवगमः ]
 
पूर्वभागः ।
 
१४९
 
मने करसवाञ्छितपानभोजनां प्रावृषमिव श्यामायमानपयोधरमुखीं केतकीमिव [^१]गर्भच्छवि
पाण्डुरामालोक्येङ्गितकुशल: पॅ[^२]परि- जनो विज्ञातवान् ।
 

 
अथ तस्याः सँ[^३]सर्वसेवकवर्गप्रधानभूता, सदा राजकुलसंवास- चतुरा, सँ[^४]सदा च राज-
संनिकर्षप्रगल्भा, सर्वमङ्गलकुशला कुल- वर्धना नाम मे[^५]महत्तरिका प्रशस्ते दिवसे प्रदोषो-
त्तरवेलाया- मभ्यन्तरास्थानमण्डपगतम्, गन्ध [^६]तैलाव से कज्वलितदीपि- कासह सँ [^७]सहस्रपरिवारम्, उडु-
'
निकरमध्यवर्तिनमिव पौर्णमासी- शशिनम्, उरगरार् [^८]राजफणामणिसहस्रान्तरालस्थितमिव नारा-

 
[ टि ]--
यथा भवति तथा । आ समन्ताज्जितिंह्मितं जडीकृतं विकृतं वा निमेषोन्मेषाभ्यां लोचनं यस्याः सा । अनेन गर्भवती -
स्वभावः सूचितः । सालसमालस्यसहितं यथा स्यात्तथा निशश्वास निश्वासं मुक्तवती । गर्भानुभावान्निश्वासग्रहणेऽपि
तादृश सामर्थ्याभावादिति भावः । निपूर्वस्य 'श्वस प्राणधारणे' इत्यस्य लिटि रूपम् । तथेति । तथा पूर्वोक्ता
एवावस्था दशा यस्यास्तां विलासवतीमालोक्य वीक्ष्ये- ङ्गितेष्वन्तर्गतभावावेदकचेष्टितेषु कुशलोऽभिज्ञः चेष्टितज्ञा-
नवानि- त्यर्थः । परिजनः संनिहितस्त्री सौविदल्लजनो विज्ञातवान् । अन्तर्व- र्वत्नीरूपतया तां निश्चितवान् । तामेव
विशेषयन्नाह – अहरिति । अहरहः प्रतिदिनम् । स्वयमित्यात्मनिर्देशः । अनेके बहवस्तिकाक्ता- दयो रसा अन्ने
स्वादहेतवो यस्मिन्नेवंभूतं वाञ्छितमीप्सितं पानं द्राक्षापानकादि, भोजनमशनं च यस्याः सा ताम् । श्यामा-
यमानं कृष्णतां प्राप्यमाणं पयोधरयोः स्तनयोर्मुखं चूचुकं यस्याः सा ताम् । कामिव । प्रावृषमिव वर्षा-
समयमिव । सापि पयोधरमरैर्मेघैः श्याम- मुखी स्यात् । केतकीति । गर्भजनिता या छविर्देहदीप्तिस्तया

पाण्डुरां शुक्लाम् । कामिव । केतकीमिव । साथिपि गर्भो मध्य- भागस्तस्य छविः कान्तिस्तया पाण्डुरा स्यात् ।
 
9
 

 

 
अथ तस्याः कुलवर्धना नाम स्त्री भूमिपालं राजानमुपसृत्य समीपे गत्वा प्रशस्ते शोभने दिवसे रह
एकान्ते कर्णमूले विलासवती गर्भ- वृत्तं तस्या गर्भोदन्तं विदितं ज्ञातमकार्षीदकरोदित्यन्वयः । कुल- वर्धनां
विशेषयन्नाह – सर्वेति । सर्वेषु सेवकवर्गेषु प्रधानभूता श्रेष्ठा । नीचस्य तादृशप्रवेशाभावाच्छ्रेष्ठत्वेऽप्यवस-
.
रानभिज्ञस्य तदभावा- दित्यत आह
- सदेति । सदा सर्वदा राजकुले नृपपरम्परायां संवासोऽवस्थानं तत्र
चतुरा दक्षा । तद्वत्त्वेऽप्यदृष्टस्य तदभावा- दित्याह -- सदेति । सदा सर्वकालं च राज्ञा यः संनिकर्षः संबन्ध-

स्तत्र प्रगल्भा पण्डिता । सर्वेति । सर्वाणि यानि मङ्गलानि श्रेयांसि तत्र कुशला । तत्कृत्यकरणेऽभिज्ञेत्यर्थः ।
वयसातिशयिता महती [^1]महत्तरिका । स्वार्थे कः । प्रदोषेति । प्रदोषोत्तरवेलायाम् । प्रदोषे सर्वनिषेधात् ।
अथवा प्रदोषो न संध्याकालः । वृत्तान्तस्य गोप्यकथनत्वाद्दिवसे तदभावादिति भावः । भूमिपालं विशे..
षयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्ये य आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । बाह्ये तथावि-
धजनसंसर्गादिति भावः । गन्धेति । गन्धतैलं सुगन्धतैलं तस्यावसेकः संपातस्तेन ज्वलितं दीपिकानां सहस्रं
यस्मिन्नेतादृशः परिवारो मण्डपस्थपरिच्छदो यस्य स तम् । दीपिकासहस्रमेव परिवारो यस्येति वा ।
तद्दीप्त्या लोकानां तिरो- धानादिति भावः । तादृशतैलसंपर्काद्दीपिकाप्रभया नक्षत्रप्रभया अवशिष्ट नियुक्त परिक
रस्योडुसाम्यं राज्ञश्चन्द्रसाम्यं च प्रतिपादय- न्नाह – उङ्क्षिड्विति । उडूनां नक्षत्राणां निकरः समूहस्तन्मध्यवर्तिनं

तदन्तःपातिनं पौर्णमासीश शिनमिव राकाचन्द्रमिव । अन्यत्र दिने चन्द्रस्यासंपूर्णत्वात्पौर्णमासीग्रहणम् । तादृ-
शपरिकरत्वादेवोपमा- नान्तरमाह - उरगेति । उरगराजो नागाधिपतिस्तस्य सहस्रमुख-
त्वात्फणामणि सहस्रं
 
टिप्प० -
सहस्र-
 
[^
1 ]F.शूद्रजातीया स्त्री, 'शूद्रः स्यात्पादजो दासो ग्रामकूटो महत्तर - त्तर: ' । इति त्रिकाण्डशेषः
( इति केचित् ) । वस्तुतस्तु 'कुलवर्द्धना नाम महत्तरिका' इति महत्तरिकापदेन राजान्तःपुरप्रधान,
प्रबन्ध- कर्त्री सूच्यते, 'डारन' इति राजस्थानभाषायाम् ।
 
पाठा० -

 
[^
]G. गर्भपाण्डुरान्.
[^
]G. अन्तःपुरिकाजनः .
[^
]G. सर्वपरिजनप्रधान .
[^
]G. सर्वदा .
[^
]G. महान्तः पुरिका सा.

[^
]G. तैलाभिषेक.
[^
]G. परिवृतम्.
[^
]G. फण.