2023-12-11 07:02:29 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१४८
 
कादम्बरी ।
 
[ कथामुखे-
येनेयं दिग्गजमदलेखेवाविच्छिन्नसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः
स्वामिनः' इत्येवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि
ताभ्यां स्वप्नाभ्यां विलासवती [^१]मानन्दयांचकार ।
 

 
कतिपय दिवसापगमे च देवताप्रसादात्सरसीमिव प्रतिमाशशी विवेश गर्भो विलासव-
तीम् । [^२]येने नँन [^३]नन्दनराजिरिव पारिजातेन मधुसूदनवक्षःस्थलीव कौस्तुभमणिना सुतरामरा-
जत सौ[^४]सा । दर्पणश्री [^५]रिवॅ गर्भच्छलेन संक्रान्तमवनिपालप्रति- बिम्बमुवाह । सी[^६]सा शनैः शनैश्च
[^७]प्रतिदिनमुपचीयमानगर्भा निर्भरपरिपीतसागरसलिलभरमन्थरेव [^८]मेघमाला मन्दं मन्दं संच-
चार । मुं[^९]मुहुरनुर् [^१०]बद्धजृम्भिकमाजिझितह्मित [^११]लोचैना सालसं निशश्वास । तथा [^१२]वस्थां तामहः स्वय
 
ह [^१३]रह: स्वय-
 
[ टि ]--
र्भावेन गन्धे[^1]गन्धगजं देवं भवन्तमाहाह्लादयिष्यति प्रमोद- यिष्यति । पक्षेऽभिनवा कमला पुत्रसंपत् । अत एव देव्याः
कमलि- नीसाम्यं राज्ञो गन्धगजसाम्यं चेति भावः । येनेति । येन कारणेन इयं दि [^2]ग्गंजमदलेखेवा-
विच्छिन्नमत्रुटितं [^3]संतानं पुत्रपौत्रा- दिप्रवाहरूपं च यस्याः सैवंभूता स्वामिनो राज्ञः कुलसंततिः क्षितिः पृथ्वी
तस्या भारो वीवधस्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं ब्रुवाणमेव तं
करेण गृहीत्वा हस्तेना- दाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्या- मुभाभ्यामपि
स्वप्नाभ्यां विलासवतीमानन्दयांचकार प्रमोदयां- चकार
 

 
कतीति । कतिपये कियन्तो ये दिवसास्तेषामपगमेऽतिक्रमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवर्ती
तीं गर्भो विवेश प्रविष्टो बभूव । अत्रार्थ उपमानं प्रदर्शयन्नाह - सरसीमिति । सरसीं कासारं प्रतिमाशशीव
प्रतिबिम्बरूपश्चन्द्र इव । येनेति । येन गर्भेण सा सुतरामतिशयेनाराजताशोभत । केनेव केव । पारिजातेन
कल्प- द्रुमेण । 'मन्दारः पारिजातकः' इति कोशः । नन्दनेतीन्द्रस्य कान- नम् । 'नन्दनं वनम्' इति कोशः ।
तस्य राजिः श्रेणिरिव । यथा कल्पपादपेन वनमतितरां शोभां प्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तरं
 
प्रदर्शयन्नाह – कौस्तुभेति । कौस्तुभमणिना प्रसिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थलीव । अति-
लीव । अति
विस्तृतत्वेन गौरत्वेन च स्थल्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाश-
रूपा सेव गर्भो भ्रूणस्तस्य छलेनोपधिना संक्रान्तमन्तः प्रविष्टमवनिपालो भूनेता तस्य प्रतिबिम्बं प्रतिरूप- मुवाहा-
वहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । अयं भावः - यथा दर्पणः संक्रान्तं प्रति-
बिम्बं वहति तथेयमपि राजप्रतिबिम्बमुवाह । अनेन राजराजसुतयोः सर्वथाऽभेदो दर्शितः । सेति । सा
विलासवती मन्दं मन्दं संचचार चचालेत्यन्वयः । तामेव विशेषयन्नाह - प्रतीति । प्रतिदिनं प्रत्यहं शनैः
शनैः । स्वष[^4]स्वल्प- प्रयासेनेत्यर्थः । स्तोकं स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो
यस्याः सा । निर्भरेति । निर्भरमतिशयं परि- पीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भार -
स्तेन मन्थरालसा मेघमालेव कादम्बिनीव । समुद्राज्जलमादाय मेघो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः ।
मुहुरिति । मुहुर्वारं- वारमनुबद्धा कर्तुमारब्धा जृम्भा एव जृम्भिका । खास्वार्थे कंप्रत्ययः । यत्र यस्यां क्रियायां वा
 
टिप्प० –

 
[^
1]F. 'शरत्कालकमलिनी गन्धगजमिव देवमाहाह्लादयिष्यति' इति इवस्य गन्धगजोत्तरमन्वयो
योग्यः ।
[^
2]F. दिग्गजस्य मदलेखा दानजलधारा इव ।
[^
3]F. न विच्छिन्न: संतानः ( वंशः पुत्रपौत्रादिरूपः,
इति संततिपक्षे ), प्रवाहः ( इति मदलेखापक्षे ) यस्याः एवंभूता सती स्वामिनः कुल- संततिः क्षितिभार-
धारणे उचिता भविष्यतीत्युभयपक्षे व्याख्या ।
[^
4]F. कालक्रमेणेत्यर्थः ।
 
.
 
पाठा०---
-

 
[^
]G. विनोदयांचकार.
[^
]G. येन च .
[^
]G. नन्दनवनराजि: .
[^
]G. देवी.
[^
]G. श्रीरिव च.
[^
]G. शनैः . .
[^
प्रति-
]G. प्रतिदिवसमुपचीयमानगर्भा; प्रतिदिनमुग्धा द्विप्रमाणगर्भा.
[^
]G. घनमाला .
[^
]G. मुहुर्मुहु.
[^
१०]G. विजृम्भिक.
[^
११]G. लोचनम्,
.
[^
१२]G. स तथावस्थां च .
[^
१३]G. तामनभिनन्दितपान.