This page has not been fully proofread.

१४८
 
कादम्बरी ।
 
[ कथामुखे-
येनेयं दिग्गजमदलेखेवाविच्छिन्नसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः
स्वामिनः' इत्येवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि
ताभ्यां स्वप्नाभ्यां विलासवतीमानन्दयांचकार ।
 
कतिपय दिवसापगमे च देवताप्रसादात्सरसीमिव प्रतिमाशशी विवेश गर्भो विलासव-
तीम् । येने नँन्दनराजिरिव पारिजातेन मधुसूदनवक्षःस्थलीव कौस्तुभमणिना सुतरामरा-
जत सौ । दर्पणश्रीरिवॅ गर्भच्छलेन संक्रान्तमवनिपालप्रतिबिम्बमुवाह । सी शनैः शनैश्च
प्रतिदिनमुपचीयमानगर्भा निर्भरपरिपीतसागरसलिलभरमन्थरेव मेघमाला मन्दं मन्दं संच-
चार । मुंहुरनुर्बद्धजृम्भिकमाजिझितलोचैना सालसं निशश्वास । तथावस्थां तामहः स्वय
 
र्भावेन गन्धेगजं देवं भवन्तमाहादयिष्यति प्रमोदयिष्यति । पक्षेऽभिनवा कमला पुत्रसंपत् । अत एव देव्याः
कमलिनीसाम्यं राज्ञो गन्धगजसाम्यं चेति भावः । येनेति । येन कारणेन इयं दिग्गंजमदलेखेवा-
विच्छिन्नमत्रुटितं संतानं पुत्रपौत्रादिप्रवाहरूपं च यस्याः सैवंभूता स्वामिनो राज्ञः कुलसंततिः क्षितिः पृथ्वी
तस्या भारो वीवधस्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं ब्रुवाणमेव तं
करेण गृहीत्वा हस्तेनादाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्यामुभाभ्यामपि
स्वप्नाभ्यां विलासवतीमानन्दयांचकार प्रमोदयांचकार ।
 
कतीति । कतिपये कियन्तो ये दिवसास्तेषामपगमेऽतिक्रमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवर्ती
गर्भो विवेश प्रविष्टो बभूव । अत्रार्थ उपमानं प्रदर्शयन्नाह - सरसीमिति । सरसीं कासारं प्रतिमाशशीव
प्रतिबिम्बरूपश्चन्द्र इव । येनेति । येन गर्भेण सा सुतरामतिशयेनाराजताशोभत । केनेव केव । पारिजातेन
कल्पद्रुमेण । 'मन्दारः पारिजातकः' इति कोशः । नन्दनेतीन्द्रस्य काननम् । 'नन्दनं वनम्' इति कोशः ।
तस्य राजिः श्रेणिरिव । यथा कल्पपादपेन वनमतितरां शोभां प्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तरं
 
प्रदर्शयन्नाह – कौस्तुभेति । कौस्तुभमणिना प्रसिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थ-
लीव । अतिविस्तृतत्वेन गौरत्वेन च स्थल्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाश-
रूपा सेव गर्भो भ्रूणस्तस्य छलेनोपधिना संक्रान्तमन्तः प्रविष्टमवनिपालो भूनेता तस्य प्रतिबिम्बं प्रतिरूपमुवाहा-
वहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । अयं भावः - यथा दर्पणः संक्रान्तं प्रति-
बिम्बं वहति तथेयमपि राजप्रतिबिम्बमुवाह । अनेन राजराजसुतयोः सर्वथाऽभेदो दर्शितः । सेति । सा
विलासवती मन्दं मन्दं संचचार चचालेत्यन्वयः । तामेव विशेषयन्नाह - प्रतीति । प्रतिदिनं प्रत्यहं शनैः
शनैः । स्वषप्रयासेनेत्यर्थः । स्तोकं स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो
यस्याः सा । निर्भरेति । निर्भरमतिशयं परिपीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भार -
स्तेन मन्थरालसा मेघमालेव कादम्बिनीव । समुद्राज्जलमादाय मेघो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः ।
मुहुरिति । मुहुर्वारंवारमनुबद्धा कर्तुमारब्धा जृम्भा एव जृम्भिका । खार्थे कंप्रत्ययः । यत्र यस्यां क्रियायां वा
 
टिप्प० – 1 'शरत्कालकमलिनी गन्धगजमिव देवमाहादयिष्यति' इति इवस्य गन्धगजोत्तरमन्वयो
योग्यः । 2 दिग्गजस्य मदलेखा दानजलधारा इव । 3 न विच्छिन्न: संतानः ( वंशः पुत्रपौत्रादिरूपः,
इति संततिपक्षे ), प्रवाहः ( इति मदलेखापक्षे ) यस्याः एवंभूता सती स्वामिनः कुलसंततिः क्षितिभार-
धारणे उचिता भविष्यतीत्युभयपक्षे व्याख्या । 4 कालक्रमेणेत्यर्थः ।
 
.
 
पाठा०---
-१ विनोदयांचकार. २ येन च ३ नन्दनवनराजि: ४ देवी. ५ श्रीरिव च. ६ शनैः . ७ प्रति-
दिवसमुपचीयमानगर्भा; प्रतिदिनमुग्धा द्विप्रमाणगर्भा• ८ घनमाला ९ मुहुर्मुहु. १० विजृम्भिक. ११ लोचनम्,
१२ स तथावस्थां च १३ तामनभिनन्दितपान.