This page has not been fully proofread.

स्वप्नविषयालोचनम् ]
 
पूर्वभागः ।
 
१४७
 
स तं समुपजातहर्षः प्रत्युवाच - 'देव, संपन्ना: सुचिराईस्माकं प्रजानां च मनोरथाः ।
कतिपयैरेवाहोभिरसंदेहमनुभवति स्वामी सुतमुखकमलावलोकनसुखम् । अद्य खलु मयाषि
निशि स्वप्ने धौतसकलवाससा शान्तमूर्तिना दिव्याकृतिना द्विजेन विकेचचन्द्रकलावदातव-
लशतमालोलकेसरसहस्र्जटा लमकरन्द्रविन्दुसीकरवर्षि पुण्डरीकमुत्सङ्गे देव्या मनोरमाया
निहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नमानन्दमैत्रेपातीनि शुभानि निमित्तानि । किं चाग्य-
दानन्दकारणमतो भविष्यति । अवितथफला हि " प्रायो निशावसानसमयदृष्टा भवन्ति
स्वप्नाः । सर्वथा नचिरेर्णं मान्धातारमिव धौरेयं सर्वराजर्षीणां भुवनानन्दहेतुमात्मजं जन-
यिष्यति देवी । शरत्कालकमलिनीवाभिनवकमलोद्गमेन गन्धगजमाहादयिष्यति देवम् ।
 
१२
 
१४
 
स तथा तस्मिन्नेव क्षणे समये । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । शुकनासं समाहूयाह्वानं कृत्वा स्वप्नं
निशादृष्टमकथयदुक्तवान् । 'कथ वाक्यप्रबन्धे' इत्यस्य लड़ि रूपम् । स इति । स शुकनासस्तं नृपं समु-
पजातः समुत्पन्नो हर्षः प्रमोदो यस्य स तथा प्रत्युवाच प्रत्यब्रवीत् । हे देव हे स्वामिन्, सुचिरादतिचिर-
कालेनास्माकं प्रजानां च मनोरथाश्चिन्तितानि संपन्ना निष्पन्नाः । कतीति । कतिपयैरेव स्तोकैरेवाहोभिः
दिवसैरसंदेहं निःसंदेहं खामी भवान्सुतस्यात्मजस्य यन्मुखकमलावलोकनमाननपद्मवीक्षणं तस्माद्यत्सुखं
सातमनुभवति । अनुभविष्यतीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । अद्येति ।
खलु निश्चयेन । अद्यास्यां निशायामेव मयापि निशि: रात्रौ खप्ने धौतानि क्षालितानि सकलानि समग्राणि
वासांसि वस्त्राणि येन स तथा तेन । शान्ता निरुपद्रवा मूर्तिः शरीरं यस्य स तथा तेन । दिव्या मनोहारिण्या-
कृतिराकारो यस्य स तथा तेन । द्विजेन ब्राह्मणेन विकचं विकखरं चन्द्रकलावदवदातं शुभं दलशतं पत्रशतं
यस्मिंस्तत् । 'पर्ण पत्रं छदं दलम्' इति कोशः । आलोलं चञ्चलं यत्केसरसहस्रं किअल्कसहस्रं तेन जटालं
जटिलम् । 'प्राणिस्थादात - ' इति मत्वर्थ आलच् । मकरन्दो मरन्दस्तस्य बिन्दवः पृषतारत एव सीकरा वातास्त-
वारिकणास्तद्वर्षणकार्ये तादृशंयत्पुण्डरीकं सिताम्भोजं देव्या मनोरमायाश्चित्तहारिण्या उत्सङ्गे कोडे निहितं स्थापितं
दृष्टमवलोकितम् । मयेति पूर्वप्रतिपादितम् । अग्रेपातीनि पुरोजातानि शुभानि शिवानि निमित्तान्यक्षिस्फुरणा-
दीनि प्रत्यासनं समीपवर्तिनमानन्दं प्रमोदमावेदयन्ति निवेदयन्ति । किं चेति युक्त्यन्तरे । अतः पूर्वोक्तादन्य
दधिकमानन्दकारणं प्रमोदनिदानं भविष्यति । अत्रार्थे हेतुमाह - अवितथेति । प्रायो बाहुल्येन निशावसा-
नसमयदृष्टा रात्रिप्रान्तक्षणावलोकिताः स्वप्ना अवितथफलाः सत्यफला भवन्ति संपद्यन्ते । सर्वथेति । सर्वप्रका-
रेण नचिरेणेति स्वल्पकालेन मान्धातारमिव युवनाश्वजमिव सर्वराजर्षीणां समग्रराज्ञां मध्ये धौरेयं धुरीणम् ।
एतेनाधिपत्येऽपि सदाचारवत्वं सूचितम् । भुवनानन्दहेतुं जगत्प्रमोदकारणमात्मजं सुतं देवी जनयिष्यति
प्रसविष्यति । शरदिति । शरत्कालकमलिनीव घनात्ययसमयनलिनीवाभिनवकमलोद्गमेन प्रत्यग्रनलिनप्रादु
 
-
 
-
 
टिप्प० - 1 पर्यायकरणं भ्रामकमिदं टीकाकर्तुः, मनोरमेति तन्नाम । 2 अत्रापि बभ्राम टीकाकारः ।
'अतः अन्यत् आनन्दकारणं किं भविष्यति' इत्यन्वयः (पुत्र मुखदर्शनानन्दादन्यत् किं स्यादिति तदर्थः) ।
 
पाठा० -१ अस्माकं मनोरथाः . २ असंशयमनुभविष्यति. ३ धौतधवल; धौतसकलधवल. ४ प्रशान्त ५ विक-
चम्. ६ जटिल; जटालम्. ७ मधु. ८ संदेह. ९ सितपुण्डरीक. १० अग्रेजातानि; आनन्दपातीनि; अग्रपातीनि
११ शुभनिमित्तानि १२ किं वान्यत्प्रियतरं परमानन्द; किं चान्यत्प्रियतरमांधकमानन्द; किं चान्यत्प्रियतरमधिका-
नन्द; किं चान्यत्प्रियतरमपरमधिकमानन्द. १३ विद्यते. १४ च. १५ समये दृष्टा. १६ नचिरेणैव; अचिरेण.
१७ राजर्षीणाम्. १८ शरत्,