2023-09-03 13:54:11 by Lakshmainarayana achar

This page has been fully proofread twice.

विद्यार्थिनां सौकर्याय सर्वसंग्रहश्लोकोयम्-
 
'चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो
नेत्री कन्याऽन्यदीया मृदुललिततनुर्मुग्धकादम्बरी च ।
पाञ्चाली नाम रीतिर्विलसति बहुला, विप्रलम्भो रसोऽङ्गी
माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययो [^१]रन्त्यमेतत् ॥'
 
टीका
 
श्रीभानुचन्द्रगणि- तच्छिष्यसिद्धचन्द्रगणिमहोदयाभ्यां विरचिता सेयं व्याख्या मोगलसम्राजोऽकबरस्य समये निरमीयत । यतो हीमौ अकबरसम्राजा सभाजिताविति ताभ्यामेव पुष्पिकायां स्वहस्तेन
लिखितम् । गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम् । महाभागेन चानेन 'शत्रुंजय' करो मोचितः । शिष्योपि सम्राजा 'षु(द) स्युदमा' इत्युपपदेनालङ्कृतः । सेयं व्याख्या प्रत्येकपदस्य पर्यायप्रकटन एव व्यग्रा, कामं स पर्यायशब्द: 'इन्द्रस्य टीका बिडौजा : ' एव किं न भवेत् । एको यः शब्द: पर्यायत्वेनादौ परिगृहीतः, अन्तपर्यन्तमपि स एव पदे पदे व्यवह्रियते । यथा - ग्रन्थे यत्र यत्रापि सुखपदमायातं तत्र तत्र 'सातम्' इत्यनेनैव व्याख्यातं महाभागेन । 'भ्रान्ति: आरेका, जरा विस्रसा, कुवलयं
कुवेलम्' इत्यादिरूपेणैव सर्वत्र व्याख्यातवानयम् ।पर्यायशब्दनिवेशो हि जिज्ञासूनां सारस्येन बोधनायैव भवति । सरलस्यापि पर्यायपदनिवेशः करणीय एवेति न ब्रह्मवाक्यम्, किन्त्वेतस्योपरि न मनागपि दृष्टिनिक्षेपष्टीकाकर्तुः । स्नानप्रकरणे आगतं 'स्नानं' पदं कादम्बरीमारभमाणस्य कृते न वज्रसारं स्यात्,
किन्तु स्नानपीठस्य पर्यायपदम् 'आप्लवनचतुष्किकाम्' इत्येव कृत्वाऽयं कृती भवति । कुत्रचित्तु मूलपदं सर्वैर्बोध्यं भवति, टीकाकर्तुर्व्याख्या तु ज्ञातमप्यर्थं भ्रमिचक्रे निपातयति । यथा 'इन्द्रगोपैः (वर्षाकीढै: ) ' इत्यस्य व्याख्या 'अग्निरजोभिः' इति । कोऽस्यार्थ इति हि विदन्तु विद्वांस एव । 'विन्ध्यः जलबालकः,
निगड: अन्दुकः, मदनः जराभीरुः, धूमो दहनकेतन:, जानु नलकीलकः' इत्यादिरूपेण कृता व्याख्याक्रियते उपकारायेति विमृशन्तु मनीषिण एव ।
 
कुत्रचित्तु व्याख्यापाटवं तथा प्रकाशयति यथा कृतबुद्धिरपि वराको ग्रन्थस्वारस्यं विहाय व्याख्यापदानामर्थबोधायैव व्ययो भवति । नगरं 'द्रङ्गम्' इति कृत्वा व्याख्याति । 'लता' पदस्य हि सुप्रसिद्धोर्थः । किन्तु टीकाकारस्तदर्थमाह - 'सरलवृक्षः' । अत्र हि तन्नामको वृक्षविशेष: सर्वस्यैव बुद्धिनिष्टो भवेत् ।
भूयस्सु स्थलेषु तु टीकाकारस्य व्याख्यामालोक्य क्षमाशीलस्यापि मानसमुद्वेलं भवति । 'निर्लक्षणा पाण्डुरपृष्ठा', 'दावानलशङ्का वनवह्निद्वापरः', 'वसन्त इव इष्य इव', इत्यादिव्याख्या कस्य क्षोभाय न भवेत् ?
 
काव्ये च साहित्ये च टीकाकारमहोदयस्य कियत्पाण्डित्यमिति त्वग्रे निवेदयिष्यामि, किन्तु पर्यायशब्दान्वेषणे सर्वमपि वैदुष्यसेष निःशेषयतीति तु प्रत्येकमार्मिकस्यैवाऽवगतं भवेत् । 'निष्पतन्तीम्' इत्यस्य टीकां करोति 'अधःसंयोगफलिकां क्रियां कुर्वन्तीम्' । 'श्वसन्ती' इत्यस्यार्थमाह 'एतनं गृह्णन्ती' । 'एतनं गृह्णन्ती' इत्यस्यार्थ एतस्मिन्काले किमु सहसैवोदयेत् ? परं सर्वस्यापि पदस्य यत्किञ्चित्पर्यायपदमवश्यं निवेश्यम् । पर्यायस्थापनेनैव टीका सुटीका भवतीति महोदयस्यास्यविचार: । किन्तु पर्यायनिरपेक्षस्य पदस्य बलात्पर्यायसंनिवेशे कुत्रचित्कुत्रचित्कीदृशोऽनर्थः संभवतीति तु नास्य महाभागस्य विचारशक्तिरपि ।
 
सूक्ष्ममीक्ष्यतां तावत् - गद्यकाव्यं हि कवीनां कृतित्वपरीक्षायै निकषो नाम । गद्यकाव्येष्वपि 'कथा' - काव्यमतिमनोहरम्, यद्धि वर्तमानकालिक उपन्यास (Novel) ' स्थापनीयम् । तत्रापि-
- वाचयतामाहाररुचिमपि तिरोदधत्तदिदं काव्यमस्ति यस्य लेखको मार्मिकाणां शिरोमणिः श्रीमान्बाणः । तस्यैव काव्यस्य
नायिकायाः सौन्दर्यसारसंघटिताया देवाङ्गनायाः (कादम्बर्याः) सौन्दर्यवर्णने महोदयोयं 'नाभिम्'
 
[^१]G. महामहोपाध्यायहरिदाससिद्धान्तवागीशभट्टाचार्यटीका- भूमिकायाः सोयं संदर्भ उद्धृतः ।
कादंबरी प्र० ३