This page has not been fully proofread.

उपोद्धातः ।
 
विद्यार्थिनां सौकर्याय सर्वसंग्रहश्लोकोयम्-
'चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो
नेत्री कन्याऽन्यदीया मृदुललिततनुर्मुग्धकादम्बरी च ।
पाञ्चाली नाम रीतिर्विलसति बहुला, विप्रलम्भो रसोऽङ्गी
माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययोरन्त्येमेतत् ॥'
टीक़ा
 
श्रीभानुचन्द्रगणि- तच्छिष्य सिद्ध चन्द्रगणिमहोदयाभ्यां विरचिता सेयं व्याख्या मोगलसम्राजोऽक-
बरस्य समये निरमीयत । यतो हीमौ अकबरसम्राजा सभाजिताविति ताभ्यामेव पुष्पिकायां स्वहस्तेन
लिखितम् । गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम् । महाभागेन चानैन 'शत्रुंजय' करो
मोचितः । शिष्योपि सम्राजा 'पुस्युदमा' इत्युपपदेनालङ्कृतः । सेयं व्याख्या प्रत्येक पदस्य पर्यायप्रकटन
एव व्यग्रा, कामं स पर्यायशब्द: 'इन्द्रस्य टीका बिडौजा : ' एव किं न भवेत् । एको यः शब्द: पर्याय -
त्वेनादौ परिगृहीतः, अन्तपर्यन्तमपि स एव पदे पदे व्यवयिते । यथा - ग्रन्थे यत्र यत्रापि सुखपदमा•
यातं तत्र तत्र 'सातम्' इत्यनेनैव व्याख्यातं महाभागेन । 'भ्रान्ति: आरेका, जरा विखसा, कुवलयं
कुवेलम्' इत्यादिरूपेणैव सर्वत्र व्याख्यातवानयम् । पर्यायशब्दनिवेशो हि जिज्ञासूनां सारस्येन बोध-
मायैव भवति । सरलस्यापि पर्यायपदनिवेशः करणीय एवेति न ब्रह्मवाक्यम्, किन्त्वेतस्योपरि न मनागपि
दृष्टिपिष्टीकाकर्तुः । स्नानप्रकरणे आगतं 'खान' पदं कादम्बरीमारभ्रमाणस्य कृते न वज्रसारं स्यात्,
किन्तु स्नानपीठस्य पर्यायपदम् 'आप्लवनचतुषिककाम्' इत्येव कृत्वाऽयं कृती भवति । कुत्रचित्तु मूलपदं
सर्वैर्बोध्यं भवति, टीकाकर्तुव्र्व्याख्या तु ज्ञातमध्यर्थं श्रमिचक्रे निपातयति । यथा 'इन्द्रगोपैः (वर्षाकी है: ) '
इत्यस्य व्याख्या 'अभिरजोभिः' इति । कोऽस्यार्थ इति हि विदन्तु विद्वांस एव । 'विन्ध्यः जलबालकः,
निगड: अन्दुकः, मदनः जराभीरुः, धूमो वहनकेतनः जानु नलकीलकः' इत्यादिरूपेण कृता व्याख्या
क्रियते उपकारायेति विमृशन्तु मनीषिण एव ।
 
कुत्रचित्तु व्याख्यापाटवं तथा प्रकाशयति यथा कृतबुद्धिरपि वराको ग्रन्थस्वारस्यं विहाय व्याख्यापदा-
भामर्थबोधायैव व्ययो भवति । नगरं 'इङ्गम्' इति कृत्वा व्याख्याति । 'लता' पदस्य हि सुप्रसिद्धोर्थः ।
किन्तु टीकाकारस्तदर्थमाह - 'सरलवृक्षः' । अत्र हि तन्नामको वृक्षविशेष: सर्वस्यैव बुद्धिनिष्टो भवेत् ।
भूयस्सु स्थलेषु तु टीकाकारस्य व्याख्यामालोक्य क्षमाशीलस्यापि मानसमुद्देलं भवति । 'निर्लक्षणा
पाण्डुरपृष्ठा', 'दावानलशङ्का वनवह्निद्वापरः', 'वसन्त इव इष्य इव', इत्यादिव्याख्या कस्य क्षोभाय
न भवेत् ?
 
काव्ये च साहित्ये च टीकाकारमहोदयस्य कियत्पाण्डित्यमिति त्वये निवेदयिष्यामि, किन्तु पर्यायश-
ब्दान्वेषणे सर्वमपि वैदुष्यसेष निःशेषयतीति तु प्रत्येक मार्मिकस्यैवाऽवगतं भवेत् । 'निष्पतम्तीम्' इत्यस्य
टीकां करोति 'अधःसंयोगफलिकां कियां कुर्वन्तीम्' । 'वसन्ती' इत्यस्यार्थमाह 'एतनं गृह्णन्ती' । 'एतनं
गृह्णन्ती' इत्यस्यार्थ एतस्मिन्काले किमु सहसैवोदयेत् ? परं सर्वस्यापि पदस्य यत्किञ्चित्पर्यायपदमवश्यं निवे-
इयम् । पर्यायस्थापनेनैव टीका सुटीका भवतीति महोदयस्यास्य विचार: । किन्तु पर्यायनिरपेक्षस्य पदस्
बलात्पर्यायसं निवेशे कुत्रचित्कुत्र चित्कीदृशोऽनर्थः संभवतीति तु नास्य महाभागस्य विचारशक्तिरपि ।
 
सूक्ष्ममीक्ष्यतां तावत् - गद्यकाव्यं हि कवीनां कृतित्वपरीक्षायै निकषो नाम । गद्यकाव्येष्वपि 'कथा' -
काव्यमतिमनोहरम्, यद्धि वर्तमानकालिक उपन्यास (Novel) ' स्थापनीयम् । तत्रापि-
- वाचयतामाहार-
रुचिमपि तिरोदधत्तदिदं काव्यमस्ति यस्य लेखको मार्मिकाणां शिरोमणिः श्रीमान्बाणः । तस्यैव काव्यस्य
मायिकायाः सौन्दर्यसारसंघटिताया देवाङ्गनायाः (कादम्बर्याः) सौन्दर्यवर्णने महोदयोयं 'नाभिम्'
 
१ महामहोपाध्यायहरिदाससिद्धान्त वागीशभट्टाचार्यढीका भूमिकायाः सोयं संदर्भ उद्धृतः ।
कादंबरी प्र० ३