कादम्बरी /179
This page has not been fully proofread.
१४६
कादम्बरी ।
[ कथायाम्-
द्विजजनमात्मज दर्शनोत्सुका वेदश्रुतीरकारयत् । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव ।
गोरोचनालिखितभूर्जपत्रगर्भान्मन्त्रैकरण्डकानुबाह । रैक्षागतिस रोपेतान्योषधीसूत्राणि बबन्ध ।
परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम । तन्निमित्तानि च जग्राह । शिवाभ्यो मांस-
बलिपिण्डमनुदिनं निशँयुत्ससर्ज । स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे । चत्वरेषु शिव-
लिमुपजहार ।
एवं च गच्छति काले कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यांमल्पावशेषपाण्डुतारके जर
स्पासैवतपक्षधूत्रे नभसि स्वप्ने सितंप्रासादशिखरम्भिताया विलासवत्याः करिण्या इव बिर्से
बलय मानने सकलकलापूर्ण मण्डलं शशिनं प्रविशन्तमद्राक्षीत् । प्रबुद्धश्चोत्थाय हर्षविकाशस्फीत-
तरेण चक्षुषा धवलीकृतवा सभवनस्तस्मिन्नेव क्षणे शुकेनासं समाहूय स्वप्नमकथयत् ।
पुत्रस्तस्य दर्शनमवलोकनं तत्रोत्सुकोत्कण्ठिता वेदस्य श्रुतीः श्रवणमकारयद्ब्राह्मणद्वारा कारयामास । अका-
यदिति 'हृोरन्यतरस्याम्' इत्यण्यन्तस्य कर्ता द्विजजनः कर्मसंज्ञः । अनवरतेति । अनवरतं निरन्तरं
वाच्यमाना उच्यमानाः पुण्यकथाः पवित्रकथाः शुश्रावाश्रौषीत् । गोरोचनेति । गोरोचनालिखितं
भूर्जपत्र गर्ने मध्ये यस्यैवंभूतान्मन्त्रकरण्डकान्पिटकानुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे
लिटि रूपम् । रक्षेति । रक्षायाः प्रतिसरः कङ्कणं तेनोपेतान्योषधीसूत्राणि बबन्ध बन्धनं कृतवती । अस्या
विलासवत्याः परिजनोऽपि परिच्छदोऽप्युपश्रुत्यै रजंकादिवाक्यार्थं विलोकयितुं निर्जगाम बहिर्ययौ । 'देवप्रश्न
उपश्रुतिः' इति कोशः । तदिति । तन्निमित्तानि तदुक्तशकुनानि जग्राहाग्रहीत् । शिवेति । शिवाभ्यः
शृंगाली भ्योऽनुदिनं प्रतिदिनं मांसबलिपिण्डं निशि रात्रावुत्ससर्जोत्सृष्टवती । स्वप्नदर्शनाश्चर्याणि स्वप्नालोकन-
कुतूहलान्याचार्याणां गुरूणामाचचक्षे कथितवती चत्वरेषु शिवबलिनुपजहाराहृतवती ।
एवं चेति । एवं पूर्वोक्तप्रकारेण गच्छति व्रजति कालेऽनेहसि कदाचित्कस्मिंश्चित्समये खप्ने राजा विला-
सवत्या आनने मुखे शशिनं विशन्तं प्रविशन्तमद्राक्षीद्ददर्श । कस्याम् । रजन्यां रात्रौ । किंविशिष्टायाम् ।
क्षीणं भूयिष्ठं यस्याः सा तस्याम् । स्तोकरात्रावित्यर्थः । कस्मिन्सति । नभस्याकाशे सति । आकाशं विशे-
षयन्नाह - अल्पेति । अल्पाः खल्पा एव शेषा अवशिष्टाः पाण्डुतारकाः श्वेतनक्षत्राणि यस्मिन् । जरीयान्यः
पारावतः कपोतस्तस्य पक्षो वाजस्तद्वद्धूम्रे धूम्रवर्णे । विलासवतीं विशेषयन्नाह - सितेति । सितः शुश्रो
यः प्रासादस्तस्य शिखरमंमं तत्र स्थिताया उपविष्टायाः । कस्याः किमिव । करिण्या हस्तिन्या आनने
बिसवलयमिव मृणालवलयमिव । शशिनं विशिनष्टि - सकलेति । सकलाः समग्रा याः कलास्ताभिः पूर्ण
मण्डलं यस्य स तथा तम् । प्रबुद्धो विगतनिद्रः सन्नुत्थायोत्थानं कृत्वा हर्षात्प्रमोदायो विकाशो विमुद्रता
तेन स्फीततरेणातिगरिष्ठेन विस्तारितेन चक्षुषा लोचनेन धवलीकृतं शुश्रीकृतं वासभवनं निवासगृहं येन
p
टिप्प० - 1. वेदानां श्रुतीः पाठानिति यावत् । 2 देवप्रभाय, देवं मनुष्यादिद्वारा कीदृशं वचनं
श्रावयतीति जिज्ञासायै 'नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः । श्रूयते तद्विदुर्धीरा देवप्रश्नमुपश्रु-
तिम् ॥' हारावली । 3 'शिवाबलिम्' इत्येव पाठः । अयमुपहारो दिवसे इति पूर्वेण न पौनरुक्त्यमाश-
कयम् ।
पाठा०—१ द्विजगणान्. २ अनवरतम् ३ पुण्या: कथा: • ४ गण्डकान्; दण्डकान्. ५ परिसरो. ६ औषधि;
औषधी. ७ समुत्ससर्ज. ८ शिवाबलिम्. ९ एवं गच्छति. १० अल्पशेष. ११ पारापत. १२ धूसरे.
१३ सौधशिखर. १४ विसपल्लवम् ; किसलयम्. १५ परिपूर्ण. १/६ विशन्तम्. १७ सबहुमानं शुकनासमाहूय तम् ;
समाइय शुकनासाय तम्.