2023-12-09 11:19:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कृत [^१]विचित्रवतोपयाचितकानि सिषेवे । दर्शि [^२]तप्रत्ययानि [^३]संनिधानमातृकाभवनानि जगाम । प्रसिद्धेषु नागकुलह्रदेषु ममज्ज । अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृतप्रदक्षिणा
ववन्दे । [^४]दोलायमानवलयेन पाणियुगलेन [^५]स्नाता स्वयम- [^६]खण्ड [^७]सिक्थसंपादितं रजत [^८]पात्रपरिगृहीतं वाय- सेभ्यो दध्योदनबलिमदात् । [^९]अपरिमितकुसुमधूपविलेपापूप- पललपायस [^१०]बलिलाजकलितामहरहर [^११]म्बादेवीसपर्या- माततान । स्वयमु [^१२]पहृतपिण्डपात्रान्भक्तिप्रवणेन मनसा सिद्धादेशान्नग्नक्षपणकान्पप्रच्छ । विप्रश्निकादेशवचनानि बहु मेने । निमित्तज्ञानुपचचार । शकुनज्ञानविदामादरमदर्शयत् । अनेकवृद्ध- परम्परा [^१३]गमागतानि रह[^१४]स्यान्यङ्गीचकार । [^१५]दर्श- नागतं-
 
[ टि ]-- कृतेति । कृतानि विहितानि विचित्राणि देवतानां प्रतिमा- नामुपयाचितकानि [^1]भैक्ष्यचर्याणि येषु तानि । अथ च संनि- धना[^2]नि समवर्तीनि यानि मातृकाभवनानि माहेश्वरीप्रभृति- देवीनां गृहाणि जगाम गतवती । कीदृशानि । दर्शितः प्रकाशितः प्रत्ययो विश्वासो यैस्तानि प्रत्ययोऽनुष्ठानानुरूपं देवतावचनमिति
वा । यद्वा मातृगृहाण्यभिमतमातॄणां भवनानि । प्रसिद्धति । प्रसि- द्धेषु जगद्विख्यातेषु नागकुलानि तेषां ह्रदा द्रहास्तेषु ममज्ज मज्जनं चकार । अश्वत्थः पिप्पलः प्रभृतिरादौ येषां तान्महावनस्पतीन्महा- वृक्षानुपपादिता विहिता पूजार्चा येषां तान्कृता विहिता प्रदक्षिणा यया सैवंभूता ववन्दे वन्दनं कृतवती । तथा दोलायमानं कम्पमानं
वलयं कङ्कणं यस्य तत्तथा तेन पाणियुगलेन हस्तयुग्मेन दध्योदन- बलिं दधियुक्तो य ओदनस्तल्लक्षणो यो बलिस्तं वायसेभ्यः काकेभ्यः स्वयमात्मना स्नाता कृतस्नाना सत्यदाद्दत्तवती । बलिं विशिनष्टि - अखण्डेति । अखण्डास्फुटितो [^3]दनरूपेण पक्वै: सिक्थैरन्नकणैः संपादितं निष्पादितं यत्पात्रं भजनं तस्मिन्परिगृही- तमात्तम् । अहरहरिति प्रतिदिनमम्बादेवी दुर्गा तस्याः सपर्यां सेवामातनान विस्तारयामास । तामेव विशेषयन्नाह – अपरिमि- तेति। अपरिमितानि बहूनि कुसुमानि पुष्पाणि, धूपो गन्धपिशा- चिका, विलेपो विलेपनम्, अपूपः पिष्टकः, पिष्टतिलयोजितमन्नं पललम्, पायसं परमान्नम् । बलिलाजा बल्यर्थमक्षताः, एतैः कलितां व्याप्ताम् । स्वयमिति । स्वयमात्मना भक्तिः पूर्वं व्याख्याता, तया प्रवणेन युक्तेन मनसा स्वान्तेनोपहृतान्युपढौकितानि पिण्डपात्राणि येभ्यस्तान्सिद्धादेशा [^5]न्सिद्धसंज्ञितान्नग्ना वस्त्ररहिता ये क्षपणका दिगम्बरास्तान्पप्रच्छाप्राक्षीत् । विप्रश्निकेति । शुभाशुभप्रकाशिकाः स्त्रियो विप्र [^5]श्निकास्तासामादेशवचनान्याज्ञावचनानि बहु मेन आदरविशेषेणाङ्गीचकार । निमित्तेति । निमित्तं भौमाद्यष्टविधं जानन्तीति निमित्तज्ञास्तानुपचचार तेषां समीपे ययौ । शकुनज्ञान- विदां वसन्तराजादिशास्त्रज्ञानविदामादरं बहुमानमदर्शयद्दर्शित- वती। अनेकेति । अनेके ये वृद्धाः स्थविरास्तेषां परम्परा परिपाटी
तस्यां य आगमः प्रसिद्धिस्तदागतानि यानि रहस्यानि तत्त्वान्यङ्गी- चकार स्वीचक्रे । परिपाट्यां य आगमो मन्त्रशास्त्रं तदागतानि रहस्यानि वा । दर्शनेति । दर्शनार्थमागतं प्राप्तमेवंभूतं द्विजजनं ब्राह्मणलोकमात्मजः
 
 
[^1]F. इदमप्यशुद्धम् । 'यदि मे पुत्रलाभ: स्यात्तदा पुनरप्येवमेव समर्पयेयम्' इत्यङ्गीकारपूर्वमुपहारदानमुपयाचितकम् । 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं
तद्विदुर्बुधाः' जटाधरः ।
[^2]F. 'संनिहितमातृकाभवनानि' इत्येव पाठः । संनिहितानि मातृणाम् (ब्राह्मीत्यादीनाम्) भवनानीति तदर्थः ।
[^3]F.अखण्डैः अक्षतैः सिक्थैः धान्यकणैः संपादितम् ( दध्योद- नम्) इति व्याख्यानमुचितम् ।
[^4]F. अन्नभाजनानि ।
[^5]F. सिद्धः सत्यः आदेशः आज्ञावाक्यं येषां तानित्यर्थः ।
[^6]F. 'विप्रश्निका वीक्षणका दैवज्ञा' इत्यमरः ।
 
[^]G. विविध.
[^]G. प्रत्यादेशानि.
[^]G. संनिहितमातृभवनान्याजगाम; संनिधमातृभवनानि जगाम.
[^]G. मणिवलयेन.
[^]G. कृतखाना.
स्नाना.
[^
]G. अखण्डित.
[^]G. सिक्थकुसुमसंपादितम्.
[^]G. पात्रे.
[^]G. अपरिमितधूप विलेपं पललपायसलिम्.
[^१०]G. सलाज.
[^११]G. ज्येष्ठादेवी.
[^१२]G. उपाहित; उपाहृत,
[^१३]G. समागतानि; गतानि
.
[^
१४]G. चकार; अङ्गीकरोति स्म.
[^१५]G. दर्शनागतम्.
१९ का०