कादम्बरी /177
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
दिवेसव्यापारमन्वतिष्ठत् । ततःप्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनसपैर्या-
स्लादरवती बभूव । यद्यच किंचित्कुतचिंच्छुश्राव गैर्भतृष्णया तत्तत्सर्वं चकार । न महान्त-
मपि केशमजीगणत् । अनवरतदह्यमानगुग्गुलुंबहुलघूमान्धंकारितेषु चण्डिका गृहेषु धंवला.
म्वरेण शुचिमूर्तिरुपोषिता हरितकुशोपच्छदेषु मुसलशयनेषु सुष्वाप । पुण्यसलिलपूर्णैर्विवि-
धकुसुमफलोपेतः क्षीरतरुपलवलान्छनैः सर्वरत्नगः शातकुम्भकुम्भैर्गोकुलेषु वृद्धगोपवनि-
ताकृत मङ्गलानां लक्षणसंपन्नानां गवामधः सखौ । प्रतिदिवसमुत्थायोत्थाय सर्वरत्नोपेतानि
हैमानि तिर्लोपत्राणि ब्राह्मणेभ्यो ददौ । महानरेन्द्र लिखित मण्डलमध्यवर्तिनी विविधबलिदा-
मानन्दित विग्देवतानि बैंहुलचतुर्दशीनिशासु चतुष्पथे लॅपनमङ्गलानि भेजे । सिद्धायतनानि
१४४
\
यस्मिन्नवंभूतं दिवसव्यापारं दिनकृत्यमन्जतिष्ठदकरोत् । तत इति । ततःप्रभृति तद्दिनादारभ्य सुतरामत्यर्थ
देवताराधनेषु देवतानां देवीनामाराधनानि प्रसन्नीकरणानि तेषु, ब्राह्मणास्त्रयीमुखास्तेषां पूजा अर्चास्तासु, गुरु-
जनानां पूज्यजनानां सपर्या : सेवास्तास्वादरवत्यतिबहुमानवती बभूव जज्ञे । यद्यञ्चेति । यद्यदश्रुतपूर्व -
कृतपूर्व च किंचिद्वस्तु कुतश्चिदनिर्दिष्ट नामकेभ्यो जनेभ्यः शुश्रावाकर्णितवती गर्भतृष्णया भ्रूणलोभेन तत्त-
सर्वं कृतवती । न महेति । महान्तं महीयांसमपि क्लेशं कष्टं नाजीगणन्मनसि न गणि-
तवती । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यो गुग्गुलुः पलङ्कद्रवस्तस्य बहुलो निबिडो यो धूमस्ते -
मान्धकारः संजातो येष्वेवंविधेषु चण्डिका चामुण्डा तस्या गृहेषु सद्मसु । धवलेति । धवलाम्बरेण शुभ्र-
घाससा शुचिः पवित्रा मूर्तिः शरीरं यस्याः सा तथोपोषिता कृतोपवासा । हरितेति । हरिता नीला ये
कुशा दर्भास्त एवोपच्छद उत्तरपटो येष्वेवंभूतेषु मुसलान्ययोग्राणि तेषां शयनेषु तलिनेषु सुष्वाप शयनं
वकार । पुण्येति । पुण्यानि पवित्राणि यानि सलिलानि जलानि तैः पूर्णैर्भूतैर्विविधानि विचित्राणि यानि
कुसुमफलानि तैरुपेतैः सहितैः । क्षीरतरवो वटादयस्तेषां पल्लवाः किसलयानि । क्वचित् 'क्षीरपल्लव -' इति
पाठः । तत्र क्षीरपल्लवः कोमलपल्लव इति व्याख्येयम् । त एव लाञ्छनं चिह्नं येषां तैः । सर्वाणि समग्राणि
रत्नानि गर्ने मध्यभागे येषां तैः शातकुम्भं सुवर्णं तस्य कुम्भैर्निपै (?) र्गोकुलेषु व्रजेषु । वृद्धेति । वृद्धगोपस्य
मुख्य बल्लवस्य या वनिता स्त्री तया कृतं विहितं मङ्गलं तिलकादि याभिस्तासाम् । लक्षणैर्मषीतिलकादिभिः
संपन्नानां सहितानां गवां धेनूनामधोऽधोभागे सस्त्रौ स्नानं कृतवती । प्रतीति । प्रतिदिवसमहर्निशमु-
त्थायोत्थायोत्थानं कृत्वोत्थानं कृत्वेत्यर्थः । सर्वरत्नैः समग्रमणिभिरुपेतानि खचितानि हैमानि स्वर्ण निष्पन्नानि
तिलपत्राणि तिलपर्णाकृतिरूपाणि ब्राह्मणेभ्यो विप्रेभ्यो ददौ दत्तवती । अत्र संप्रदाने चतुर्थी । महेति । महा-
नरेन्द्रेण स्वकीयभर्त्रा लिखितमालिखितं यन्मण्डलं लोकप्रसिद्धं तन्मध्यवर्तिनी तदन्तस्थायिनी । विवि-
घेति । विविधमनेकप्रकारं यद्वलिदानं तेनानन्दिताः प्रमोद प्राप्ता दिग्देवता येषु तानि । बहुलेति ।
बहुलस्य कृष्णपक्षस्य याश्चतुर्दश्यस्तासां निशासु रात्रिषु चतुष्पथे चत्वरे स्नपनमङ्गलानि स्नानभद्राणि भेजे-
sभजत् । सिद्धायतनानीति । सिद्धा योगिनस्तेषामायतनानि चैत्यानि सिषेवे सेवितवती । कीदृशानि ।
टिप्प० - 1 मुसलशयनेषु श्रेणीभावेन पातितमुसलशय्यासु, इत्याशयः । पुत्रार्थिनीभिरेवंविधानि
तन्त्रमन्त्रानुष्ठानादीनि क्रियन्ते । 2 यासामित्युचितमाभाति । तिलपाणीव पाठः । सर्वरलोपेत-
(पूर्ण) त्वं पात्रेष्वेव घटते, रत्नखचितत्वार्थे तु नास्व स्वारस्यम् । 4 धन्यष्टीकाकार: ! महानरेन्द्रोऽत्र
प्रधानभूतो भूतोपचारकर्ता मान्त्रिकः ।
पाठा० - १ वासरव्यापारमकरोत् २ परिचर्यासु च. ३ अधिकमावरवती. ४ शुश्राव व्रतम्. ५ अर्भक.
६ गुग्गुलु. ७ बहल. ८ धूपान्धकारितेषु. ९ धवलाम्बरा; धवलाम्बर १० हरित्कुश. ११ उपच्छन्नेषु. १२ भूतल.
१३ पूरितैः; पूर्ते:. १४ मङ्गला. १५ तिलपात्राणि १६ बहुलपक्षचतुर्दशी १७ चतुष्पथेषु. १८ खान.