This page has not been fully proofread.

पूर्वभागः ।
 
• विलासवत्या देवताराधनम् ]
कदा नरेन्द्रसहस्र
 
प्रसारितभुजयुगलाभिनन्द्यमानागमनो
 
भूषणमणिमयूखाकुलीक्रियमाणलो-

 
लदृष्टिरास्थानस्थितस्य में पुरः सर्पिष्यति सभान्तरेषु । इत्येतानि मनोरथशतानि चिन्तयतो-
ऽन्तः संतप्यमानस्य प्रयान्ति रजन्यः । मामपि दहत्येवायमहर्निशमनल इवानपत्य-
तासमुद्भवः शोकैः । शून्यमिव मे प्रतिभाति जगत् । अफलर्मिंव पश्यामि
रोज्यम् । अप्रतिविधेये तु विधातरि किं करोमि। तैंम्मुच्यतामयं देवि, शोकानुबन्धः ।
आधीयतां धैर्ये धर्मे च धीः धर्मपरायणानां हि समीपसंचारिण्यः कल्याणसंपदो
भवन्ति' इत्येवमभिधाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव विकचकर्मलोप-
मानमाननमस्याः सानुलेखं ममार्ज । पुनःपुनश्च प्रियशतमधुराभिः शोकॉपनोदनिपुणा
भिर्धर्मोपदेशगर्भाभिर्वाग्भिराश्वास्य सुचिरं स्थित्वा नरेन्द्रो निर्जगाम ।
 
निर्गते च तस्मिन्मन्दीभूतशोकाँ विलासवती यँथाक्रियमाणाभरणपॅरिग्रहादिकमुचितं
 
१४३
 
!
 
बिम्बानि प्रतिरूपाण्यनुसरिष्यति तद्ब्रहणार्थमनुगमिष्यति । कदेति । कदेति पूर्ववत् । नरेन्द्राणां यत्सहस्रं तेन
प्रसारितं विस्तारितं यद्भुजयुगलम् । जात्येकवचनम् । तेनाभिनन्द्यमानमपेक्ष्यमाणमा गमनं यस्य स तथा ।
भूषणेति । भूषणानां ये मणयो रत्नानि तेषां मयूखाः किरणास्तैराकुली क्रियमाणा लोला दृष्टिर्यस्य स तथा ।
आस्थानस्थितस्य सभोपविष्टस्य मे मम पुरोऽग्रे सभान्तरेषु परिषन्मध्यप्रदेशेषु सर्पिष्यति पुनः पर्यटनं क-
रिष्यति । संतापनिवेदकानि चिन्तावाक्यानि त्रयोदशोपसंहरन्नाह - इत्येतानीति । एतानि पूर्वोक्तानि
 
रथशतानि मनोविकल्पितशतानि चिन्तयतो ध्यायतो राज्ञोऽन्तर्मध्ये संतप्यमानस्य प्रज्वल्यमानस्य रज-
न्यो रात्रयः प्रयान्ति गच्छन्ति । ममापीति । अनपत्यताऽसंतानता ततः समुद्भवः समुत्पन्नः शोकः शुग-
नल इव वह्निरिवाहर्निशं प्रतिदिनं मामपि दहत्येव ज्वालयत्येव । शून्येति । मे मम शून्यमिवोद्वसितमित्र
जगद्विश्वं प्रतिभाति प्रतिभासते । अफलेति । राज्यमाधिपत्यमफलमिव निरर्थकमिव पश्याम्यवलोकयामि ।
अप्रतीति । न विद्यते प्रतिविधेयमस्मान्प्रति यस्य विधातुस्तस्मिन्नप्रतिविधेये प्रतीकारानर्हे वा विधातर
किं करोमि किमनुतिष्ठामि । तदिति । तत् तस्मात्पूर्वोक्ताद्धेतोः । हे देवि, अयं शोकानुबन्धः शोकपरम्परा
मुच्यतां त्यज्यताम् । धैर्ये धीरतायां धर्मे च धीर्बुद्धिसधीयतां स्थाप्यताम् । अत्रार्थे हेतुमाह - धर्मेति । हि
निश्चितम् । धर्मपरायणानां सुकृततत्पराणां कल्याणसंपदः श्रेयोविभूतयः सदा सर्वकालं समीपसंचारिण्यः
पार्श्ववर्तिन्यो भवन्ति संजायन्ते । इत्येवं पूर्वोक्तप्रकारेणाभिधायोक्त्वा । सलिलमिति । सलिलं पानीय-
मादाय गृहीत्वा स्वयमात्मनः करतलेन पाणितलेनाभिनवपल्लवेनेव प्रत्यग्रकिसलयेनेव विकच विकस्वर
यत्कमलं नलिनं तदेवोपमानं यस्यैवंभूतमस्या विलासवत्याः साश्रुलेखमश्रुराज्या सहवर्तमानमाननं मुखं ममार्ज ।
शुद्धं चकारेत्यर्थः । 'मृजूष शुद्धौ' इति धातोर्लिटि रूपम् । पुनरिति । पुनः पुनर्वारंवारम् । प्रियेति ।
प्रियमिष्टं तस्य शतं तेन मधुराभिर्मिष्टाभिः शोकस्य शुचो योऽपनोदो दूरीकरणं तत्र निपुणाभिः पण्डिताभिर्धर्मस्य
पुण्यस्य य उपदेशः प्रतिपादनं स एव गर्भेऽभ्यन्तरे यासां ताभिरेवंभूताभिर्वाग्भिर्वचोभिराश्वास्याश्वासनां कृत्वा
सुचिरं चिरकालं यावत्स्थित्वा नरेन्द्रो नृपो निर्जगाम गृहाद्वहिर्ययौ ।
 
निर्गते बहिर्गते च तस्मिन्मन्दीभूतशोका मन्दीभूतः क्षीणतां प्राप्तः शोको यस्याः सर्वभूता विलासवत्युचितं
योग्यम् । यथेति । यथा पूर्वोक्तप्रकारेण क्रियमाणो विधीयमानो य आभरणपरिग्रहो विभूषणस्वीकारः स एवादौ
 
पाठा० -१ मयूखलेखाकुली. २ मम. ३ पर्यटिष्यति. ४ इत्येतानि चान्यानि; इत्येतानि च ५ यान्ति.
 
६. संतापः ७ शून्यमेव. ८ इवाखिलं पश्यामि ९ जीवितं राज्यं च. १० मुच्यतां देवि. ११ इत्थम् ; एवम्.
.१२ कमलतुल्यम्. १३ अपनोदन. १४ सुचिरं नरेन्द्र १५ शोकावेगा. १६ यथाक्रियमाणम्. १७ परिग्रहादिकं
समुचितम् ; परिग्रहादिकसमुचितम्..