2023-12-06 06:27:57 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१४२
 
कादम्बरी ।
 
मम हृदयेन दृष्ट्या च सह परिभ्रमन्भवनाङ्गणम् । कदा केसरि- [^१]किशोरक इव संजातजानु-
चं
[^२]चङ्क्रमणावस्थः संचरि- ष्यतीतस्ततः स्फटिकॅ [^३]कमणिभित्त्यन्तरितान्भवनमृगशावकार्-
[^४]ञ्
जिघृक्षुः ।
[^५]कदान्तःपुरनूपुरनिनाद सङ्गता [^६]न्गृह- कलहंसकाननुसरन्कै [^७]न्कक्षान्तरप्र [^८]धाबिवितः कनकमेखला- घण्टिका-
रवानुसारिणीमायासयिष्यति धात्रीम् । कदा कृष्णागुरु- ड्डङ्कलिखितमदलेखालंकृत [^९]गण्डे-
स्थलक: [^१०]मुखडिण्डिम- ध्वनिजै [^११]जनितप्रीति रूर्ध्व कर करविप्रकीर्णचन्दन चूर्णधूलिधूसरः कुश्ञ्चिताङ्गुलि -
शिखराङ्कुशाकर्षणविधूतशिराः करिष्यति मं[^१२]मत्तगजराजलीलाक्रीडाः । कदा मातुश्चरण [^१३]युगल-
रागोपयुक्तशेषेण पिण्डालक्तकरसेन [^१४]वृद्धक
ञ्चुकिनां विडम्बयिष्यति मुखानि । कदा कुतूहल -
चै
[^१५]चञ्चललोचनो मणिकुट्टिमेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः [^१६]प्रतिबिम्बानि ।
 
[ कथामुखे-
2
 
Copmba
 

 
[ टि ]--
च लोचनेन सह सार्धं परिभ्रमन्नितस्ततः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूषयिष्यति । एतेन राज्ञ
श्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् । कदेति । कदेति पूर्ववत् । इतस्ततः संच- रिष्यति संचरणं
करिष्यति । क इव । केसरी सिंहस्तस्य किशो- रकः शिशुस्तद्वदिव । संजातेति । संजाता समुत्पन्ना
जातु कदाचित् चङ्क्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या
भित्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भ- वनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्य-
मान- मूर्तीञ्जिघृक्षुर्गृहीतुमिच्छुः । कदेति । कदा कस्मिन्काले धात्रीमुप- मातरमायासयिष्यति प्रयासं जन-
यिष्यति । कीदृक् । कक्षान्तरे
गृह [^1]कोणान्तरे प्रधावित उच्चलितः । दर्शनविषयत्वाभावादाह —– कनकेति ।
कनकस्य सुवर्णस्य या मेखला रसना तस्या घण्टिकाः किङ्किण्यस्तासां यो रवः शब्दस्तमनुसर्तुं शीलं
यस्याः सा ताम् । किं कुर्वन् । अनुसरन्ननु लक्ष्यीकृत्य गच्छन् । कान् । गृह- कलहंसकान्भवनसितच्छदान् ।
कीदृशान् । अन्तःपुरेऽवरोधे यो नूपुरस्य पादकटकस्य निनादः शब्दस्तेन संगतान्मिलितान् । कदेति ।
कदेति पूर्ववत् । मत्तो यो गजराजो हस्ती तस्य लीला विलासो यस्यामेवंविधाः क्रीडाः खेलनं करिष्यति
रचयिष्यति । उभयोः साम्यप्रतिपादनार्थमाह - कृष्णेति । कृष्णागुरुः काकतुण्ड- स्तस्य पङ्को द्रवस्तेन
लिखिता लिपीकृता या मदलेखावल्लेखा तयालंकृतं विभूषितं गण्डस्थलं यस्य स तथा । 'शेषाद्विभाषा' इति

कप्प्रत्ययः । पक्षे कृष्णागुरुपङ्कवन्मदलेखा दानपद्धतिः । मुखेति । धात्र्यादीनां लालनार्थं मुसेखेन यो डिण्डि-
मध्वनिः, अथ चानुरक्त-
हस्तिपकानां मुखेन समाधानार्थं यो डिण्डिमध्वनिस्तेन जनितोत्पा- दिता प्रीतिर्यस्य स
तथा । ऊर्ध्वेति । ऊर्ध्वकरेणोर्ध्वीकृतहस्तेन, तादृशशुण्डया च विप्रकीर्णा विक्षिप्ता चन्दनचूर्णस्य मलय-
जक्षो- दस्य धूलिस्तया, च चन्दनचूर्णवद्धूलिः पांसुः तया धूसरो मलिनः । कुञ्चितेति । कुञ्चिता वक्रीकृता
याङ्गुली तस्याः शिखरमग्रम् । 'शिखरं पुलकाप्रयोः' इत्यनेकार्थः । तदेवाङ्कुश: सृणिः । गजपक्षे कुञ्चितागु-
लिशिखरवदङ्कुशस्तेनाकर्षणं पृष्ठे पुरतो वा चालनं तेन विधूतं कम्पितं शिरो मस्तकं येन स तथा । कदेति ।
मातुरिति । माता जननी तस्याश्चरणयुगलं पादद्वन्द्वं तस्य रागो रञ्जनं तत्रोप- युक्तः सन् यः शेष उर्वरित-
स्तेन पिण्डालक्तकः पिण्डीकृतो यो लाक्षाद्रवस्तस्य यो रसः तेन वृद्धकञ्चुकिनां स्थविरसौविदल्लानां मुखानि
वदनानि विडम्बयिष्यति । तद्रसाश्लेषेण विरूपाणि करि- ष्यतीति भावः । कदेति । कदेति पूर्ववत् । कुतू-
हलेन कौतुकेन चञ्चले चपले लोचने नेत्रे यस्य स तथा । मणिकुट्टिमेषु रत्नबद्ध- भूमिषु संक्रान्तमात्मीयमु-
खारविन्दं द्रष्टुमधोदत्ता दृष्टियेन स तथा तदलाभखेदात्स्खलन्ती गतिर्यस्यैवंभूत आत्मनः स्वकीयस्य प्रति-
टिप्प० -

 
 
[^
1]F. एकस्याः कक्षाया राजहर्म्यप्रावरणात् ('डेउढी' तः ) अन्यस्यां कक्षायामित्यर्थः ।
 
पाठा० -

 
[^
]G. किशोर.
[^
]G. चङ्क्रमणारम्भः .
[^
]G. मणिमय .
[^
]G. आजिघृक्षु: .
[^
]G. अन्तः पुरिकानूपुर .
[^
]G. गृहहंसकान्.
 

[^
]G. पक्षान्तर.
[^
]G. प्रभाधाविताम् .
[^
]G. गण्डस्थल: कोमल.
[^
१०]G. मुखरवडिण्डिम.
[^
११]G. जात.
[^
१२]G. मदमत्तगजराजलीलाम्;
मत्तगजक्रीडाम्; मत्तगजरा- लीलाम्; मत्तगजराजलील: क्रीडाम्; मत्तगजराजलीला:.
[^
१३]G. चरणरागोपयुक्त.

[^
१४]G. कञ्चुकिनाम्.
[^
१५]G. लोक, .
[^
१६]G. प्रतिबिम्बितानि.