कादम्बरी /175
This page has not been fully proofread.
१४२
कादम्बरी ।
मम हृदयेन दृष्ट्या च सह परिभ्रमन्भवनाङ्गणम् । कदा केसरिकिशोरक इव संजातजानु-
चंङ्क्रमणावस्थः संचरिष्यतीतस्ततः स्फटिकॅमणिभित्त्यन्तरितान्भवनमृगशावकार्जिघृक्षुः । क
दान्तःपुरनूपुरनिनाद सङ्गतागृहकलहंसकाननुसरन्कैक्षान्तरप्रधाबितः कनकमेखलाघण्टिका-
रवानुसारिणीमायासयिष्यति धात्रीम् । कदा कृष्णागुरुपड्डलिखितमदलेखालंकृतगण्डे-
स्थलक: मुखडिण्डिमध्वनिजैनितप्रीति रूर्ध्व कर विप्रकीर्णचन्दन चूर्णधूलिधूसरः कुश्चिताङ्गुलि -
शिखराशाकर्षणविधूतशिराः करिष्यति मंत्तगजराजलीलाक्रीडाः । कदा मातुश्चरणयुगल-
रागोपयुक्तशेषेण पिण्डालक्तकरसेन वृद्धक
किनां विडम्बयिष्यति मुखानि । कदा कुतूहल -
चैञ्चललोचनो मणिकुट्टिमेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः प्रतिबिम्बानि ।
[ कथामुखे-
2
Copmba
च लोचनेन सह सार्धं परिभ्रमन्नितस्ततः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूषयिष्यति । एतेन राज्ञ•
श्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् । कदेति । कदेति पूर्ववत् । इतस्ततः संचरिष्यति संचरणं
करिष्यति । कइव । केसरी सिंहस्तस्य किशोरकः शिशुस्तद्वदिव । संजातेति । संजाता समुत्पन्ना
जातु कदाचित् चङ्क्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या
भित्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भवनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्य-
मानमूर्तीजिघृक्षुर्गृहीतुमिच्छुः । कदेति । कदा कस्मिन्काले धात्रीमुपमातरमायासयिष्यति प्रयासं जन-
यिष्यति । कीदृक् । कक्षान्तरे गृहकोणान्तरे प्रधावित उच्चलितः । दर्शनविषयत्वाभावादाह —– कनकेति ।
कनकस्य सुवर्णस्य या मेखला रसना तस्या घण्टिकाः किङ्किण्यस्तासां यो रवः शब्दस्तमनुसतुं शीलं
यस्याः सा ताम् । किं कुर्वन् । अनुसरन्ननु लक्ष्यीकृत्य गच्छन् । कान् । गृहकलहंसकान्भवनसितच्छदान् ।
कीदृशान् । अन्तःपुरेऽवरोधे यो नूपुरस्य पादकटकस्य निनादः शब्दस्तेन संगतान्मिलितान् । कदेति ।
कदेति पूर्ववत् । मत्तो यो गजराजो हस्ती तस्य लीला विलासो यस्यामेवंविधाः क्रीडाः खेलनं करिष्यति
रचयिष्यति । उभयोः साम्यप्रतिपादनार्थमाह - कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पको द्रवस्तेन
लिखिता लिपीकृता या मदलेखावल्लेखा तयालंकृतं विभूषितं गण्डस्थलं यस्य स तथा । 'शेषाद्विभाषा' इति
कप्प्रत्ययः । पक्षे कृष्णागुरुपङ्कवन्मदलेखा दानपद्धतिः । मुखेति । धात्र्यादीनां लालनार्थ मुसेन यो डिण्डि-
मध्वनिः, अथ चानुरक्तहस्तिपकानां मुखेन समाधानार्थ यो डिण्डिमध्वनिस्तेन जनितोत्पादिता प्रीतिर्यस्य स
तथा । ऊर्ध्वेति । ऊर्ध्वकरेणो वकृतहस्तेन, तादृशशुण्डया च विप्रकीर्णा विक्षिप्ता चन्दनचूर्णस्य मलय-
जक्षोदस्य धूलिस्तया, च चन्दनचूर्णवद्धूलिः पांसुः तया धूसरो मलिनः । कुञ्चितेति । कुञ्चिता वक्रीकृता
याङ्गुली तस्याः शिखरमग्रम् । 'शिखरं पुलकाप्रयोः' इत्यनेकार्थः । तदेवाङ्कुश: सृणिः । गजपक्षे कुञ्चितागु-
लिशिखरवदङ्कुशस्तेनाकर्षणं पृष्ठे पुरतो वा चालनं तेन विधूतं कम्पितं शिरो मस्तकं येन स तथा । कदेति ।
मातुरिति । माता जननी तस्याश्चरणयुगलं पादद्वन्द्वं तस्य रागो रञ्जनं तत्रोपयुक्तः सन् यः शेष उर्वरित-
स्तेन पिण्डालक्तकः पिण्डीकृतो यो लाक्षाद्रवस्तस्य यो रसः तेन वृद्धकञ्चुकिनां स्थविरसौविदल्लानां मुखानि
वदनानि विडम्बयिष्यति । तद्रसाश्लेषेण विरूपाणि करिष्यतीति भावः । कदेति । कदेति पूर्ववत् । कुतू-
हलेन कौतुकेन चञ्चले चपले लोचने नेत्रे यस्य स तथा । मणिकुट्टिमेषु रत्नबद्धभूमिषु संक्रान्तमात्मीयमु-
खारविन्दं द्रष्टुमधोदत्ता दृष्टियेन स तथा तदलाभखेदात्स्खलन्ती गतिर्यस्यैवंभूत आत्मनः स्वकीयस्य प्रति-
टिप्प० - 1 एकस्याः कक्षाया राजहर्म्यप्रावरणात् ('डेउढी' तः ) अन्यस्यां कक्षायामित्यर्थः ।
पाठा० -१ किशोर. २ चङ्क्रमणारम्भः ३ मणिमय ४ आजिघृक्षु: ५ अन्तः पुरिकानूपुर ६ गृहहंसकान्.
७ पक्षान्तर. ८ प्रभाविताम् ९ गण्डस्थल: कोमल. १० मुखरवडिण्डिम. ११ जात. १२ मदमत्तगजराजलीलाम्;
मत्तगजक्रीडाम्; मत्तगजर जलीलाम्; मत्तगजराजलील: क्रीडाम्; मत्तगजराजलीला:. १३ चरणरागोपयुक्त.
१४ कञ्चुकिनाम्. १५ लोक, १६ प्रतिबिम्बितानि.