2023-12-05 15:23:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राज्ञा विलासवती सान्त्वनम्]
 
पूर्वभागः ।
 
[^१]माखमसन्नपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवीं [^२]द्रक्ष्यामि ? कदा मे तनयजम्न्ममहोत्सवा-
नन्दनिर्भरो हरिष्यति पूर्णपात्रं परि- जन: ? कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा
चौ
द्यौरिवोदितरै- [^३]रविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वौषधि [^४]पिअर-
ञ्जरजटिलकेशो निहित [^५]रक्षावृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपो [^६]न्मिश्रभूतिलेशो गोरोचना [^७]चि-
नाचि
त्रकण्ठसूत्रप्ग्रन्थिरुत्तानशयो दशनशून्य स्मिताननः पुत्रको जनयिष्य- ति मे हृदयाह्लादम् ।
कदा गोरोचनाकपिलद्युतिरन्तः पुरिका करकर- तलपरम्परासंचार्यमाणमूर्तिरशेष [^८]जनवन्दितो मङ्गल-
प्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षिति [^९]रेणुंणु- धूसरो मण्डयिष्यति
 

 
[ टि ]--
सा ताम् । कामि । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासीनिशामिव
राकारात्रिमिव । कदेति । मे मम तनयजन्म महोत्सवः पुत्रजननलक्षणस्तस्मिन्य आनन्दः प्रमोदस्तेन
निर्भरः संभृतः परिजनः पूर्णपात्रं पूर्णानकं हरिष्यति ग्रहीष्यति । [^1]' उत्सवेषु सुहृद्भिर्यद्लादाकृष्य गृह्यते ।

वस्त्रं
माल्यं च तत्पूर्णपात्रं पूर्णानकं च' इति कोशः । कदेति । देवी विलासवती कदा मामानन्दयिष्यति
मोदं जनयिष्यति । तामेव विशेषयन्नाह - हारिद्रेति । हरिद्रया रजन्या रक्तं हारिद्रं यद्वसनं तस्य
धारिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः क्रोडो यस्याः सा । केव । द्यौरिवाका-
शमिव । तां विशिष्टि - उदितेति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यबिम्बं यस्यां सा । सह बालात-
पेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वाद्वा- द्बालातपसाम्यम् । सूर्यबिम्बपुत्रयोश्च साम्यम् ।
कषे
कदेति । पुत्रकः सुतो मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेष-
यन्नाह - सर्वेति । सर्वाश्च ती[^2]ता ओषधयस्ताभिः पिञ्जराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशाः कचा
यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतबिन्दुर्यस्मिन्नेवभूते तालुनि काकुदे विन्यस्तः स्थापितो
गौरसर्षपेणोन्मिश्रः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः । गोरोचनेति ।

गोरोचना तया चित्रो विचित्रः कण्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति ।
उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैर्द-न्तैः शून्यं रहितमेतादृशं स्मितं विकसितमाननं
मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुषोर्नेत्रयोर्मङ्गल- प्रदीप इव मङ्गलदीप इव
शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् । गोरोचनावत्कपिला पिङ्गला द्युतिः
कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तः पुरिकाः पटाद्यन्तरिताः
स्त्रियस्तासां करतला- नि हस्ततलानि तेषां परम्परा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना
मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समग्रैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदा
चेति । कति पूर्ववत् । क्षित्याः पृथिव्या यो रेणुर्धूलिस्तेन धूसरो मलिनो मम हृदयेन चित्तेन दृछ्ष्ट्या
 
टिप्प० -

 
[^
1]F. 'वर्धापकं यदानन्दादलंकारादिकं पुनः । आाकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥'
इति हारावलीपाठः ।
[^
2]F. 'कुष्ठमांसी हरिद्राभिर्वचाशैलेय चन्दनैः । सुराचन्दनकर्पूरै- र्मुस्तः सर्वौषधिः
स्मृतः ॥ इति राजनिघंट: ।
[^
3]F. अन्तःपुरनिवासिन्य इत्यर्थः ।
[^
4]F. एकस्या हस्तादपरस्या हस्ते नीय
मानेत्याशयः ।
 
पाठा० -

 
[^
]G. आसन्न चन्द्रोदयाम् .
[^
]G. प्रद्रक्ष्यामि .
[^
]G. उद्यत .
[^
]G. पिञ्जरित .
[^
]G. घृतमधुबिन्दुतालु .
[^
]G. लेखः, .
[^
]G. चि-
त्रित
त्रित.
[^
]G. जनाभिनन्दिता.
[^
]G. क्षितितलरेणु.