This page has not been fully proofread.

राज्ञा विलासवती सान्त्वनम्]
 
पूर्वभागः ।
 
माखमपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवीं द्रक्ष्यामि ? कदा मे तनयजम्ममहोत्सवा-
नन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजन: ? कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा
चौरिवोदितरैविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वौषधिपिअर-
जटिलकेशो निहितरक्षावृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपोन्मिभूतिलेशो गोरोच-
नाचित्रकण्ठसूत्रप्रन्थिरुत्तानशयो दशनशून्य स्मिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् ।
कदा गोरोचनाकपिलद्युतिरन्तः पुरिका कर तलपरम्परासंचार्यमाणमूर्तिरशेषजनवन्दितो मङ्गल-
प्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुंधूसरो मण्डयिष्यति
 
सा ताम् । कामिष । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासीनिशामिव
राकारात्रिमिव । कदेति । मे मम तनयजन्म महोत्सवः पुत्रजननलक्षणस्तस्मिन्य आनन्दः प्रमोदस्तेन
निर्भरः संभृतः परिजनः पूर्णपात्रं पूर्णानकं हरिष्यति ग्रहीष्यति । ' उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते ।
व माल्यं च तत्पूर्णपात्रं पूर्णानक च' इति कोशः । कदेति । देवी विलासवती कदा मामानन्दयिष्यति
मोदं जनयिष्यति । तामेव विशेषयन्नाह - हारिद्रेति । हरिद्रया रजन्या रक्तं हारिद्रं यद्वसनं तस्य
धारिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः क्रोडो यस्याः सा । केव । यौरिवाका-
शमिव । तां विशिष्टि - उदितेति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यबिम्बं यस्यां सा । सह बालात-
पेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वाद्वालातपसाम्यम् । सूर्यबिम्बपुत्रयोश्च साम्यम् ।
कषेति । पुत्रकः सुतो मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेष-
यन्नाह - सर्वेति । सर्वाश्च ती ओषधयस्ताभिः पिञ्जराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशाः कचा
यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतबिन्दुर्यस्मिन्नेवभूते तालुनि काकुदे विन्यस्तः स्थापितो
गौरसर्षपेणोन्मिश्रः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः । गोरोचनेति ।
गोरोचना तया चित्रो विचित्रः कण्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति ।
उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैर्द-तैः शून्यं रहितमेतादृशं स्मितं विकसितमाननं
मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुषोर्नेत्रयोर्मङ्गलप्रदीप इव मङ्गलदीप इव
शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् । गोरोचनावत्कपिला पिङ्गला द्युतिः
कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तः पुरिकाः पटाद्यन्तरिताः
स्त्रियस्तासां करतलानि हस्ततलानि तेषां परम्परा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना
मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समग्रैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदा
चेति । कति पूर्ववत् । क्षित्याः पृथिव्या यो रेणुर्धूलिस्तेन धूसरो मलिनो मम हृदयेन चित्तेन दृछ्या
 
टिप्प० - 1 'वर्धापकं यदानन्दादलंकारादिकं पुनः । आाकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥'
इति हारावलीपाठः । 2 'कुष्ठमांसी हरिद्राभिर्वचाशैलेय चन्दनैः । सुराचन्दनकर्पूरैर्मुस्तः सर्वौषधिः
स्मृतः ॥ इति राजनिघंट: । 3 अन्तःपुरनिवासिन्य इत्यर्थः । 4 एकस्या हस्तादपरस्या हस्ते नीय
मानेत्याशयः ।
 
पाठा० -१ आसन्न चन्द्रोदयाम् २ प्रद्रक्ष्यामि ३ उद्यत ४ पिञ्जरित ५ घृतमधुबिन्दुतालु ६ लेखः, ७ चि-
त्रित ८ जनाभिनन्दिता. ९ क्षितितलरेणु.