2023-12-05 13:37:17 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१४०
 
कादम्बरी ।
 
[ कथायाम्-
जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि।[^१]यावन्मा- नुष्य के शक्यमु-
पपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, [^२]गुरुषु भक्तिम् । द्विगुणामुपपा-
दय
दय [^३]देवतासु पूजाम् । ऋषिजनसं [^४]सपर्यासु दर्शितादरा भव । परं हि दैवतमृषयो यत्ने-

नाराधिता यथासमीहितफलानां [^५]दुर्लभानामपि वराणां दातारो भवन्ति । [^६]श्रूयन्ते हि पुरा
चॅ
[^७]चण्ड [^८]कौशिकंप्रभावान्मं- [^९]न्मगधेषु बृहद्रथो नाम राजा [^१०]जनार्दनस्य जेतार[^११]म- तुलभुजबलमप्रति-
रथं जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणतवै [^१२]वया विभाण्डकमहामुनिसुत-
स्वर्थ्
स्यर्ष्यशृङ्गस्य प्रसादा- न्नारायणभुजा निवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् ।

अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृत [^१३]स्वादसुख- भाजी बभूवुः । अमोघफला हि
[^१४]महामुनिसेवा भवन्ति । अहमपि खै[^१५]खलु देवि, कदा समुपारूढगर्भभराल [^१६]सा-
मापाण्डुमुखी-
-
 

 
[ टि ]--
पुरुषस्य मनुष्यस्य । अत इहजन्मन्यस्मिन्भवे दैवमदृष्ट- मन्यथाकर्तुमनिष्टफलदं इष्ट फलदं कर्तुमेव न शक्यमभि-
युक्तेनापि पण्डितेनापि । किं पुनर्मन्दमेधसा । अत्र दैवं द्विविधम् । प्रतिबन्ध- कमप्रतिबन्धकं च । प्रतिबन्धकं
तदपि द्विविधम् । स्वतः प्रतिषेध- रूपं वन्ध्यस्त्रीपुंयोगादौ । द्वितीयं तु सहकारिविघटनद्वारा राज्यप्राध्- प्राप्त्यादौ
कार्योत्पत्तिप्रतिबन्धकम् । अप्रतिबन्धकं तदपि द्विविधम् । स्नानदानादिसामग्रीसमवधानेन प्रतिबन्धकं न भवति ।
तदभावे तु प्रतिबन्धकम् । अतोऽदृष्टस्याप्रत्यक्षत्वेन विविच्य ज्ञातुमशक्यत्वात् । द्वितीयसंभावनां चेतसिकृ-
त्याह - यावदिति । मानुष्य के मनुष्य-
जन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुप- पाद्यतां
क्रियताम् । एतदेव दर्शयति — अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारो गुरवस्तेषु पूर्वावस्थातो-
s
धिका- माधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि । देवतासु हरिहरा- दिषु द्विगुणां द्विगुणितां पूजामर्चामु-
पपादय निष्पादय । ऋषिजन- सपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यया सैवंभूता भव ।
हि निश्चितम् । ऋषयो मुनयः परमुत्कृष्टं दैवतं भाग्यम् । एतदेव प्रपञ्चयन्नाह - यत्नेति । यत्नेन प्रयत्नेन । मनः-

शुद्ध्येत्यर्थः । आराधिताः प्रीणिता सुनयो यथासमीहितानि यथा- भिलषितानि फलानि येष्वेवंभूतानां दुर्ल-
भानामपि वराणां मार्गि- [^1]तानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह -- [^2]श्रूयन्ते हीति ।
हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते । ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्वं चण्डकौशिको

मुनिस्तस्य प्रभावान्माहात्म्यागृद्बृहद्रथो राजा । नामेति कोमला- मन्त्रणे । जनार्दनस्य कृष्णस्य जेतारं जयन-
शीलमतुलं निरुपमं भुजबलं बाहुबलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरा- सन्धाभिधं तनयं
पुत्रं लेभे प्राप्तवान् । दशरथेति । चकारः पूर्वोक्त- समुच्चयार्थः । दशरथो राजा परिणतं पक्कंवं वयो यस्यैवं-
भूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्यर्ष्यशृङ्गस्य प्रसा- दान्माहात्म्यान्नारायणभुजानिव कृष्णबाहू-
निवाप्रतिहतानपराजि- तानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये
चेति । पूर्वोक्तव्यतिरिक्ता राजर्षयस्तपोधनां- स्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यद्दर्शनमवलोकनं तदे-

वामृतं तस्यास्वाद उपभोगस्तज्जनितं यत्सुखं सातं तद्भाजो बभूवु- र्जज्ञिरे । अत्रार्थे हेतुं प्रदर्शयन्नाह - अमो
घेति । हि निश्चितम् । अमोघं निश्चितं फलं यासां ता महामुनिसेवाः महातपस्विसपर्या भवन्ति । हे देवि,
लु निश्चयेन । अहमपि कदा कस्मिन्काले देवीं त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिनष्टि - समु
पेति । समुपारूढः प्राप्तो यो गऔंर्भो भ्रूणस्तस्य भरो भारस्तेनालसां मन्थ- रामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः
टिप्प० -

 
[^
1]F. अभिलाषाणामित्यर्थः ।
[^
2]F. समग्रस्य वक्ष्यमाणवाक्यार्थस्य कर्मत्वादेकत्वमेव समुचित

मिति 'श्रूयते' इत्येव पाठः ।
 
पाठा
 
८ प्रसादात्
 

 
[^
]G. यावत्तु.
[^
]G. गुरुभत्क्तिम् .
[^
]G. देवतापूजाम् .
[^
]G. परिचर्यासु.
[^
]G. अतिदुर्लभानाम् .
[^
]G. श्रूयते.
[^
]G. कौशिका.

[^८]G. प्रसादात्.
प्रसादप्रभावात् .
[^
]G. मगधेशो.
[^
१०]G. जनार्दनप्रतिमम् .
[^
११]G. अतुलबलपराक्रमम्; अमरतुल्यभुजबलम्.
 
9
 

[^
२]G. यया अपि, .
[^
१३]G. आस्वाद.
[^
१४]G. हि महामुनिजनसेवा; हि महामुनिसेवा भवति, .
[^
१५]G. खलु कूदा, .
[^
१६]G. आपाण्डुर
 
.