This page has not been fully proofread.

१४०
 
कादम्बरी ।
 
[ कथायाम्-
जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि । यावन्मानुष्य के शक्यमु-
पपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपा-
दय देवतासु पूजाम् । ऋषिजनसंपर्यासु दर्शितादरा भव । परं हि दैवतमृषयो यने-
नाराधिता यथासमीहितफलानां दुर्लभानामपि वराणां दातारो भवन्ति । श्रूयन्ते हि पुरा
चॅण्डकौशिकंप्रभावान्मंगधेषु बृहद्रथो नाम राजा जनार्दनस्य जेतारमतुलभुजबलमप्रति-
रथं जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणतवैया विभाण्डकमहामुनिसुत-
स्वर्थ्यशृङ्गस्य प्रसादान्नारायणभुजा निवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् ।
अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृतस्वादसुखभाजी बभूवुः । अमोघफला हि
महामुनिसेवा भवन्ति । अहमपि खैलु देवि, कदा समुपारूढगर्भभरालसामापाण्डुमुखी-
-
 
पुरुषस्य मनुष्यस्य । अत इहजन्मन्यस्मिन्भवे दैवमदृष्टमन्यथाकर्तुमनिष्टफलदं इष्ट फलदं कर्तुमेव न शक्यमभि-
युक्तेनापि पण्डितेनापि । किं पुनर्मन्दमेधसा । अत्र दैवं द्विविधम् । प्रतिबन्धकमप्रतिबन्धकं च । प्रतिबन्धकं
तदपि द्विविधम् । स्वतः प्रतिषेधरूपं वन्ध्यस्त्रीपुंयोगादौ । द्वितीयं तु सहकारिविघटनद्वारा राज्यप्राध्यादौ
कार्योत्पत्तिप्रतिबन्धकम् । अप्रतिबन्धकं तदपि द्विविधम् । स्नानदानादिसामग्रीसमवधानेन प्रतिबन्धकं न भवति ।
तदभावे तु प्रतिबन्धकम् । अतोऽदृष्टस्याप्रत्यक्षत्वेन विविच्य ज्ञातुमशक्यत्वात् । द्वितीयसंभावनां चेतसिकृ-
त्याह - यावदिति । मानुष्य के मनुष्यजन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुपपाद्यतां
क्रियताम् । एतदेव दर्शयति — अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारो गुरवस्तेषु पूर्वावस्थातो-
sधिकामाधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि । देवतासु हरि द्विगुणां द्विगुणितां पूजामर्चामु-
पपादय निष्पादय । ऋषिजनसपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यया सैवंभूता भव ।
हि निश्चितम् । ऋषयो मुनयः परमुत्कृष्टं दैवतं भाग्यम् । एतदेव प्रपञ्चयन्नाह - यत्नेति । यत्नेन प्रयत्नेन । मनः-
शुद्ध्येत्यर्थः । आराधिताः प्रीणिता सुनयो यथासमीहितानि यथाभिलषितानि फलानि येष्वेवंभूतानां दुर्ल-
भानामपि वराणां मार्गितानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह -- श्रूयन्ते हीति ।
हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते । ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्व चण्डकौशिको
मुनिस्तस्य प्रभावान्माहात्म्यागृहद्रथो राजा । नामेति कोमलामन्त्रणे । जनार्दनस्य कृष्णस्य जेतारं जयन-
शीलमतुलं निरुपमं भुजबलं बाहुबलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरासन्धाभिधं तनयं
पुत्रं लेभे प्राप्तवान् । दशरथेति । चकारः पूर्वोक्तसमुच्चयार्थः । दशरथो राजा परिणतं पक्कं वयो यस्यैवं-
भूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्यर्ष्यशृङ्गस्य प्रसादान्माहात्म्यान्नारायणभुजानिव कृष्णबाहू-
निवाप्रतिहतानपराजितानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये
चेति । पूर्वोक्तव्यतिरिक्ता राजर्षयस्तपोधनांस्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यद्दर्शनमवलोकनं तदे-
वामृतं तस्यास्वाद उपभोगस्तज्जनितं यत्सुखं सातं तद्भाजो बभूवुर्जज्ञिरे । अत्रार्थे हेतुं प्रदर्शयन्नाह - अमो
घेति । हि निश्चितम् । अमोघं निश्चितं फलं यासां ता महामुनिसेवाः महातपस्विसपर्या भवन्ति । हे देवि,
खल निश्चयेन । अहमपि कदा कस्मिन्काले देवीं त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिनष्टि - समु
पेति । समुपारूढः प्राप्तो यो गऔं भ्रूणस्तस्य भरो भारस्तेनालसां मन्थरामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः
टिप्प० -1 अभिलाषाणामित्यर्थः । 2 समग्रस्य वक्ष्यमाणवाक्यार्थस्य कर्मत्वादेकत्वमेव समुचित
मिति 'श्रूयते' इत्येव पाठः ।
 
पाठा
 
८ प्रसादात्
 
•१ यावत्तु. २ गुरुभत्तिम् ३ देवतापूजाम् ४ परिचर्यासु. ५ अतिदुर्लभानाम् ६ श्रूयते. ७ कौशिका.
प्रसादप्रभावात् ९ मगधेशो. १० जनार्दनप्रतिमम् ११ अतुलबलपराक्रमम्; अमरतुल्यभुजबलम्.
 
9
 
११ यया अपि, १३ आस्वाद. १४ हि महामुनिजनसेवा; हि महामुनिसेवा भवति, १५ खलु कूदा, १६ आपाण्डुर