2023-12-05 05:56:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राज्ञा विलासवतीसान्त्वनम् ]
 
पूर्वभागः ।
 
-
 
मपि परिजनप्रयत्नात्प्रवर् [^१]वर्त्यमाना सशोकेवासीत् । देवहृदय- पीडापे [^२]परिजिहीर्षया च न दर्शित-
वती विकारम् । अंच[^३]अद्य तु चतुर्दशीति भगवन्तं [^४]महाकालमर्चितुमितो गतया तंत्र महाभा-

रते वाच्यमाने श्रुतम् – [^५]'अपुत्राणां किल न सन्ति लोकाः शुभाः । पुंनाम्नो नरकात्रा-
त्रायत इति पुत्रः' इत्येतच्छुछ्रुत्वा भवनमागत्य परि- जनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहा-
रमभिनन्दति, न भूषण- परिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलम [^६]विरलबाष्प- दुर्दिना-
न्धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' [^७]इत्येतदभिधाय विरराम ।
 
m
 

 
विरतवचनायां [^८]तस्यां भूमिपालस्तूष्णीणीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निज-
गाद – 'देवि, किमत्र क्रियतां देदैवायत्ते वस्तुनि । [^९]अलमतिमात्रं रुदितेन । नैं[^१०]न वयमनुप्राग्राह्याः

प्रायो देवतानाम् । आत्मज परिष्वङ्गामृतास्वादसुखस्य नूनमभाज- नमस्माकं हृदयम् ।
अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तर [^११]कृतं हि कर्म फलमुपनयति पुरुषस्येह-

 

 
[ टि ]--
योग्येष्वपि दिवसव्यापारेषु दिनकृत्येषु कथंकथमपि महता कष्टेन परिजनः परिच्छदस्तस्य प्रयत्न आग्रहस्तेन

प्रवर्त्यमाना प्रेर्यमाणा । अन्वयस्तु प्रागेवोक्तः । तर्हि मया कथं न ज्ञातेत्याशयेनाह – देवेति । देवो भवां-

स्तस्य या हृदयपीडा चेतसोऽस्वास्थ्यं तस्याः परिजिहीर्षा परिहर्तुमिच्छा तया च विकारं शोकज्ञप्तिलक्षणं

न दर्शितवती न ज्ञापितवती । तर्ह्यद्य कथं तत् (स) प्रदर्शित इत्याशयेनाह — अद्येति । तु पुनरर्थे । अद्य

चतुर्दशीति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद्गतया तत्र महाकालप्रासादे महा-

भारते शास्त्रे वाच्यमाने पम्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां

सुतवर्जितानाम् । किलेति सत्ये । शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्तिं

प्रदर्शयन्नाह – पुंनाम्न इति । पुंनाम्नो नरकात्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति

ज्ञापितम् । इत्येतदिति । इति पूर्वोक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागत्य परिजनेन परिच्छदलो-

केन सशिरःप्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति

नाभिलषति । भूषणानामाभरणानां परिग्रहं स्वीकारं नाचरति न करोति । उत्तरं प्रतिवचो न प्रतिपद्यते । न

ददातीत्यर्थः । तर्हि किं करोतीत्याशयेनाह – केवलेति । केवलं रोदिति रोदनमेव करोति । नान्यत्किम-

पीति भावः । कीदृशी । अविरलो घनो बाष्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तनान्धकारितं संजा-

तान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति । देवो भवान्यदाज्ञापयिष्यति

तदेव सर्वैर्वेदवाक्यवत्स्वीकरिष्यत इति भावः । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा विरराम विरता बभूव ।
 

 
-
 

 
विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमात्रं तूष्णीं मौनं स्थित्वा । तद-

वस्थतयास्थायेत्यर्थः । दीर्घ लम्बायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् । हे देवि ।

किमत्रेति । दैवायत्ते दैवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तु शक्यम् । अत एवातिमात्रं रुदितेनात्य-

न्तरोदनेनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषया । नूनम् अस्माकं हृदयं

वक्ष आत्मजस्य पुत्रस्य यः परिष्वङ्ग उपगूहनं तदेवामृतं पीयूषं तस्यास्वादसुखमुपभोगसुखं तस्याभाजनम-

नाधारस्थलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिजन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न

कृतं न विहितम् । हि निश्चये । जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्रापयति
 

 
पाठा० - १ प्रवर्तमाना. २ परिजिहीर्षया न. ३ अथ चतुर्दशी; अद्य चतुर्दशी ४ महाकालाभिधानम्,

५ अपुत्राणां न सन्ति; अपुत्राणां किल गतिर्नास्ति न वा सन्ति ६ बाष्पबिन्दु ७ इत्याभधाय ८ च तस्याम्.

९ अतिमात्रमलं रुदितेन; अलमतिरुदितेन. १० वयमननुग्रायाः • ११ विहितम्,