This page has not been fully proofread.

राज्ञा विलासवतीसान्त्वनम् ]
 
पूर्वभागः ।
 
-
 
मपि परिजनप्रयत्नात्प्रवर्यमाना सशोकेवासीत् । देवहृदयपीडापेरिजिहीर्षया च न दर्शित-
वती विकारम् । अंच तु चतुर्दशीति भगवन्तं महाकालमर्चितुमितो गतया तंत्र महाभा-
रते वाच्यमाने श्रुतम् – 'अपुत्राणां किल न सन्ति लोकाः शुभाः । पुंनाम्नो नरकात्रा-
यत इति पुत्रः' इत्येतच्छुत्वा भवनमागत्य परिजनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहा-
रमभिनन्दति, न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलमविरलबाष्पदुर्दिना-
धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' इत्येतदभिधाय विरराम ।
 
m
 
विरतवचनायां तस्यां भूमिपालस्तूष्णी मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निज-
गाद – 'देवि, किमत्र क्रियतां देवायत्ते वस्तुनि । अलमतिमात्रं रुदितेन । नैं वयमनुप्रायाः
प्रायो देवतानाम् । आत्मज परिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् ।
अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह-

 
योग्येष्वपि दिवसव्यापारेषु दिनकृत्येषु कथंकथमपि महता कष्टेन परिजनः परिच्छदस्तस्य प्रयत्न आग्रहस्तेन
प्रवर्त्यमाना प्रेर्यमाणा । अन्वयस्तु प्रागेवोक्तः । तर्हि मया कथं न ज्ञातेत्याशयेनाह – देवेति । देवो भवां-
स्तस्य या हृदयपीडा चेतसोऽस्वास्थ्यं तस्याः परिजिहीर्षा परिहर्तुमिच्छा तया च विकारं शोकज्ञप्तिलक्षणं
न दर्शितवती न ज्ञापितवती । तर्ह्यद्य कथं तत् (स) प्रदर्शित इत्याशयेनाह — अद्येति । तु पुनरर्थे । अद्य
चतुर्दशीति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद्गतया तत्र महाकालप्रासादे महा-
भारते शास्त्रे वाच्यमाने पम्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां
सुतवर्जितानाम् । किलेति सत्ये । शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्तिं
प्रदर्शयन्नाह – पुंनाम्न इति । पुंनाम्नो नरकात्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति
ज्ञापितम् । इत्येतदिति । इति पूर्वोक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागत्य परिजनेन परिच्छदलो-
केन सशिरःप्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति
नाभिलषति । भूषणानामाभरणानां परिग्रहं स्वीकारं नाचरति न करोति । उत्तरं प्रतिवचो न प्रतिपद्यते । न
ददातीत्यर्थः । तर्हि किं करोतीत्याशयेनाह – केवलेति । केवलं रोदिति रोदनमेव करोति । नान्यत्किम-
पीति भावः । कीदृशी । अविरलो घनो बाष्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तनान्धकारितं संजा-
तान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति । देवो भवान्यदाज्ञापयिष्यति
तदेव सर्वैर्वेदवाक्यवत्स्वीकरिष्यत इति भावः । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा विरराम विरता बभूव ।
 
-
 
विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमात्रं तूष्णीं मौनं स्थित्वा । तद-
वस्थतयास्थायेत्यर्थः । दीर्घ लम्बायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् । हे देवि ।
किमत्रेति । दैवायत्ते दैवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तु शक्यम् । अत एवातिमात्रं रुदितेनात्य-
न्तरोदनेनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषया । नूनम् अस्माकं हृदयं
वक्ष आत्मजस्य पुत्रस्य यः परिष्वङ्ग उपगूहनं तदेवामृतं पीयूषं तस्यास्वादसुखमुपभोगसुखं तस्याभाजनम-
नाधारस्थलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिजन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न
कृतं न विहितम् । हि निश्चये । जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्रापयति
 
पाठा० - १ प्रवर्तमाना. २ परिजिहीर्षया न. ३ अथ चतुर्दशी; अद्य चतुर्दशी ४ महाकालाभिधानम्,
५ अपुत्राणां न सन्ति; अपुत्राणां किल गतिर्नास्ति न वा सन्ति ६ बाष्पबिन्दु ७ इत्याभधाय ८ च तस्याम्.
९ अतिमात्रमलं रुदितेन; अलमतिरुदितेन. १० वयमननुग्रायाः • ११ विहितम्,