This page has not been fully proofread.

१३८
 
कादम्बरी ।
 
[ कथामुखे-
द्धमन्येन वा केनचिदस्मदेनुजीविना परिजनेन ? अंतिनिपुणमपि चिन्तयन्न पश्यामि खलु
स्खलितमध्यात्मनस्त्वद्विषये । त्वदायत्तं हि मे जीवितं राज्यं च । कथ्यतां सुन्दरि, शुचः
कारणम्' इत्येवैमभिधीयमाना विलासवती यदा न किंचित्प्रतिवचः प्रतिपेदे तदा विवृद्ध-
बाष्पहेतुमस्याः परिजनमपृच्छत् ।
 
अथ तस्यास्ताम्बूलकरङ्कवाहिनी सततप्रत्यासन्ना मकरिका नाम राजानमुवाच -
'देव, कुतो देवादल्पमपि परिस्खलितम् । अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य
वा कस्यचिदपराद्धुम् । किंतु महाग्रहमस्ते व विफलराजैसमागमास्मीत्ययमस्या देव्याः
संतापः । मेहांश्च कालः संतप्यमानायाः । प्रथममपि स्वामिनी दानवश्रीरिव सततनि-
न्दितसुरता शँयनस्नानभोजनभूषणपरिग्रहादिषु सैंमुचितेष्वपि दिवसव्यापारेषु कथंकथ-
स्तनांशुकं पयोधरवस्त्रं यैस्ते तथा । कञ्चिदिति । कच्चि प्रश्न । मयास्मदनुजीविनास्मत्सेवकेन परिजनेन
परिच्छदेनान्येन केनचिद्वापराद्धमपराधः कृतः । अतीति । अतिनिपुणमतिचतुरं चिन्तयन्नपि विचारयन्नपि
त्वद्विषये । खलुं निश्चयेन । आत्मनः स्वकीयस्य स्खलितमपि वैगुण्यमपि न पश्यामि नाव
 
वाद-
शुचः
 
ति । हि निश्चितम् । मे मम जीवितं प्राणितं राज्यं च त्वदायत्तम् । त्वदधीनमित्यर्थः । हे सुन्दरि,

शोकस्य कारणं नियामकं कथ्यतां प्रतिपाद्यताम् । इतीति । इत्येवं पूर्वोक्तप्रकारेणाभिधीयमाना पृच्छ्य-
माना विलासवती राजपत्नी यदा न किंचित्प्रतिवचः प्रत्युत्तरं प्रतिपेदे प्रतिपन्नवती । तदेति । तदा तेन
प्रकारेणास्या विलासवत्या विवृद्धो वृद्धिं प्राप्तो यो बाष्पो नेत्राम्बु तस्य हेतुं कारणं परिजनमपृच्छदप्राक्षीत् ।
धातोर्द्विकर्मकत्वात्कर्मद्वयम् ।
 
>
 
अथेति । नृपप्रश्नानन्तरं तस्यास्ताम्बूलकरङ्कः स्थगी तद्वाहिका मकरिकेति नाम यस्याः । अनुकरणशब्द-
त्वान्न ङीप् । राजानं तारापीडमुवाचा ब्रवीदित्यन्वयः । कीदृशी । सततं निरन्तरं प्रत्यासन्ना निकटस्थायिनी ।
किंमुवाचेत्याह – देवेति । हे देव हे स्वामिन् देवात्तारापीडाद धिपतेरल्पमपि स्वल्पमपि परिस्खलितं कुतः
स्यात् । एतस्याः प्रीतिविषयेऽत्यन्तं सावधानत्वादिति भावः । अतश्चाभिमुख एतद्विषये लोकेनानुकूले
ज्ञाते देवे राज्ञि परिजनस्यान्यस्य कस्यचित्तद्भिन्नस्यापराद्धुमपराधं कर्तुं का शक्तिः सामर्थ्यम् । न कापी-
त्यर्थः । तर्हि किमस्तीत्याशयेनाह - किं विति । महाग्रहो भूतादिग्रहस्तग्रस्तेव तद्गृहीतेव । विफलेति ।
विगतं फलं पुत्रादिरूपं यस्मादेवंभूतो राजसमागमो राजसंभोगो यस्याः सा तथा । या महाग्रहग्रस्ता
स्यात्सापि विफलराजसमागमा स्यात् । राजरंङ्कयोर्विभेदं न जानातीत्यर्थः । अहमस्मीत्यस्या देव्या अयं संताप -
श्चित्तोद्वेगः । संतप्यमानायाः संतापं कुर्वत्या महान्कालो भूयाननेहा । गत इत्यध्याहार्यम् । प्रथममपि पूर्वमपि
स्वामिनीयं सशोकेवासीदित्यन्वयः । तामेव विशिष्ट - दानवेति । दानवस्यासुरस्य श्रीरिव लक्ष्मीरिव ।
उभयं विशिष्टि-- सततं निन्दितं सुरतं मैथुनं यया सा । पक्षे सुराणां समूहः सुरता । शेषं पूर्ववत् । शय-
नेति । शयनं स्वापः, स्नानमालवः भोजनमशनम्, भूषणपरिग्रह आभरणस्वीकारः, इत्यादिषु समुाचे तेष्वपि
 

 
-
 
टिप्प० -1 'स्खलितमल्पमध्यात्मनः' इत्येव समुचितः पाठः । अल्पमपि आत्मनः स्खलित मिति
अपिषदस्वारस्यात् । 2 न किञ्चित्वारस्यमस्मिन्नर्थे । वास्तवे तु 'विफलनरेन्द्रसमागमा' इत्येवोचितः
पाठः । महाग्रहेण पूतनादिना उत्कटभूतेन ग्रस्ता (भविष्टा ) नारी विफलो नरेन्द्रस्य ( भूत चिकित्स-
कस्य ) समागम उपस्थितिर्यस्यास्तादृशी भवति ( भूतापसारणस्याशक्यत्वात् ) । इयं तु पुत्रजननाभावा-
द्विफलो राज्ञः समागमो यस्यास्तादृशीत्यर्थः ।
 
पाठा० -१ उपजीविना २ अतिनिपुणं चिन्तयन् १ स्खलितमल्पमपि ४ जीवितं च राज्यं च ५ अभिधीय-
मानापि यदा. ६ प्रतिवचनम् ७ प्रदे ८ करण्डक ९ वाहिनी मकरिका १० महाग्रह. ११ नरेन्द्र १२ सुमहांश्च.
१३ शयनाशनस्नान; शयनासनस्तान १४ समुचितेषु दिवसव्यापारेषु.