2023-12-05 05:28:33 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]किमिति च हरिण इव हरिणलाञ्छने न [^२]लिखितः कृष्णा- गुरुपत्र भे[^३]भङ्गः पयोधरभारें ।
रे । केन कारणेन तन्वीयं [^४]र्रेर- मुकुट चन्द्रलेखेव गङ्गास्रोतसा न [^५]विभूषिता हारेण [^६]वरोरु, शिरो [^७]धरा ।
कि
किं वृथा वहसि विलासिनि सवदशुजललव- [^८]धौतपत्रलतं [^९]कपोलयुगम् । इदं च [^१०]कोमलाङ्गलि-
दलनिकरं रक्तोत्पलमिव करतलं किमिति कर्णपूरतामारोपितम् । [^११]इमां च केन हेतुना मा-
निनि, धारयस्यनुपरचितगोरोचना-
बिन्दु तिलकौम तिल[^१२]कामसंयमितालकिनीं, ललाटरेखाम् । अयं [^१३]
ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे [^१४]'हैदृष्टिखेदमतिबहुलतिमिरपट [^१५]लान्धकारः
कुसुमरहितः केशपाशः । प्रसीद, [^१६]निवेदैय देवि, दुःखनिमित्तम् । एते हि पल्लवमिव
सरागं ¨[^१७]मे [^१८]हृदयमाकम्पयन्ति तरलीकृत- स्तनां [^१९]शुकास्तवायताः [^२०]श्रीवासमरुतः । के[^२१]कच्चिन्मयापरा-

[ टि ]--
धमणिद्युतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे
इव पयोधरभारेंरे स्तनाभोंभोगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न
लिखितो न लिपीकृतः । अत्र गौरत्ववर्तुलत्व- किंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् । गौरकृष्णत्व-
साम्याच्च हरिणकृष्णागुर्वैःवो: साम्यम् । केनेति । हेंहे वरोरु, केन कारणेनेयं तन्वीं शिरोधरा ग्रीवा हारेण
मुक्ताकलापेन न विभूषिता नालंकृता । फेकेनेव गङ्गास्रोतसा स्वर्धुनीप्रवाहेण हरमुकुटो जटा- जूटस्तस्मिन्या
चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, स्रवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा बिन्दवस्तै-
धौं
र्धौता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवंभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । हृदं चेति ।
कोमलानि मृदूनि यान्यङ्गुलिदलानि तेषां निकर: समूहो यस्मिन्नेवंभूर्ततं करतलं हस्ततलं रक्तोत्पलमिव
कोकनदमिव । किमिति हेतोः कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे
मानिनि हे गर्वयुक्ते, केन हेतुना केन कारणेन इमां प्रत्यक्षगतां ललारेखामलिकराजीं धारयसि धत्से ।
तां विशेषयन्नाह – अन्विति । अनुपरचितमविहितं गोरोचना प्रसिद्धा तस्या बिन्दुभिस्तिलकं पुण्ड्रं
यस्याः सा ताम्, असंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव
कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः । क इव । बहु-
लपक्षप्रदोष इव बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनी मुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्र-
लेखादर्शनाद्हुलग्रहणम् । बहुलपक्षेsपि पश्चिमरात्रीरौ चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्र-
लेखा शशि- कला तया विरहितः । प्रदोषं विशेषयन्नाह - अतीति । अतिबहुलान्यति- न्यतिदृढानि यानि तिमिर-
पटलानि तमोमण्डलानि तैरन्धकारो नेत्र- रश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुमचन्द्र-
लेखयोः साम्यम् । कृष्णत्वसाधर्म्यात्केशकलापप्रदोषयोः साम्यम् । सान्त्वनोपक्रमेण चाटुवचनविस्तारमुपसं-
हरन्नाह — देवीति । हे देवि हे राज्ञि, प्रसीद प्रसन्ना भव । दुःखनिमित्तं मानसिकव्यथा- कारणं निवेदय
कथय । एते हीति । हि निश्चितम् । एते दृश्यमाना- स्तवायता विस्तीर्णाः श्वासमरुतो निःश्वासाः पल्लवमिव
किसलय- मिव सरागम् । राग आरुण्यं प्रीतिश्च तेन सह वर्तमानमित्यर्थः । एतेन पल्लवसाम्यता सूचिता ।
मे मम हृदयं चित्तमाकम्पयन्ति धूनयन्ति । श्वासमरुतो विशिनष्टि - तरलीति । तरलीकृतं चञ्चली- कृतं
 
-
 
टिप्प० –
[^1]F. अतिबहुलेत्यादिकं विशेषणं केशपाशेऽप्यन्वेति । कुसुमरहितः अत एव अतिबहुल तिमिर-
पटलवत् अन्धकारः केवलकृष्णवर्णः, इति तद्व्याख्या ।
 

 
पाठा० - १
[^१]G. किमिति हरिण .
[^
]G. आलिखित: .
[^
]G. पङ्कपत्रभङ्गः .
[^
]G. मुकुटे .
[^
]G. भूषिता .
[^
]G. वरारोहे.
[^
]G. कंधरा.
[^]G. धौतकुङ्कुमपत्रलतम्.
[^
]G. युगलम् .
[^
१०]G. कोमलाङ्गुलिनिकरम्. ११ फे
[^११]G. के
न हेतुना.
[^
१२]G. असंस्कृतालकिनीमलिकलेखाम्.
[^१३]G. च बहुल.
[^
१४]G. दृष्टिवेदनाम्.
[^
१५]G. अन्धकार : केशपाश:.
[^
१६]G. आवेदय.
[^
१७ मम. ]G. मम.
[^
१८ कम्पयन्ति.
]G. कम्पयन्ति.
[^
१९]G. तवाधिजा: .
[^
२०]G. निःश्वासमारुता:.
[^
२१]G. क्वचित्.

१८ का०