कादम्बरी /170
This page has not been fully proofread.
विलासवतीदुःखप्रश्नः ]
पूर्वभागः ।
१३७
किमिति च हरिण इव हरिणलाञ्छने न लिखितः कृष्णागुरुपत्र भेङ्गः पयोधरभारें ।
केन कारणेन तन्वीयं हर्रेमुकुट चन्द्रलेखेव गङ्गास्रोतसा न विभूषिता हारेण वरोरु, शिरोधरा ।
कि वृथा वहसि विलासिनि सवदशुजललवधौतपत्रलतं कपोलयुगम् । इदं च कोमलाङ्गलि-
दलनिकरं रक्तोत्पलमिव करतलं किमिति कर्णपूरतामारोपितम् । ईमां च केन हेतुना मा-
निनि, धारयस्यनुपरचितगोरोचनाबिन्दु तिलकौम संयमितालकिन ललाटरेखाम् । अयं च
ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे 'हैष्टिखेदमतिबहुलतिमिरपटलान्धकारः
कुसुमरहितः केशपाशः । प्रसीद, निवेदैय देवि, दुःखनिमित्तम् । एते हि पल्लवमिव
सरागं ¨मे हृदयमाकम्पयन्ति तरलीकृतस्तनांशुकास्तवायताः श्रीसमरुतः । केचिन्मयापरा-
धमणिद्युतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे
इव पयोधरभारें स्तनाभोंगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न
लिखितो न लिपीकृतः । अत्र गौरत्ववर्तुलत्व किंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् । गौरकृष्णत्व-
साम्याच हरिणकृष्णागुर्वैः साम्यम् । केनेति । हें वरोरु, केन कारणेनेयं तन्वीं शिरोधरा ग्रीवा हारेण
मुक्ताकलापेन न विभूषिता नालंकृता । फेनेव गङ्गास्रोतसा स्वर्धुनीप्रवाहेण हरमुकुटो जटाजूटस्तस्मिन्या
चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, सवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा बिन्दवस्तै-
धौंता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवंभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । हृदं चेति ।
कोमलानि मृदूनि यान्यङ्गुलिदलानि तेषां निकर: समूहो यस्मिन्नेवभूर्त करतलं हस्ततलं रक्तोत्पलमिव
कोकनदमिव । किमिति हेतोः कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे
मानिनि हे गर्वयुक्ते, केन हेतुना केन कारणेन इमां प्रत्यक्षगतां ललाउरेखामलिकराजीं धारयसि धत्से ।
तां विशेषयन्नाह – अन्विति । अनुपरचितमविहितं गोरोचना प्रसिद्धा तस्या बिन्दुभिस्तिलकं पुण्ड्रं
यस्याः सा ताम्, असंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव
कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः । क इव । बहु-
लपक्षप्रदोष इव बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनी मुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्र-
लेखादर्शनाद्वहुलग्रहणम् । बहुलपक्षेsपि पश्चिमरात्री चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्र-
लेखा शशिकला तया विरहितः । प्रदोषं विशेषयन्नाह - अतीति । अतिबहुलान्यतिढानि यानि तिमिर-
पटलानि तमोमण्डलानि तैरन्धकारो नेत्ररश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुमचन्द्र-
लेखयोः साम्यम् । कृष्णत्वसाधर्म्यात्केशकलापप्रदोषयोः साम्यम् । सान्त्वनोपक्रमेण चाटुवचनविस्तारमुपसं-
हरनाह — देवीति । हे देवि हे राज्ञि, प्रसीद प्रसन्ना भव । दुःखनिमित्तं मानसिकव्यथाकारणं निवेदय
कथय । एते हीति । हि निश्चितम् । एते दृश्यमानास्तवायता विस्तीर्णाः श्वासमरुतो निःश्वासाः पलवमिव
किसलयमिव सरागम् । राग आरुण्यं प्रीतिश्च तेन सह वर्तमानमित्यर्थः । एतेन पल्लवसाम्यता सूचिता ।
मे • मम हृदयं चित्तमाकम्पयन्ति धूनयन्ति । श्वासमरुतो विशिनष्टि - तरलीति । तरलीकृतं चञ्चलीकृतं
-
टिप्प० – 1 अतिबहुलेत्यादिकं विशेषणं केशपाशेऽप्यन्वेति । कुसुमरहितः अत एव अतिबहुल तिमिर-
पटलवत् अन्धकारः केवलकृष्णवर्णः, इति तद्व्याख्या ।
。
पाठा० - १ किमिति हरिण २ आलिखित: ३ पङ्कपत्रभङ्गः ४ मुकुटे ५ भूषिता ६ वरारोहे. ७ कंधरा.
८ धौतकुङ्कुमपत्रलतम्. ९ युगलम् १० कोमलाङ्गुलिनिकरम्. ११ फेन हेतुना. १२ असंस्कृतालकिनीमलिकलेखाम्.
१३ च बहुल. १४ दृष्टिवेदनाम्. १५ अन्धकार : केशपाश:. १६ आवेदय. १७ मम. १८ कम्पयन्ति.
१९ तवाधिजा: २० निःश्वासमारुता: • २१ कचित्.
१८ का०