2023-12-04 11:04:24 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-

 
"
 
रवर्तिनीभिश्चान्तः पुरवृद्धाभिराश्वास्यमानाम् अवि [^१]रलाश्रुपाता- र्दीकृतदुकूलाम्, अनलंकृताम्,
वाम करतल करतलविनिहितमुख कमलाम्, असंयताकुलालकाम्, [^२]सुनिबिडपर्यङ्किकोपविष्टाम्, [^३]रुद- तीं
ददर्श । [^४]कृताभ्युत्थानां च तां तस्यामेव पर्यङ्कि [^५]काया- मुपवेश्य स्वयं चोपवित्र्ष्याविज्ञात [^६]प्ष्पका-
रणो भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलो भूँलौ [^७]भूपालस्तामवा- दीत्
-
 
4
 
--- 'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्दं रुद्यते । प्रश्ग्रथ्नन्ति हि मुक्ताफेलजालकमिव
बाष्पबिन्दुनिकरमेता [^८]स्तव पक्ष्मपङ्क्तयः । किमर्थं च कृशोदरि, नालंकृतासि । बालातप इव रक्ता-
रविन्द
रविन्द [^९]कोशेयोः किमिति न पार्तिति [^१०]तश्चरणयोरय- मलक्तकरसः । कुसुमशरसरः कलहंसकौ कस्मा-
त्पादपङ्कजस्प-
र्शेन नानुगृहीतौ मणिनूपुरौ । [^११]किंनिमित्तमयम पगतमेखला कलापमूको मध्यभागः ।
 
cid
 
११
 

 
[ टि ]--
फलप्रशंसया विश्वास्यमानाम् । अविरलेति । अविरला निबिडा येऽश्रुपाता नेत्रजलपातास्तैरार्दीकृतं क्लिन्नीकृतं
दुकूलं दुगूलं यया सा ताम् । अनलंकृतामविभूषितां वामकरतलेऽपसव्यपाणि- तले विनिहितं स्थापितं मुखकमल-
माननपद्मं यया सा ताम् । अनेन खेदातिशयद्योतकः स्त्रीजातिस्वभावोऽभिहितः । असंयतेति । असंयता
असंबद्धा आकुला इतस्ततः पर्यस्ता अलकाः कचा यस्यास्ताम् । क्षुद्रः पर्यङ्कः पर्यङ्किका । सुनिबिडा दृढा या
पर्यङ्कि- कोपवेशनमञ्चिका तस्यामुपविष्टामा से दुर्वीं रुदतीं रुदनं कुर्वाणाम् । अन्वयस्तु प्रागेवोक्तः । कृतेति ।
कृतं विहितमभ्युत्थानं संमाननं यया सा ताम् । तां विलासवतीं तस्यामेव पूर्वोक्तायामेव पर्यङ्किका- यामुपवेश्य
संस्थाप्य स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंसोरेकत्रा- वस्थितेरयोग्यत्वात् । तदनन्तरं च भूपालस्तामवादी दिल्य-
त्यन्वयः । स्वयं चेत्यनेन विलासवत्या उपवेशानन्तरं स्वस्योपवेशनेन शोक- निवारक आदरातिशयः सूचितः ।
अविज्ञातेति । अविज्ञातम विदितं बाष्पस्याश्रुपातस्य कारणं [^1]नियामकं येन स तथेति राज्ञो विशेषणम् । भीत
भीत इव स्त्रस्त्रत्रस्त इव । स्नेहातिशयद्योतनार्थं वीप्सा । कर- तलेन पाणितलेन विगतौ दूरीभूतौ बाष्पाम्भसो
नेत्रजलस्य कणौ ययोरेवंभूतौ कपोलो कुर्वन्निति राजविशेषणम् । अन्वयस्तु प्रागेवोक्तः । किं तदित्याह-
देवीति । हे देवि, किमर्थं किंप्रयोजनम् । अन्तरिति । अन्तर्गतो गूढपथगतो यो गुरुशोको गरिष्ठशुक्तस्य
भारो भरस्तेन मन्थरमनुद्भटमशब्दं शब्दवर्जितं रुद्यते रोदनं क्रियते । अत्राशब्दमित्यनेन धीरायाः
स्वभावः प्रद- र्शितः । [^2]अधीरायास्तु सशब्दं रोदनं स्यादिति भावः । श्वेतवर्तु- लत्वसाम्यात्तदुपमानमाह - ग्रश्न-
थ्नन्तीति । एतास्तव पक्षमपङ्क्तयो नेत्ररोमराजयो मुक्ताफलजालकमिव मुक्ताकलापमिव बाष्पबिन्दु- निकरम -
कणसमूहं ग्रश्नन्ति प्थ्नन्ति ग्रथनं कुर्वन्ति । हे कृशोदरि क्षामकुक्षि, किमर्थं किंनिमित्तं नालंकृतासि न भूषितासि ।
'किमिति प्रश्ने । रक्तारविन्दकोशयोर्लोहित कमलमुकुलयोर्बालातप इव तत्कालो- दितसूर्यालोक इव चरणयोः पाद-
योरयमलक्तकरसो यात्रकद्रवो न पातितो न न्यस्तः । कोमलमुकुलाकारसाम्याच्चरणयोः कोशसा- म्यम् । आर-
क्तसाम्यादलक्तकरसे बालातपसाम्यम् । कुसुमेति । कुसुमशरस्य मदनस्य यत्सरः कासारस्तस्त्र कलहंसा विव
कल
विव कल- हंसावनुरणनसाम्यान्मणिनूपुरीरौ पादकटके कस्माद्धेतोः पादपङ्कज- स्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीतौ न
प्रसादपात्रीकृतौ । किंनिमित्तमिति । किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः
समूहस्तेन मूको जै[^3]जडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किडिङ्किण्यपेक्षया कलापेत्युक्तं विवि-

 
i
 
P
 
टिप्प० -

 
[^
1]F. हेतुरित्यर्थः ।
[^
2]F. अत्र धीराऽधीरादिभेदगवेषणं साहित्यज्ञताऽभिनयमात्रं टीकाकारस्य ।
प्रणयकोपे एव धीराधीरादिभेदानां प्रयोगदर्शनात् । किञ्च
-मानेऽपि सशब्दं रोदनं न अधीरायाः
स्वभावः, अपि तु धीराsधीराया एव । यथा हि साहित्यदर्पणे – 'प्रियं सोत्प्रासवकोक्रो- त्त्या मध्या धीरा
दहेद्रुषा । धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ॥'
[^
3]F. निःशब्द इत्यर्थः ।
 
पाठा०-

 
[^
]G. अश्रुबिन्दु.
[^
]G. निबिड .
[^
]G. देवीम्; रुदतीं देवीम्.
[^
]G. कृतप्रत्युत्थानाम्; कृतप्रत्यभ्युत्थानाम्.

[^५]G.
उपविश्य, .
[^
]G. बाष्पवेग.
[^
]G. भूमिपाल: .
[^
]G. तवायता:.
[^
]G. कोशयोरयम्, .
[^
१०]G. चरणयोरलक्तक.
[^
११]G. किंनिमित्रमपगत,
 
.