कादम्बरी /169
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
य
"
रवर्तिनीभिश्चान्तः पुरवृद्धाभिराश्वास्यमानाम् अविरलापाताकृतदुकूलाम्, अनलंकृताम्,
वाम करतल विनिहितमुख कमलाम्, असंयताकुलालकाम, सुनिबिडपर्यङ्किकोपविष्टाम्, रुदतीं
ददर्श । कृताभ्युत्थानां च तां तस्यामेव पर्यङ्किकायामुपवेश्य स्वयं चोपवित्र्याविज्ञात बप्पका-
रणो भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलो भूँपालस्तामवादीत्
-
4
'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्द रुद्यते । प्रश्नन्ति हि मुक्ताफेलजालकमिव
बाष्पबिन्दुनिकरमेतास्तव पक्ष्मपतयः । किमर्थं च कृशोदरि, नालंकृतासि । बालातप इव रक्ता-
रविन्दकोशेयोः किमिति न पार्तितश्चरणयोरयमलक्तकरसः । कुसुमशरसरः कलहंसकौ कस्मा-
त्पादपङ्कजस्पर्शेन नानुगृहीतौ मणिनूपुरौ । किंनिमित्तमयम पगतमेखलाकलापमूको मध्यभागः ।
cid
११
फलप्रशंसया विश्वास्यमानाम् । अविरलेति । अविरला निबिडा येऽश्रुपाता नेत्रजलपातास्तैराकृतं क्लिनीकृतं
दुकूलं दुगूलं यया सा ताम् । अनलंकृतामविभूषितां वामकरतलेऽपसव्यपाणितले विनिहितं स्थापितं मुखकमल-
माननपद्मं यया सा ताम् । अनेन खेदातिशयद्योतकः स्त्रीजातिस्वभावोऽभिहितः । असंयतेति । असंयता
असंबद्धा आकुला इतस्ततः पर्यस्ता अलकाः कचा यस्यास्ताम् । क्षुद्रः पर्यङ्कः पर्यङ्किका । सुनिबिडा दृढा या
पर्यङ्किकोपवेशनमञ्चिका तस्यामुपविष्टामा से दुष रुदतीं रुदनं कुर्वाणाम् । अन्वयस्तु प्रागेवोक्तः । कृतेति ।
कृतं विहितमभ्युत्थानं संमाननं यया सा ताम् । तां विलासवतीं तस्यामेव पूर्वोक्तायामेव पर्यङ्किकायामुपवेश्य
संस्थाप्य स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंसोरेकत्रावस्थितेरयोग्यत्वात् । तदनन्तरं च भूपालस्तामवादी दिल्य-
न्वयः । स्वयं चेत्यनेन विलासवत्या उपवेशानन्तरं स्वस्योपवेशनेन शोकनिवारक आदरातिशयः सूचितः ।
अविज्ञातेति । अविज्ञातम विदितं बाष्पस्याश्रुपातस्य कारणं नियामकं येन स तथेति राज्ञो विशेषणम् । भीत•
भीत इव स्त्रस्त इव । स्नेहातिशयद्योतनार्थं वीप्सा । करतलेन पाणितलेन विगतौ दूरीभूतौ बाष्पाम्भसो
नेत्रजलस्य कणौ ययोरेवंभूतौ कपोलो कुर्वनिति राजविशेषणम् । अन्वयस्तु प्रागेवोक्तः । किं तदित्याह-
देवीति । हे देवि, किमर्थं किंप्रयोजनम् । अन्तरिति । अन्तर्गतो गूढपथगतो यो गुरुशोको गरिष्ठशुक्तस्य
भारो भरस्तेन मन्थरमनुद्भटमशब्द शब्दवर्जितं रुद्यते रोदनं क्रियते । अत्राशब्दमित्यनेन धीरायाः
स्वभावः प्रदर्शितः । अधीरायास्तु सशब्दं रोदनं स्यादिति भावः । श्वेतवर्तुलत्वसाम्यात्तदुपमानमाह - ग्रश्न-
न्तीति । एतास्तव पक्षमपङ्कयो नेत्ररोमराजयो मुक्ताफलजालकमिव मुक्ताकलापमिव बाष्पबिन्दुनिकरम -
कणसमूहं ग्रश्नन्ति प्रथनं कुर्वन्ति । हे कृशोदरि क्षामकुक्षि, किमर्थं किंनिमित्तं नालंकृतासि न भूषितासि ।
'किमिति प्रश्ने । रक्तारविन्दकोशयोर्लोहित कमलमुकुलयोर्बालातप इव तत्कालोदितसूर्यालोक इव चरणयोः पाद-
योरयमलक्तकरसो यात्रकद्रवो न पातितो न न्यस्तः । कोमलमुकुलाकारसाम्याच्चरणयोः कोशसाम्यम् । आर-
तसाम्यादलक्तकरसे बालातपसाम्यम् । कुसुमेति । कुसुमशरस्य मदनस्य यत्सरः कासारस्तस्त्र कलहंसा विव
कलहंसावनुरणनसाम्यान्मणिनूपुरी पादकटके कस्माद्धेतोः पादपङ्कजस्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीतौ न
प्रसादपात्रीकृतौ । किंनिमित्तमिति । किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः
समूहस्तेन मूको जैडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किडिण्यपेक्षया कलापेत्युक्तं विवि-
।
i
P
टिप्प० - 1 हेतुरित्यर्थः । 2 अत्र धीराऽधीरादिभेदगवेषणं साहित्यज्ञताऽभिनयमात्रं टीकाकारस्य ।
प्रणयकोपे एव धीराधीरादिभेदानां प्रयोगदर्शनात् । किञ्च
-मानेऽपि सशब्दं रोदनं न अधीरायाः
स्वभावः, अपि तु धीराsधीराया एव । यथा हि साहित्यदर्पणे – 'प्रियं सोत्प्रासवकोत्त्या मध्या धीरा
दहेद्रुषा । धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ॥' 3 निःशब्द इत्यर्थः ।
पाठा०-१ अश्रुबिन्दु. २ निबिड ३ देवीम्; रुदतीं देवीम्. ४ कृतप्रत्युत्थानाम्; कृतप्रत्यभ्युत्थानाम्.
उपविश्य, ६ बाष्पवेग. ७ भूमिपाल: ८ तवायता:. ९ कोशयोरयम्, १० चरणयोरलक्तक. ११ किंनिमित्रमपगत,