2023-11-27 17:15:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

विलासवतीगौरवम् च यौवनमतिचक्राम, तथा तथा [^१]
 
पूर्वभागः ।
 
च यौवनमतिचक्राम, तथा तथा
विफलमनोरथस्यानपत्यता [^२]जन्मावर्धतास्य
भोगसुखेच्छाभिश्च मनो विजँ[^३]विजघ्ने । नरपति- सहस्रपरिवृतमध्यसहायमिव
मिव
, [^४]भुवनालम्बनमपि [^५]निरोरा- म्बमिवात्मानम मैन्यत ।
 
[^६]मन्यत ।
 
अथ [^७]तस्य चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, वनमा-

लेव मुसलायुधस्य, वेलेव सागरस्य, मदलेखेव दिग्गजस्य, लतेव पोदपस्य, पुष्पोद्गतिरिव

सुरभिमासस्य, चन्द्रिकेव चन्द्रमसः कमलिनीव सरसः तीरापङ्किरिव नभसः,



हंसमालेव मानसस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषण-

मभूत्रिभुवन विस्मयजननी जननीव वनिताविभ्रमाणां सकलान्तःपुरप्रधानभूता महिषी

विलासवती नाम । एकदा चे से तदावासगतस्तां चिन्तास्तिमितेंदृष्टिना शोकमूकेन परिज-

नेन परिवृताम् आदरावस्थितैश्च ध्यानानिमिषलोचनैः कश्च किभिरुपास्यमानाम् अनतिदू-

,
 

 

 

 
१३५
 

 
संतापः । विषयोप-

चक्षुष्मन्त मध्यन्ध-

तथा तथा तेन तेन प्रकारेण । विफलेति । विफलो निष्फलो मनोरथो यस्य स तथा तस्यास्य तारापी-

डस्य राज्ञः संतापो मानसी व्यथाऽवर्धत वृद्धिं प्राप । संतापं विशिनष्टि - अनपत्येति । अनपत्यताऽसंतानत्वं

तस्माज्जन्मोत्पत्तिर्यस्य स तथा । विषयेति । विषयाणां स्रक्चन्दनादीनां य उपभोगोऽसकृद्भोगस्त ज्ज नितं

यत्सुखं सातं तस्येच्छा अभिलाषास्ताभिर्मनश्चित्तं विजघ्ने विरक्तं बभूव । नरेति । नरपतीनां राज्ञां यत्सहस्रं

तेन परिवृतं सहितमप्य सहायमद्वितीयमिव चक्षुष्मन्तं सनेत्रमण्यन्धमिव गताक्षमिव भुवनालम्बनमपि निरा-

लम्बमिव निराधार मिवात्मानं स राजामन्यताज्ञासिष्ट ।
 

 
अथेति । तस्य राज्ञो विलासवती नाम महिषी पट्टराज्ञी भूषणमलंकृतिरभूदित्यन्वयः । कस्य केव ।

हरजटाकलापस्य शंभुजटाजूटस्य चन्द्रलेखेव शशिकलेव । कैटभेति । कैटभारातिर्विष्णुस्तस्य वक्षस्थलं

भुजान्तरं तस्य कौस्तुभो मणिस्तस्य प्रभा कान्तिस्तयैव । मुसलायुधय बलभद्रस्य वनमालाभरणवि.

शेषः सेव । सागरस्य समुद्रस्य वेलेव जलवृद्धिरिव । दिग्गजस्य दिङागस्य मदलेखेव दानराजिरिव । पाद-

पस्य वृक्षस्य लतेव वल्लीव । सुरभिमासस्य वसन्तमासस्य पुष्पोद्गतिरिव कुसुमोद्गम इव । चन्द्रमसः शशिनश्च-

न्द्रिकेव ज्योत्स्नेव । सरसः कासारस्य कमलिनीव नलिनीव । नभस आकाशस्य तारापङ्किरिव नक्षत्रश्रेणिरिव ।

मानसस्य मानसाभिघसरसो हंसमालेव चक्राङ्गपङ्किरिव । मलयस्य मलयाद्रेश्चन्दनवनराजिरिव मलयजव

श्रेणिरिव । शेषस्य नागाधिपस्य फणामणिशिंखेव स्फुटरत्नज्वालेव । त्रिभुवनेति । त्रिभुवनस्य विष्टपत्र -

यस्य यो विस्मय आश्चर्यं तस्य जननी कारिणी । वनितेति । वनिताः स्त्रियस्तासां विभ्रमाणां भ्रूसमुद्भ-

वानां जननीव मातेव । सकलेति । सकलं समग्रं यदन्तःपुरमवरोधस्तस्मिन्प्रधानभूता मुख्या । एक

देति । एकदा एकस्मिन्समये स तारापीडस्तस्या विलासवत्या आवास निवासस्थलं तत्र गतः संस्तां ददर्शा-

द्राक्षीत् । अथ च तस्या विशेषणानि - चिन्तेति । चिन्ता मानसी व्यथा तथा स्तिमिता निश्चला दृष्टिग्यस्य

स तेन । शोकेन शुचा मूकेन जडेनैवंभूतेन परिजनेन परिच्छदेने परिवृतां सहिताम् । आरादिति । आरा-

द्दूरादवस्थितैः कृतावस्थानैर्ध्यानेन चिन्तया निमिषरहिते लोचने येषां तैरेवंभूतैः कञ्चुकिभिः सौविदल्लैरुपा-

स्यमानां सेव्यमानाम् । अनतीति । नातिदूरवर्तिनीभिरन्तःपुरवृद्धाभिरवरोधवृद्धस्त्रीभिराश्वास्यमानां भावि-

टिप्प० - 1 द्वितीयेन सहायकेन शून्यम्, 'शून्यमपुत्रस्य गृहम्' इति न्यायादित्यर्थः ।

इति तात्पर्यम् । 3 विलासानामित्याज्ञयः । 4 परिवारजनेन ।
 

 
2 सेव,
 

 
पाठा० -१ निष्फल. २ महानवर्धत ३ विजहे, विजगाहे. ४ भुवनावलम्बनम् ; भुवनालम्बनम्. ५ निराल-

म्बनम्. ६ अनपत्यममन्यत. ७ अस्य. ८ कैटभारि . ९ कल्पपादपस्य. १० कुसुमोद्गतिः; कुसुमोन्नतिः : ११ तारका.

१२ च तदावासमुपगत; च तदावासगत १३ राजा राशीमिव समुपागतः• १४ दीनदृष्टिना.