2023-11-27 04:21:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
मञ्जरीजालिभिर्मोमौलिभिरावर्जितकुसुम शेखरच्युतमधुसीकर
[^१]
सिक्तनृपसभं दूरावनतिप्रेङ्गोलिंत.
खो [^२]लित. मणिकुण्डल-
कोटिसंघट्टिताङ्गदं राजकमाननाम । तस्मिन्नपि [^३]चलिते चलितचटुलतुरंगबलमु-
खरखुररवबधिरीकृत [^४]भुवनान्तरालाः बै, [^५]बलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदा-
न्धगन्ध-
गजदानधारान्धकाराः, संसर्पदति [^६]बहुलघूँ [^७]धूलिपटलधूस- रित सिन्धवः [^८]प्रचलत्पदातिव-
-
लकै
ल [^९]कलकलरवस्फोटितर्कै [^१०]कर्णविवराः, सरभसोद्बुधुष्यमाणजयशब्द [^११]निर्भरौःरा:, प्रो.द्धूयमानवलचाम-
रसहस्रसंछादिताः, पुञ्जितनरेन्द्रवृन्दकनक- दण्डातपत्र [^१२]संघैट्टनष्टदिवसा दश दिशो बभूवुः ।
 

 
एवं तस्य राज्ञो मै[^१३]मन्त्रिविनिवेशित राज्यभारस्य यौवन सुखमनु- भवतः [^१४]कालो जगाम । भू-
यसा च कालेनान्येषामपि जीव- लोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु [^१५]सुतैमुखदर्शन-

सुखं न लेभे । तथो [^१६]पभुज्यमानमपि निष्फलपुष्पदर्शनं शर- वणमिवान्तःपुर [^१७]मभूत् । [^१८]यथा यथा
 
१३४
 

 
[ टि ]--
राजकं विशेषयन्नाह — आवर्जितो धृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्च्युताः स्रस्ता ये मधुसीकरा रसबि -
न्दवस्तैः सिक्ता सिञ्चिता नृपसभा राजपरिषद्येन तत् । दूरेति । दूराद्दूर- प्रदेशाद्यावनतिः प्रणामस्तत्र प्रेङ्खो-
लितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं
बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवंभूता दश दिशो
बभूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चटुलाश्चपलास्तुरगा अश्वा यस्मिन्नेवंभूतं यद्लं सैन्यं तस्य
मुखरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन बधिरीकृतानि भुवनान्तरालानि मध्यभागा यासु ताः ।
बलेति । बलभरेण सैन्यभारेण प्रचलं कम्पितं यद्वसुधातलं पृथ्वी- तलं तेन दोलायमानाः कम्पाये [^1]यमाना गिरयः
पर्वता यासु ताः । गलदिति । गलन्तः स्रवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभा- स्तेषां दानधारा
मदपङ्क्य एवान्धकारा यासु ताः । संसर्पदिति । संसर्प दूर्ध्वं गच्छदादद्यतिब
हुलमतिदृढं धूलिपटलं रजःस-
मूहस्तेन धूस- रिता धूसरवर्णीकृताः । सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद्गच्छद्यत्पदातीनां
पत्तीनां बलं सैन्यं तस्य कलकलः कोला-
हलस्तल्लक्षणो यो रवः शब्दस्तेन स्फोटितानि भेदं प्रापितानि कर्णवि-
वराणि श्रवणविवराणि यासु ताः । सरभसेति । सरभसं वेगे- नोद्धुष्यमाणो यो जयजयेति शब्दस्तेन निर्भराः ।
भृता इत्यर्थः । प्रोद्भूयेति । प्रोद्धूयेति । प्रोद्धूयमानानि वीज्यमानानि यानि धवलचामरसह- स्राणि तैः संछादिता
आच्छादिताः । पुञ्जितेति । पुञ्जितं संघीभूतं यन्नरेन्द्रवृन्दं तस्य यानि कनकदण्डान्यातपत्राणि छत्राणि
तैः संघट्टो विमर्दस्तेन नष्टा दिवसा यासु ताः ।
 

 
एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्य- मात्ये विनिवेशितः स्थापितो राज्यभारो
येन स तथा तस्य यौवनसुखं तारुण्यसौख्यमनुभवतोऽनुभवविषयी कुर्वतः कालोऽनेहा जगाम गतवान् । भूयसा
भूयिष्ठेन कालेन प्रायो बाहुल्येनान्येषामपि जीव- लोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ ।
लोकाना- मपि सर्वविषयानुभवो जात इत्यर्थः । एकं त्विति । तु पुनरर्थे । सुत- मुखदर्शनजनितं यत्सुखं
तदेकं न लेभे न प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयीक्रियमाणमपि शरवणमिवान्तः-
वान्तः
पुरमभूत् । उभयं विशिष्टि - निष्फलेति । निर्गतं फलं यस्मादेवं- भूतं पुष्पं प्रसूनं रजश्च स्त्रीणां
तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यमतिचक्रामातिक्रमितवान् ।
 

 
टिप्प० -

 
[^
1]F. कम्पमाना इत्याशयः ।
[^
2]F. कनकनिर्मिता दण्डा येषां तानीत्यर्थः ।
 
पाठा० -

 
[^
]G. सिक्तनृपसभदूरावनतिम्; सिक्तसभं दूरावनति .
[^
]G. प्रेसित ङ्खित.
[^
]G. चलति चटुलतुरंग.
[^
]G. भुवनाः.
 

[^
]G. बलप्रचल.
[^
]G. बहल, .
[^
]G. धूलिप्रबलपदातिबल .
[^
]G. प्रबलपदाति .
[^
]G. कलकलस्फोठित .
[^
१०]G. श्रवणविवराः.
[^
११]G. निर-
न्तरा:.
[^
१२]G. संघट्टन.
[^
१३]G. मन्त्रिनिवेशित.
[^
१४]G. कश्चित्कालो.
[^
१५]G. तनय; तोक.
[^
१६]G. संभुज्यमानम्.
[^
१७]G. अभवत्.

[^
१८]G. यथा यथा यौवनम्.