This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
मञ्जरीजालिभिर्मोलिभिरावर्जितकुसुम शेखरच्युतमधुसीकर सिक्तनृपसभं दूरावनतिप्रेङ्गोलिंत.
मणिकुण्डलकोटिसंघट्टितादं राजकमाननाम । तस्मिन्नपि चलिते चलितचटुलतुरंगबलमु-
खरखुररवबधिरीकृतभुवनान्तरालाः बैलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदा-
न्धगन्धगजदानधारान्धकाराः, संसर्पदतिबहुलघूँलिपटलधूसरितसिन्धवः प्रचलत्पदातिव-
-
लकैलकलरवस्फोटितर्कैर्णविवराः, सरभसोद्बुष्यमाणजयशब्द निर्भरौः, प्रो.द्धूयमानघवलचाम-
रसहस्रसंछादिताः, पुञ्जितनरेन्द्रवृन्दकनकदण्डातपत्रसंघैट्टनष्टदिवसा दश दिशो बभूवुः ।
 
एवं तस्य राज्ञो मैत्रिविनिवेशित राज्यभारस्य यौवन सुखमनुभवतः कालो जगाम । भू-
यसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतैमुखदर्शन-
सुखं न लेभे । तथोपभुज्यमानमपि निष्फलपुष्पदर्शनं शरवणमिवान्तःपुरमभूत् । यथा यथा
 
१३४
 
राजकं विशेषयन्नाह — आवर्जितो धृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्युताः सस्ता ये मधुसीकरा रसबि -
न्दवस्तैः सिक्ता सिञ्चिता नृपसभा राजपरिषयेन तत् । दूरेति । दूराद्दूरप्रदेशाद्यावनतिः प्रणामस्तत्र प्रेङ्खो-
लितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं
बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवंभूता दश दिशो
बभूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चटुलाश्चपलास्तुरगा अश्वा यस्मिन्नेवंभूतं यद्वलं सैन्यं तस्य
मुखरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन बधिरीकृतानि भुवनान्तरालानि मध्यभागा यासु ताः ।
बलेति । बलभरेण सैन्यभारेण प्रचलं कम्पितं यद्वसुधातलं पृथ्वीतलं तेन दोलायमानाः कम्पायेमाना गिरयः
पर्वता यासु ताः । गलदिति । गलन्तः स्रवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभास्तेषां दानधारा
मदपङ्क्रय एवान्धकारा यासु ताः । संसर्पदिति । संसर्प दूर्ध्वं गच्छदादतिब
हुलमतिदृढं धूलिपटलं रजःस-
मूहस्तेन धूसरिता धूसरवर्णीकृताः । सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद्गच्छद्यत्पदातीनां
पत्तीनां बलं सैन्यं तस्य कलकलः कोलाहलस्तलक्षणो यो रवः शब्दस्तेन स्फोटितानि भेदं प्रापितानि कर्णवि-
वराणि श्रवणविवराणि यासु ताः । सरभसेति । सरभसं वेगेनोद्धुष्यमाणो यो जयजयेति शब्दस्तेन निर्भराः ।
भृता इत्यर्थः । प्रोद्भूयेति । प्रोद्धूयमानानि वीज्यमानानि यानि धवलचामरसहस्राणि तैः संछादिता
आच्छादिताः । पुञ्जितेति । पुञ्जितं संघीभूतं यन्नरेन्द्रवृन्दं तस्य यानि कनकदण्डान्यातपत्राणि छत्राणि
तैः संघट्टो विमर्दस्तेन नष्टा दिवसा यासु ताः ।
 
एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्यमात्ये विनिवेशितः स्थापितो राज्यभारो
येन स तथा तस्य यौवनसुखं तारुण्यसौख्यमनुभवतोऽनुभवविषयी कुर्वतः कालोऽनेहा जगाम गतवान् । भूयसा
भूयिष्ठेन कालेन प्रायो बाहुल्येनान्येषामपि जीवलोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ ।
लोकानामपि सर्वविषयानुभवो जात इत्यर्थः । एकं त्विति । तु पुनरर्थे । सुतमुखदर्शनजनितं यत्सुखं
तदेकं न लेभे न प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयीक्रियमाणमपि शरवणमि-
वान्तःपुरमभूत् । उभयं विशिष्टि - निष्फलेति । निर्गतं फलं यस्मादेवंभूतं पुष्पं प्रसूनं रजश्च स्त्रीणां
तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यमतिचक्रामातिक्रमितवान् ।
 

 
टिप्प० -1 कम्पमाना इत्याशयः । 2 कनकनिर्मिता दण्डा येषां तानीत्यर्थः ।
 
पाठा० -१ सिक्तनृपसभदूरावनतिम्; सिक्तसभं दूरावनति २ प्रेसित ३ चलति चटुलतुरंग. ४ भुवनाः.
 
५ बलप्रचल. ६ बहल, ७ धूलिप्रबलपदातिबल ८ प्रबलपदाति ९ कलकलस्फोठित १० श्रवणविवराः. ११ निर-
न्तरा:. १२ संघट्टन. १३ मन्त्रिनिवेशित. १४ कश्चिकलो. १५ तनय; तोक. १६ संभुज्यमानम्. १७ अभवत्.
१८ यथा यथा यौवनम्.