2023-11-26 16:55:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासगौरवम् ]
 
पूर्वभागः ।
 
१३३
 
टवातायनेष्वनवरतदह्यमा नकृष्णागुरुधूमरक्तैरिव [^१]पारावतैरै [^२]रधिष्ठित विटङ्केषु [^३]प्रासादकुक्षिषु
कतिपयाप्तसुहृत्परिवृतो वीणावेणुमुरजर् [^४]मनोहरमवरोधसंगीतकं ददर्श । किं बे[^५]ब- हुना यद्यतिर -
मणीयम [^६]यमविरुद्ध [^७]मायत्यां तदात्वे च तत्तद- नाक्षिप्तचेता: परिसमाप्तत्वादन्येषां पृथिवीव्यापा-
राणां सिषेवे, [^८]नत्वतिव्यसनितया । प्रमुदिते [^९]तप्रजस्य परिसमाप्तसकल मँ- [^१०]मही प्रयोजनस्य नरपते-
[^११]र्विषयोपभोगलीला भूषणम् । इतरस्य तु विडम्बना । प्रजानुराग [^१२]हेतोरन्तरान्तरा दर्शनं

ददौ । सिंहासनं च निमित्तेष्वारुरोह ।
 

 
[^१३]
शुकनासोऽपि [^१४]महान्तं राज्यभारमनायासेनैव प्रज्ञाब- लेन बभार । [^१५]यथैव राजा [^१६]कार्याण्य-
कार्षीत्तद्वदसावपि [^१५]द्विगुणीकृतप्रजानुरागो राजकार्याणि [^१८]चक्रे । तमपि [^१९]चलितचूडामणिमरीचि-
W
 

 
[ टि ]--
गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहन-
केतनस्तेन रक्तैरिव रञ्जितैरिव । एवंभूतैः पारावतैः कलरवैरधिष्ठिता आश्रिता विटङ्काः कपोतपाल्यो येषु ।
कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्य- यिताः । 'आप्तप्रत्ययितौंतौ समौ' इति कोशः । एवंविधाः
सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, तैर्मनो-
हरमतिरमणीयम् । संगीत विशे- षणम् । किं बहुनेति । किं बहुवक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्व-
तिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तूत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं
स्यात्' इति कोशः । अविरुद्धं नीतिशास्त्राप्रतिषिद्धं तत्तत्सिषेवे सेवितवान् । अतिसुन्द- रेण वस्तुना क्षिप्तश्चेत्तदा
व्यसनमेवेत्याह - अनाक्षिप्तेति । अना- क्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह -

परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णीभूत- त्वात् न त्वतिव्यसनितया तदासक्ततयेत्यर्थः ।
एतदेवार्थान्तन्यासेन विवृणोति -- प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा
तस्य । परीति । परिसमाप्तं परिपूर्णीकृतं सकलं समग्रं महीप्रयोजनं वसुधाकृत्यं यस्यैवंभूतस्य नरपतेः ।
विषयेति । विषयाः स्रक्चन्दनादयस्तेषामसकृदुपभुज्यन्त इत्युपभोगास्तेषां लीला क्रीडा भूषणमलंकारः ।
आदरातिशयाभावेनेत्यर्थः । 'असक्तः सुखमन्वभूत्' इत्युक्तत्वात् । इतरस्य त्वेतद्भिन्नस्य तु बिडम्बना राज-
कृत्यासाधकत्वेन व्यसनमेव । प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये
दर्शनं जनानां सौधा- वलोकनं ददौ दत्तवान् । असकृद्हिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमि-
त्तेषु तथाविधकैा [^1]कारणेषु सिंहासनं नृपासन- मारुरोहारूढवान् । शुकनासोऽपीति । शुकनासनामा मन्त्रैिरपि

महान्तं गरिष्ठमपि राज्यभारमाधिपत्यधुरमनायासेनैव प्रयासं विना प्रज्ञाबलेन राजनीतिबलेन बभार दने ।
ध्रे । यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्य कार्षीत्कृतवांस्तद्वदसौ शुकनासोऽपि । द्विगु
णीति । पूर्वस्माद्विगुणीकृतोऽधिकीकृतः प्रजायाः प्रकृतेरनु- रागः स्नेहो येन स तथा राजकार्याणि खखास्वस्वामि-
कृत्यानि चक्रेऽका- र्षीत् । तमपीति । तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे । कैः । मौलिभि-
मै
र्मस्तकैः कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः ।
 
टिप्प० -

 
[^
1]F. विचारसापेक्षेषु शासनव्यापारेषु, पर्वोत्सवादिषु वा ।
[^
2]F. मन्त्रीत्यर्थः ।
 
पाठा० ---

 
[^
]G. पारापतैः . .
[^
]G. अध्यासित .
[^
]G. महाप्रासाद .
[^
]G. मनोहरतममन्तः पुरसंगीतकम्; मनोहरमन्तःपुरसंगीत-
कम्.
[^
]G. किं च बहुना .
[^
]G. अभिमतमविरुद्धम् .
[^
]G. आयत्या.
[^
]G. न तु व्यसनितया .
[^
]G. प्रजस्य हि .
[^
१०]G. महीमण्डल-
प्रयोजनस्य.
[^
११]G. विषयसंभोग.
[^
१२]G. हेतोश्चान्तरान्तरा; हेतोश्चान्तरा.
[^
१३]G. शुकनासोऽपि राज्यभारम्.
[^
१४]G. महान्तं
तम् ; महान्तमपि.
[^
१५]G. यथैव च . .
[^
१६]G. सर्वकार्याणि .
[^
१७]G. द्विगुणीकृतः प्रजानुरागश्चक्रे, .
[^
१८]G. चकार.
[^
१९]G. चावलित.