कादम्बरी /166
This page has not been fully proofread.
शुकनासगौरवम् ]
पूर्वभागः ।
१३३
टवातायनेष्वनवरतदह्यमा नकृष्णागुरुधूमरक्तैरिव पारावतैरैधिष्ठित विटङ्केषु प्रासादकुक्षिषु
कतिपय तसुहृत्परिवृतो वीणावेणुमुरजर्मनोहरमवरोधसंगीतकं ददर्श । किं बेहुना यद्यतिर -
मणीयम विरुद्धमायत्यां तदात्वे च तत्तदनाक्षिप्तचेता: परिसमाप्तत्वादन्येषां पृथिवीव्यापा-
राणां सिषेवे, नत्वतिव्यसनितया । प्रमुदितेप्रजस्य परिसमाप्तसकल मँही प्रयोजनस्य नरपते-
विषयोपभोगलीला भूषणम् । इतरस्य तु विडम्बना । प्रजानुराग हेतोरन्तरान्तरा दर्शनं
ददौ । सिंहासनं च निमित्तेष्वारुरोह ।
शुकनासोऽपि महान्तं राज्यभारमनायासेनैव प्रज्ञावलेन बभार । यथैव राजा कार्याण्य-
कार्षीत्तद्वदसावपि द्विगुणीकृतप्रजानुरागो राजकार्याणि चक्रे । तमपि चलितचूडामणिमरीचि-
W
गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहन-
केतनस्तेन रक्तैरिव रजितरिव । एवंभूतैः पारावतैः कलरवैरधिष्ठिता आश्रिता विटङ्काः कपोतपाल्यो येषु ।
कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्ययिताः । 'आप्तप्रत्ययितौं समौ' इति कोशः । एवंविधाः
सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, तैर्मनो-
हरमतिरमणीयम् । संगीत विशेषणम् । किं बहुनेति । किं बहुवक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्व-
तिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तूत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं
स्यात्' इति कोशः । अविरुद्धं नीतिशास्त्राप्रतिषिद्धं तत्तत्सिषेवे सेवितवान् । अतिसुन्दरेण वस्तुना क्षिप्तश्चेत्तदा
व्यसनमेवेत्याह - अनाक्षिप्तेति । अनाक्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह -
परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णीभूतत्वात् न त्वतिव्यसनितया तदासक्ततयेत्यर्थः ।
एतदेवार्थान्तरन्यासेन विवृणोति -- प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा
तस्य । परीति । परिसमाप्तं परिपूर्णीकृतं सकलं समग्रं महीप्रयोजनं वसुधाकृत्यं यस्यवंभूतस्य नरपतेः ।
विषयेति । विषयाः स्रक्चन्दनादयस्तेषामसकृदुपभुज्यन्त इत्युपभोगास्तेषां लीला क्रीडा भूषणमलंकारः ।
आदरातिशयाभावेनेत्यर्थः । 'असक्तः सुखमन्वभूत्' इत्युक्तत्वात् । इतरस्य त्वेतद्भिन्नस्य तु बिडम्बना राज-
कृत्यासाधकत्वेन व्यसनमेव । प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये
दर्शनं जनानां सौधावलोकनं ददौ दत्तवान् । असकृद्व हिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमि-
तेषु तथाविधकैारणेषु सिंहासनं नृपासनमारुरोहारूढवान् । शुकनासोऽपीति । शुकनासनामा मन्त्रैिरपि
महान्तं गरिष्ठमपि राज्यभारमाधिपत्यधुरमनायासेनैव प्रयास विना प्रज्ञाबलेन राजनीतिबलेन बभार दने ।
यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्य कार्षीत्कृतवांस्तद्वदसौ शुकनासोऽपि । द्विगु
णीति । पूर्वस्माद्विगुणीकृतोऽधिकीकृतः प्रजायाः प्रकृतेरनुरागः स्नेहो येन स तथा राजकार्याणि खखामि-
कृत्यानि चक्रेऽकार्षीत् । तमपीति । तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे । कैः । मौलिभि-
मैस्तकैः कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः ।
टिप्प० -1 विचारसापेक्षेषु शासनव्यापारेषु, पर्वोत्सवादिषु वा । 2 मन्त्रीत्यर्थः ।
पाठा० ---१ पारापतैः . २ अध्यासित ३ महाप्रासाद ४ मनोहरतममन्तः पुरसंगीतकम्; मनोहरमन्तःपुरसंगीत-
कम्. ५ किं च बहुना ६ अभिमतमविरुद्धम् ७ आयत्या. ८ न तु व्यसनितया ९ प्रजस्य हि १० महीमण्डल-
प्रयोजनस्य. ११ विषयसंभोग. १२ हेतोश्चान्तरान्तरा; हेतोश्चान्तरा. १३ शुकनासोऽपि राज्यभारम्. १४ महान्तं
तम् ; महान्तमपि. १५ यथैव च . १६ सर्वकार्याणि १७ द्विगुणीकृतः प्रजानुरागश्चक्रे, १८ चकार. १९ चावलित.