2023-11-26 16:37:32 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१३२
 
कादम्बरी ।
 
[ कथायाम्-
जत । कदाचिदशोकपादप इव युवतिचरणतलप्रहार [^१]संक्रा- न्तालक्तको रागमुवाह । कदाचि-
न्मुसलायुध इव चन्दनधै [^२]धवल: कै[^३]कण्ठावसक्तोल्लसल्लोलकुसुममालः पानमसेवत । कदा- चिद्र-
न्धगज इव मदरक्तकपोलदोलायमानकर्ण [^४]पल्लवो मदकल: काननं विके[^५]विकचवनलताकुसुमसुर-
भिपरिमलं जगाहे । कदाचिं [^६]चित्क्वणितमणिनूपुरनिनादानन्दितमानसो हंस इव कमलवनेषु
रेमे । कदाचिन्मृगपतिरिव स्कॅ[^७]स्कन्धावलम्बिकेसर- माल: क्रीडा [^८]पर्वतेषु विचचार । कदाचिन्म-
धुकर इव विजृम्भ- माणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम । [^९]कदाचिन्नीलपटें- [^१०]पटविरचिताव-
गुण्ठनो [^११]बहुलपक्षप्रदोषदत्तसंकेता: सुन्दरीरभिससार । कै[^१२]कदाचिञ्च्च विघटित [^१३]कनककपाटं प्रक-

 
"

 
 
[ टि ]--
तस्य धारा पङ्क्तिस्तस्या यः स्वादस्तेन मुदितो हर्षितः । कदाचिदिति । अशोकपादपः कङ्केल्लिवृक्षस्तद्वदिव
अशोकसाम्यं प्रदर्शयन्नाह – युवतीति । युवतीनां स्त्रीणां यश्चरणतलप्रहारः पाद- तलाभिघातस्तेन संक्रान्तो
लग्नोलक्तको यस्य स तथा रागमनुरा-
गमुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् ।
कदाचिदिति । पूर्ववत् । मुसलायुधो बलभद्रस्तद्वदिव । तत्साम्यमाह - चन्दनेति । चन्दनेन हरिच-
न्दनाङ्गरागेण धवलः शुभ्रः । पक्षे चन्दनवद्धवलः । कण्ठेति । कण्ठावसक्तोल्लसन्ती लोला कुसुममाला यस्य
स तथा पानं मद्यपानमसेवताभजत । कदा- चिदिति । गन्धगजो गन्धहस्ती तद्वदिव काननं वनं जगा
हे विलो- डयामासेत्यन्वयः । कीदृशः । मदेति । मदेन रक्कोतो यः कपोल- स्तस्मिन्दोलायमानः कर्णपल्लवो यस्य स
तथा । मदकलो मदेन कलो मनोहरो विकचानि विकस्वराणि यानि वनलताकुसुमानि तेषां सुरभिः परि-
मलो यस्मिन् । कदाचिदिति । हंस इव मराल इव कमलवनेषु नलिनकाननेषु रेमेरमत । कीदृशः ।
क्वणितेति । क्वणितानि शब्दितानि यानि मणिनूपुराणि रत्नपा [^1]दाङ्गैदानि तेषां निनादः शब्दस्तेनानन्दितं मुदितं
मानसं यस्य तथा । पक्षे क्व- णितमणिनूपुरवयो निनादस्तेनानन्दितं [^2]मानसं सरो येनेति विग्रहः । कदाचि-
दिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडा शैलेषु विचचार व्यहार्षीत् । तमेव विशिनष्टि - रुक-
स्कन्धेति । स्कन्धावलम्बिनी केसरोपै [^3]पयुक्ता माला स्रग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटाप-
ङ्किर्यस्येति विग्रहः । कदाचि- दिति । मधुकर इव भ्रमर इव लतागृहेषु वल्लीगृहेषु बभ्राम भ्रमणं चकार ।
कीदृशेषु लतागृहेषु । विजृम्भेति । विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु । कदाचि-
दिति । सुन्दरीः प्रमदा अभिससार सेवितवान् । कीदृक् । नीलेति । नीलपटेन श्यामपटेन विरचितं विहि-
तमवगुण्ठनं शिरोवेष्टनं येन स तथा । सुन्दरीविंर्विशि- नष्टि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो
यामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः । कदाचिच्चेति । अवरोधस्यान्तः पुरस्य संगीतकं नृत्यादि ददर्शा-
द्राक्षीदित्यन्वयः । केषु । प्रासादा भूपगृहा- स्तेषां कुक्षयो मध्यभागास्तेषु । तानेव विशिनष्टि - विघटितेति ।

विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति क्रियाविशेषणम् । प्रकटा वातायनाः स्पष्ट
 
-
 
टिप्प० -

 
[^
1]F. रत्ननिर्मितानि पादभूषणानि (मञ्जीराः ) इत्यर्थः । अङ्गदस्तु भुजे प्रसिद्धः ।
[^
2]F. वास्तवे तु
हंसपक्षेऽप्ययमेवार्थः । कामिनीनूपुररवेण तस्यापि मनःप्रहर्षस्य प्रसिद्धत्वात् ।
[^
3]F. बकुलमाला, इत्यर्थः ।

[^
4]F. स्वयभिसरणेन संगतवान् ।
 
पाठा० -

 
[^
]G. अलक्तकरसो रागम्.
[^
]G. धवलकण्ठ .
[^
]G. कण्ठावसक्तलोल; कण्ठावसक्तसमुल्लसल्लोल, .
[^
]G. पल्लवः कुसु-
मसुरभि.
[^
विकस्वर. ]G. विकस्वर.
[^
]G. क्वणन्.
[^
]G. स्कन्धावलम्बित .
[^
]G. पर्वतकेषु.
[^
]G. कदाचिद्वनलताग्रथितमौलिर्नक्तमालकुसुमस्तबकरचित-
करचित
शेखरः शुकपक्षरागमधरयता नलिनीदलकोमलेन हरितकञ्चु- केनावच्छिन्न शरीरावयवः कोदण्डदण्डसनाथीकृतवा-
भेतरांसदेशः पुरः प्रधावितानेकश्वगणिवागुरिकैरुपदिश्यमानवर्त्मानेकपक्षिजाति- समालम्बनव्यग्रपाणिभिः परिहासपेशलं
सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु परिबभ्राम । कदाचिन्नीलपटकृतावगुण्ठन:.

[^
१०]G. पटावगुण्ठनः पटरचितावगुण्ठन: .
[^
११]G. बहुलनिशाप्रदोष.
[^
१२]G. कदाचिद्विघटित.
[^
१३]G. कपाटप्रकट,
 
1
 
.