This page has not been fully proofread.

१३२
 
कादम्बरी ।
 
[ कथायाम्-
जत । कदाचिदशोकपादप इव युवतिचरणतलप्रहारसंक्रान्तालक्तको रागमुवाह । कदाचि-
न्मुसलायुध इव चन्दनधैवल: कैण्ठावसक्तोल्लसल्लोलकुसुममालः पानमसेवत । कदाचिद्र-
न्धगज इव मदरक्तकपोलदोलायमानकर्णपल्लवो मदकल: काननं विकेचवनलताकुसुमसुर-
भिपरिमलं जगाहे । कदाचिंत्कणितमणिनूपुरनिनादानन्दितमानसो हंस इव कमलवनेषु
रेमे । कदाचिन्मृगपतिरिव स्कॅन्धावलम्बिकेसरमाल: क्रीडापर्वतेषु विचचार । कदाचिन्म-
धुकर इव विजृम्भमाणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम । कदाचिन्नीलपटेंविरचिताव-
गुण्ठनो बहुलपक्षप्रदोषदत्तसंकेता: सुन्दरीरभिससार । कैदाचिञ्च विघटितकनककपाटं प्रक-

 
"तस्य धारा पतिस्तस्या यः स्वादस्तेन मुदितो हर्षितः । कदाचिदिति । अशोकपादपः कलिवृक्षस्तद्वदिव
अशोकसाम्यं प्रदर्शयन्नाह – युवतीति । युवतीनां स्त्रीणां यश्चरणतलप्रहारः पादतलाभिघातस्तेन संक्रान्तो
लग्नोडलक्तको यस्य स तथा रागमनुरागमुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् ।
कदाचिदिति । पूर्ववत् । मुसलायुधो बलभद्रस्तद्वदिव । तत्साम्यमाह - चन्दनेति । चन्दनेन हरिच-
न्दनाङ्गरागेण धवलः शुभ्रः । पक्षे चन्दनवद्धवलः । कण्ठेति । कण्ठावसक्तोल्लसन्ती लोला कुसुममाला यस्य
स तथा पानं मद्यपानमसेवताभजत । कदाचिदिति । गन्धगजो गन्धहस्ती तद्वदिव काननं वनं जगा
विलोडयामासेत्यन्वयः । कीदृशः । मदेति । मदेन रक्को यः कपोलस्तस्मिन्दोलायमानः कर्णपलवो यस्य स
तथा । मदकलो मदेन कलो मनोहरो विकचानि विकस्वराणि यानि वनलताकुसुमानि तेषां सुरभिः परि-
मलो यस्मिन् । कदाचिदिति । हंस इव मराल इव कमलवनेषु नलिनकाननेषु रेमेडरमत । कीदृशः ।
क्वणितेति । क्वणितानि शब्दितानि यानि मणिनूपुराणि रत्नपादाङ्गैदानि तेषां निनादः शब्दस्तनानन्दितं मुदितं
मानसं यस्य तथा । पक्षे कणितमणिनूपुरवयो निनादस्तेनानन्दितं मानसं सरो येनेति विग्रहः । कदाचि-
दिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडा शैलेषु विचचार व्यहार्षीत् । तमेव विशिनटि - रुक-
न्धेति । स्कन्धावलम्बिनी केसरोपैयुक्ता माला सग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटाप-
ङ्किर्यस्येति विग्रहः । कदाचिदिति । मधुकर इव भ्रमर इव लतागृहेषु वल्लीगृहेषु बभ्रम भ्रमणं चकार ।
कीदृशेषु लतागृहेषु । विजृम्भेति । विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु । कदाचि-
दिति । सुन्दरीः प्रमदा अभिससार सेवितवान् । कीदृक् । नीलेति । नीलपटेन श्यामपटेन विरचितं विहि-
तमवगुण्ठनं शिरोवेष्टनं येन स तथा । सुन्दरीविंशिनष्टि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो
यामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः । कदाचिच्चेति । अवरोधस्यान्तः पुरस्य संगीतकं नृत्यादि ददर्शा-
द्राक्षीदित्यन्वयः । केषु । प्रासादा भूपगृहास्तेषां कुक्षयो मध्यभागास्तेषु । तानेव विशिनष्टि - विघटितेति ।
विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति क्रियाविशेषणम् । प्रकटा वातायनाः स्पष्ट •
 
-
 
टिप्प० - 1 रत्ननिर्मितानि पादभूषणानि (मञ्जीराः ) इत्यर्थः । अङ्गदस्तु भुजे प्रसिद्धः । 2 वास्तवे तु
हंसपक्षेऽप्ययमेवार्थः । कामिनीनूपुररवेण तस्यापि मनःप्रहर्षस्य प्रसिद्धत्वात् । 3 बकुलमाला, इत्यर्थः ।
4 स्वयभिसरणेन संगतवान् ।
 
पाठा० - १ अलक्तकरसो रागम्. २ धवलकण्ठ ३ कण्ठावसक्तलोल; कण्ठावसक्तसमुलसल्लोल, ४ पलवः कुसु-
मसुरभि. ५ विकस्वर. ६ कणन्. ७ स्कन्धावलम्बित ८ पर्वतकेषु. ९ कदाचिद्वनलताग्रथितमौलिर्नक्तमालकुसुमस्तब-
करचितशेखरः शुकपक्षरागमधरयता नलिनीदलकोमलेन हरितकचुकेनावच्छिन्न शरीरावयवः कोदण्डदण्डसनाथीकृतवा-
भेतरांसदेशः पुरः प्रधावितानेकश्वगणिवागुरिकैरुपदिश्यमानवर्त्मानेकपक्षिजातिसमालम्बनव्यग्रपाणिभिः परिहासपेशलं
सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु परिबभ्राम । कदाचिन्नीलपटकृतावगुण्ठन:.
११० पटावगुण्ठनः पटरचितावगुण्ठन: ११ बहुलनिशाप्रदोष. १२ कदाचिद्विघटित. १३ कपाटप्रकट,
 
1