2023-12-04 10:39:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कदाचित्कुचचन्दनचूर्ण [^१]धवलितोर्मिमालम्, चटुलतुलाकोटि- वाचालचरणाल [^२]क्तकसिक्तहंसमिथुनम्, अलक [^३]निपति-
तकुसुमसारम्, प्लवमान [^४]कर्णपूरकुवलयदलम्, उन्नतनि- [^५]तम्बक्षोभजर्जरिततरंगम्, उद्दलितनालपर्यस्तनलिननिपतित- धूलिपटलम्, अनवरत [^६]करास्फालनस्फु [^७]रत्फेनबिन्दु-
चन्द्रकितं सावरोधजनो जलक्रीडया गृहदीर्घिकाणामम्भश्चकार ।
 
कदाचित्संकेतवञ्चिताभिः प्रणयिनीभिराबद्धभङ्गुर [^८]भृकुटि- भिरारणितपारि [^९]हार्यमुखरभुजलताभिर्बकुलकुसुमा [^१०]व- लीभिः संयतचरणो नखकिरणविमिश्रै: कुसुमदामभिः कृतापराधो
दिवसमताड्यत । कदाचिद्बहुकुलतरुरिव [^११]कामिनीगण्डूष- सीधु [^१२]धारास्वादमुदितो विकाशमभ-
 
[ टि ]-- कदाचिदिति । सहावरोधजनैरन्तःपुरलोकैर्वर्तमानः स राजा जलक्रीडया गृहदीर्घिकाणां भवनवापीनामम्भः पानीयमे- तादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचा- नां स्तनानां यानि चन्दनचूर्णानि मलयजक्षोदास्तैर्धवलिता शुभ्री- कृतोर्मिमाला कल्लोलपङ्क्तिर्यस्य तत् । चटुलेति । चटुला मनो- हरा ये तुला [^1]कोटयस्तैर्वाचाला मुखरा ये चरणाः पादास्तेषां योऽलक्तकस्तेन सिक्तं सिञ्चितं हंसमिथुनं सितच्छदद्वन्द्वं यस्मिं- स्तत्तथा । अलकेति । अलकाच्चूर्णकुन्तलानिपतितं त्रस्तं कुसुम- [^2]सारं पुष्परहस्यं यस्मिंस्तत्तथा । प्लवेति । प्लवमानं [^3]नि- मज्जमानं कर्णपूररूपं कुवलयदलं यस्मिन् । उन्नतेति । उन्नता उच्चा ये नितम्बा आरोहास्तैः क्षोभ आस्फालनं तेन जर्जरिता: क्षीणास्तरंगाः कल्लोला यस्मिंस्तत् । उद्दलितेति । उद्दलितान्यु- च्छिन्नानि नालानि बिसानि येषामेवंभूतानि पर्य [^4]स्तानि नलि- नानि कमलानि तेभ्यो निपतितं स्रस्तं धूलिपटलं परागसमूहो यस्मिन् । अनवरतेति । अनवरतकरास्फालनेन निरन्तरहस्ता- स्फोटनेन स्फुरन्तो देदीप्यमाना ये फेनबिन्दवोऽब्धिकफपृषता- स्तैरेव संजाता चन्द्रका मेचका यस्मिन् । 'तारकादिभ्य इतच्' इति । चन्द्रकितं मेचकितम् । अन्वयस्तु पूर्वोक्तः ।
 
कदाचिदिति । स [^5]दिवसं प्रतिदिवसं प्रणयिनीभिर्मानिनीभि- रताड्यत ताडितोऽभूदित्यन्वयः । 'ताड व्यथने' इति धातुः । लुङन्तप्रयोगः । अत्र यद्यपि प्रथमतः कर्तृत्वेन निर्देशादितश्च कर्म- त्वेनेति 'कारकप्रक्रमभङ्गस्तथापि वाक्यभेदाददोषः । कीदृशः । कृतेति । कृतो विहितोऽपराध आगो येन स तथा । पुनः कीदृक् ।
संयतौ बद्धौ चरणौ पादौ यस्य स तथा । कैः । कुसुमदामभिः पुष्प- मालाभिः । किंविशिष्टाभिः । बकुलेति । बकुलः केसरस्तस्य कुसु- मानां पुष्पाणामावलिः श्रेणिर्येषु तैः । नखेति । नखानां पुनर्भवानां किरणा मयूखास्तैर्विमिश्रैः संपृक्तैः। अथ च प्रणयिनीनां विशेषणानि - संकेतेति । अमुकस्थले मयावश्यमागन्तव्यमिति संकेतस्तेन वञ्चिताभिर्निष्फलीभूताभिः । सागता, स्वयं तु नागत इति भावः । अत एवाबद्धा विरचिता भकुरा वक्रा भृकुटयो याभिस्ताः । आर- णितेति । आरणितं शब्दायमानं यत्पारिहार्यं कङ्कणं तेन मुखरा
वाचाला भुजलता यासां ताभिः । कदाचिदिति । बकुलतरुः केसर- वृक्षस्तद्वदिव विकाशं विकस्वरतामभजत प्राप्तवान् । तमेव विशिनष्टि- कामिनीति । कामिनीनां स्त्रीणां यो गण्डूषश्चलुकस्तस्य यत् सीधु मद्यं
 
[^1]F. चटुलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नूपुराभ्यां वाचालयोः चरणयोः अलक्तकेन सिक्तं हंस मिथुनम् (नूपुररवाकृष्टौ हंस- दम्पती) यस्मिन् तत् । इति व्याख्यानमुचितम् ।
[^2]F. 'कुसुमनिकरशारम्' इत्येव पाठः। अलकनिपतितैः कुसुम- निकरैः शारं चित्रमिति तद्व्याख्या ।
[^3]F. प्लवमानानि जलोपरि संतरन्ति कर्णपूराणाम् आकण्ठ- मग्नमहिलाकर्णाभरणीकृतानां कुवलयानां नीलोत्पलानां दलानि यस्मिन् तत् । इति व्याख्योचिता ।
[^4]F. उच्छिन्ननालत्वाज्जलोपरि पतितानि यानि कमलानि,
इत्यर्थः।
[^5]F. समस्तं दिवसमभिव्याप्येत्यर्थः । प्रतिदिनताडनार्थस्तु टीकाकारस्य राजनि परमानुग्रह एव ।
 
[^१]G. धवलोर्मि.
[^२]G. अलक्त.
[^३]G. कुसुमनिकरसारम्.
[^४]G. कर्णकुवलय.
[^५]G. संक्षोभ.
[^६]G. करतल.
[^७]G. विस्फुरत्.
[^८]G. भृकुटीभिः, भ्रुकुटीभिः, भ्रकुटीभिः.
[^९]G. मणिपरिहार्य.
[^१०]G. आवलीसंयत.
[^११]G. कामिनीनां गण्डूष.
[^१२]G. आस्वादन.